KaryaVidhan

श्रीमद्भागवतमहापूराणम् पञ्चमस्कन्ध

Page 9 of 12

ं तव भारतोत्तम जम्बूद्वीपवर्षविभागो
यथोपदेशमुपवर्णित इति ॥ ३१॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
पञ्चमस्कन्धे जम्बूद्वीपवर्णनं नामैकोनविंशोऽध्यायः ॥ १९॥

॥ ॐ नमो भगवते वासुदेवाय ॥
॥ विंशोऽध्यायः ॥

श्रीशुक उवाच ।
अतः परं प्लक्षादीनां प्रमाणलक्षणसंस्थानतो
वर्षविभाग उपवर्ण्यते ॥ १॥

जम्बूद्वीपोऽयं यावत्प्रमाणविस्तारस्तावता क्षारोदधिना
परिवेष्टितो यथा मेरुर्जम्ब्वाख्येन लवणोदधिरपि ततो
द्विगुणविशालेन प्लक्षाख्येन परिक्षिप्तो यथा परिखा
बाह्योपवनेन प्लक्षो जम्बूप्रमाणो द्वीपाख्याकरो हिरण्मय
उत्थितो यत्राग्निरुपास्ते सप्तजिह्वस्तस्याधिपतिः
प्रियव्रतात्मज इध्मजिह्वः स्वं द्वीपं सप्तवर्षाणि विभज्य
सप्तवर्षनामभ्य आत्मजेभ्य आकलय्य स्वयमात्मयोगे-
नोपरराम ॥ २॥

शिवं यवसं सुभद्रं शान्तं क्षेमममृतमभयमिति
वर्षाणि तेषु गिरयो नद्यश्च सप्तैवाभिज्ञाताः ॥ ३॥

मणिकूटो वज्रकूट इन्द्रसेनो ज्योतिष्मान् सुपर्णो
हिरण्यष्ठीवो मेघमाल इति सेतुशैलाः । अरुणा
नृम्णाङ्गिरसी सावित्री सुप्रभाता ऋतम्भरा सत्यम्भरा
इति महानद्यः यासां जलोपस्पर्शनविधूतरजस्तमसो
हंसपतङ्गोर्ध्वायनसत्याङ्गसंज्ञाश्चत्वारो वर्णाः सहस्रायुषो
विबुधोपमसन्दर्शनप्रजननाः स्वर्गद्वारं त्रय्या विद्यया
भगवन्तं त्रयीमयं सूर्यमात्मानं यजन्ते ॥ ४॥

प्रत्नस्य विष्णो रूपं यत्सत्यस्यर्तस्य ब्रह्मणः ।
अमृतस्य च मृत्योश्च सूर्यमात्मानमीमहीति ॥ ५॥

प्लक्षादिषु पञ्चसु पुरुषाणामायुरिन्द्रियमोजः सहो बलं
बुद्धिर्विक्रम इति च सर्वेषामौत्पत्तिकी सिद्धिरविशेषेण
वर्तते ॥ ६॥

प्लक्षः स्वसमानेनेक्षुरसोदेनावृतो यथा तथा द्वीपोऽपि
शाल्मलो द्विगुणविशालःसमानेन सुरोदेनावृतः
परिवृङ्क्ते ॥ ७॥

यत्र ह वै शाल्मली प्लक्षायामा यस्यां वाव किल
निलयमाहुर्भगवतश्छन्दः स्तुतः पतत्त्रिराजस्य सा
द्वीपहूतये उपलक्ष्यते ॥ ८॥

तद्द्वीपाधिपतिः प्रियव्रतात्मजो यज्ञबाहुः स्वसुतेभ्यः
सप्तभ्यस्तन्नामानि सप्तवर्षाणि व्यभजत्सुरोचनं सौमनस्यं
रमणकं देववर्षं पारिभद्रमाप्यायनमविज्ञातमिति ॥ ९॥

तेषु वर्षाद्रयो नद्यश्च सप्तैवाभिज्ञाताः स्वरसः शतश‍ृङ्गो
वामदेवः कुन्दो मुकुन्दः पुष्पवर्षः सहस्रश्रुतिरिति
अनुमतिः सिनीवाली सरस्वती कुहू रजनी नन्दा
राकेति ॥ १०॥

तद्वर्षपुरुषाः श्रुतधरवीर्यधरवसुन्धरेषन्धरसंज्ञा भगवन्तं
वेदमयं सोममात्मानं वेदेन यजन्ते ॥ ११॥

स्वगोभिः पितृदेवेभ्यो विभजन् कृष्णशुक्लयोः ।
प्रजानां सर्वासां राजान्धः सोमो न आस्त्विति ॥ १२॥

एवं सुरोदाद्बहिस्तद्द्विगुणः समानेनावृतो घृतोदेन
यथा पूर्वः कुशद्वीपो यस्मिन् कुशस्तम्बो देवकृत-
स्तद्द्वीपाख्याकरो ज्वलन इवापरः स्वशष्परोचिषा
दिशो विराजयति ॥ १३॥

तद्द्वीपपतिः प्रैयव्रतो राजन् हिरण्यरेता नाम
स्वं द्वीपं सप्तभ्यः स्वपुत्रेभ्यो यथाभागं विभज्य स्वयं
तप आतिष्ठत वसुवसुदानदृढरुचिनाभिगुप्तस्तुत्यव्रत-
विविक्तवामदेवनामभ्यः ॥ १४॥

तेषां वर्षेषु सीमागिरयो नद्यश्चाभिज्ञाताः सप्त सप्तैव
चक्रश्चतुःश‍ृङ्गः कपिलश्चित्रकूटो देवानीक ऊर्ध्वरोमा
द्रविण इति । रसकुल्या मधुकुल्या मित्रविन्दा
श्रुतविन्दा देवगर्भा घृतच्युता मन्त्रमालेति ॥ १५॥

यासां पयोभिः कुशद्वीपौकसः कुशलकोविदाभियुक्त-
कुलकसंज्ञा भगवन्तं जातवेदसरूपिणं कर्मकौशलेन
यजन्ते ॥ १६॥

परस्य ब्रह्मणः साक्षाज्जातवेदोऽसि हव्यवाट् ।
देवानां पुरुषाङ्गानां यज्ञेन पुरुषं यजेति ॥ १७॥

तथा घृतोदाद्बहिः क्रौञ्चद्वीपो द्विगुणः स्वमानेन
क्षीरोदेन परित उपकॢप्तो वृतो यथा कुशद्वीपो
घृतोदेन यस्मिन् क्रौञ्चो नाम पर्वतराजो
द्वीपनामनिर्वर्तक आस्ते ॥ १८॥

योऽसौ गुहप्रहरणोन्मथितनितम्बकुञ्जोऽपि
क्षीरोदेनासिच्यमानो भगवता वरुणेनाभिगुप्तो
विभयो बभूव ॥ १९॥

तस्मिन्नपि प्रैयव्रतो घृतपृष्ठो नामाधिपतिः स्वे द्वीपे
वर्षाणि सप्त विभज्य तेषु पुत्रनामसु सप्त रिक्थादान्
वर्षपान् निवेश्य स्वयं भगवान् भगवतः परमकल्याण-
यशस आत्मभूतस्य हरेश्चरणारविन्दमुपजगाम ॥ २०॥

आमो मधुरुहो मेघपृष्ठः सुधामा भ्राजिष्ठो
लोहितार्णो वनस्पतिरिति घृतपृष्ठसुतास्तेषां
वर्षगिरयः सप्त सप्तैव नद्यश्चाभिख्याताः
शुक्लो वर्धमानो भोजन उपबर्हिणो नन्दो
नन्दनः सर्वतोभद्र इति अभया अमृतौघा
आर्यका तीर्थवती रूपवती पवित्रवती शुक्लेति ॥ २१॥

यासामम्भः पवित्रममलमुपयुञ्जानाः पुरुषऋषभ-
द्रविणदेवकसंज्ञा वर्षपुरुषा आपोमयं देवमपां
पूर्णेनाञ्जलिना यजन्ते ॥ २२॥

आपः पुरुषवीर्याः स्थ पुनन्तीर्भूर्भुवः सुवः ।
ता नः पुनीतामीव घ्नीः स्पृशतामात्मना भुव इति ॥ २३॥

एवं पुरस्तात्क्षीरोदात्परित उपवेशितः शाकद्वीपो
द्वात्रिंशल्लक्षयोजनायामः समानेन च दधिमण्डोदेन
परीतो यस्मिन् शाको नाम महीरुहः स्वक्षेत्रव्यपदेशको
यस्य ह महासुरभिगन्धस्तं द्वीपमनुवासयति ॥ २४॥

तस्यापि प्रैयव्रत एवाधिपतिर्नाम्ना मेधातिथिः सोऽपि
विभज्य सप्त वर्षाणि पुत्रनामानि तेषु स्वात्मजान्
पुरोजवमनोजवपवमानधूम्रानीक-चित्ररेफबहुरूप-
विश्वधारसंज्ञान् निधाप्याधिपतीन् स्वयं भगवत्यनन्त
आवेशितमतिस्तपोवनं प्रविवेश ॥ २५॥

एतेषां वर्षमर्यादागिरयो नद्यश्च सप्त सप्तैव ईशान
उरुश‍ृङ्गो बलभद्रः शतकेसरः सहस्रस्रोतो देवपालो
महानस इति अनघाऽऽयुर्दा उभयस्पृष्टिरपराजिता
पञ्चपदी सहस्रस्रुतिर्निजधृतिरिति ॥ २६॥

तद्वर्षपुरुषा ऋतव्रतसत्यव्रतदानव्रतानुव्रतनामानो
भगवन्तं वाय्वात्मकं प्राणायामविधूतरजस्तमसः
परमसमाधिना यजन्ते ॥ २७॥

अन्तः प्रविश्य भूतानि यो बिभर्त्यात्मकेतुभिः ।
अन्तर्यामीश्वरः साक्षात्पातु नो यद्वशे स्फुटम् ॥ २८॥

एवमेव दधिमण्डोदात्परतः पुष्करद्वीपस्ततो
द्विगुणायामः समन्तत उपकल्पितः समानेन
स्वादूदकेन समुद्रेण बहिरावृतो यस्मिन् बृहत्पुष्करं
ज्वलनशिखामलकनकपत्रायुतायुतं भगवतः
कमलासनस्याध्यासनं परिकल्पितम् ॥ २९॥

तद्द्वीपमध्ये मानसोत्तरनामैक एवार्वाचीनपराचीन-
वर्षयोर्मर्यादाचलोऽयुतयोजनोच्छ्रायायामो यत्र तु
चतसृषु दिक्षु चत्वारि पुराणि लोकपालानामिन्द्रादीनां
यदुपरिष्टात्सूर्यरथस्य मेरुं परिभ्रमतः संवत्सरात्मकं
चक्रं देवानामहोरात्राभ्यां परिभ्रमति ॥ ३०॥

तद्द्वीपस्याप्यधिपतिः प्रैयव्रतो वीतिहोत्रो नामैतस्यात्मजौ
रमणकधातकिनामानौ वर्षपती नियुज्य स स्वयं पूर्वजव-
द्भगवत्कर्मशील एवास्ते ॥ ३१॥

तद्वर्षपुरुषा भगवन्तं ब्रह्मरूपिणं सकर्मकेण
कर्मणाराधयन्तीदं चोदाहरन्ति ॥ ३२॥

यत्तत्कर्ममयं लिङ्गं ब्रह्मलिङ्गं जनोऽर्चयेत् ।
एकान्तमद्वयं शान्तं तस्मै भगवते नम इति ॥ ३३॥

ऋषिरुवाच ।
ततः परस्ताल्लोकालोकनामाचलो लोकालोकयो-
रन्तराले परित उपक्षिप्तः ॥ ३४॥

यावन्मानसोत्तरमेर्वोरन्तरं तावती भूमिः काञ्चन्य-
न्यादर्शतलोपमा यस्यां प्रहितः पदार्थो न कथञ्चित्पुनः
प्रत्युपलभ्यते तस्मात्सर्वसत्त्वपरिहृताऽऽसीत् ॥ ३५॥

लोकालोक इति समाख्या यदनेनाचलेन
लोकालोकस्यान्तर्वर्तिनावस्थाप्यते ॥ ३६॥

स लोकत्रयान्ते परित ईश्वरेण विहितो
यस्मात्सूर्यादीनां ध्रुवापवर्गाणां ज्योतिर्गणानां
गभस्तयोऽर्वाचीनांस्त्रीन् लोकानावितन्वाना
न कदाचित्पराचीना भवितुमुत्सहन्ते
तावदुन्नहनायामः ॥ ३७॥

एतावान् लोकविन्यासो मानलक्षणसंस्थाभिर्विचिन्तितः
कविभिः स तु पञ्चाशत्कोटिगणितस्य भूगोलस्य
तुरीयभागोऽयं लोकालोकाचलः ॥ ३८॥

तदुपरिष्टाच्चतसृष्वाशास्वात्मयोनिनाखिलजगद्गुरुणा-
धिनिवेशिता ये द्विरदपतय ऋषभः पुष्करचूडो
वामनोऽपराजित इति सकललोकस्थितिहेतवः ॥ ३९॥

तेषां स्वविभूतीनां लोकपालानां च विविधवीर्यो-
पबृंहणाय भगवान् परममहापुरुषो महाविभूतिपति-
रन्तर्याम्यात्मनो विशुद्धसत्त्वं धर्मज्ञानवैराग्यैश्वर्या-
द्यष्टमहासिद्ध्युपलक्षणं विष्वक्सेनादिभिः स्वपार्षदप्रवरैः
परिवारितो निजवरायुधोपशोभितैर्निजभुजदण्डैः
सन्धारयमाणस्तस्मिन् गिरिवरे समन्तात्सकललोक-
स्वस्तय आस्ते ॥ ४०॥

आकल्पमेवं वेषं गत एष भगवानात्मयोगमायया
विरचितविविधलोकयात्रागोपीयायेत्यर्थः ॥ ४१॥

योऽन्तर्विस्तार एतेन ह्यलोकपरिमाणं च व्याख्यातं
यद्बहिर्लोकालोकाचलात्ततः परस्ताद्योगेश्वरगतिं
विशुद्धामुदाहरन्ति ॥ ४२॥

अण्डमध्यगतः सूर्यो द्यावाभूम्योर्यदन्तरम् ।
सूर्याण्डगोलयोर्मध्ये कोट्यः स्युः पञ्चविंशतिः ॥ ४३॥

मृतेऽण्ड एष एतस्मिन् यदभूत्ततो मार्तण्ड इति
व्यपदेशः हिरण्यगर्भ इति यद्धिरण्याण्डसमुद्भवः ॥ ४४॥

सूर्येण हि विभज्यन्ते दिशः खं द्यौर्मही भिदा ।
स्वर्गापवर्गौ नरका रसौकांसि च सर्वशः ॥ ४५॥

देवतिर्यङ् मनुष्याणां सरीसृपसवीरुधाम् ।
सर्वजीवनिकायानां सूर्य आत्मा दृगीश्वरः ॥ ४६॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
पञ्चमस्कन्धे भुवनकोशवर्णने समुद्रवर्षसन्निवेश-
परिमाणलक्षणो नाम विंशोऽध्यायः ॥ २०॥

॥ ॐ नमो भगवते वासुदेवाय ॥
॥ एकविंशोऽध्यायः ॥

श्रीशुक उवाच ।
एतावानेव भूवलयस्य सन्निवेशः प्रमाणलक्षणतो
व्याख्यातः ॥ १॥

एतेन हि दिवो मण्डलमानं तद्विद उपदिशन्ति
यथा द्विदलयोर्निष्पावादीनां ते अन्तरेणान्तरिक्षं
तदुभयसन्धितम् ॥ २॥

यन्मध्यगतो भगवांस्तपतां पतिस्तपन आतपेन
त्रिलोकीं प्रतपत्यवभासयत्यात्मभासा स एष
उदगयनदक्षिणायनवैषुवतसंज्ञाभिर्मान्द्यशैघ्र्य-
मानाभिर्गतिभिरारोहणावरोहणसमानस्थानेषु
यथा सवनमभिपद्यमानो मकरादिषु राशिष्व-
होरात्राणि दीर्घह्रस्वसमानानि विधत्ते ॥ ३॥

यदा मेषतुलयोर्वर्तते तदाहोरात्राणि
समानानि भवन्ति यदा वृषभादिषु पञ्चसु
च राशिषु चरति तदाहान्येव वर्धन्ते ह्रसति
च मासि मास्येकैका घटिका रात्रिषु ॥ ४॥

यदा वृश्चिकादिषु पञ्चसु वर्तते तदाहोरात्राणि
विपर्ययाणि भवन्ति ॥ ५॥

यावद्दक्षिणायनमहानि वर्धन्ते यावदुदगयनं
रात्रयः ॥ ६॥

एवं नवकोटय एकपञ्चाशल्लक्षाणि योजनानां
मानसोत्तरगिरिपरिवर्तनस्योपदिशन्ति
तस्मिन्नैन्द्रीं पुरीं पूर्वस्मान्मेरोर्देवधानीं नाम
दक्षिणतो याम्यां संयमनीं नाम पश्चाद्वारुणीं
निम्लोचनीं नाम उत्तरतः सौम्यां विभावरीं नाम
तासूदयमध्याह्नास्तमयनिशीथानीति भूतानां
प्रवृत्तिनिवृत्तिनिमित्तानि समयविशेषेण
मेरोश्चतुर्दिशम् ॥ ७॥

तत्रत्यानां दिवसमध्यङ्गत एव सदाऽऽदित्यस्तपति
सव्येनाचलं दक्षिणेन करोति ॥ ८॥

यत्रोदेति तस्य ह समानसूत्रनिपाते निम्लोचति
यत्र क्वचन स्यन्देनाभितपति तस्य हैष समानसूत्र-
निपाते प्रस्वापयति तत्र गतं न पश्यन्ति ये तं
समनुपश्येरन् ॥ ९॥

यदा चैन्द्र्याः पुर्याः प्रचलते पञ्चदशघटिकाभिर्याम्यां
सपादकोटिद्वयं योजनानां सार्धद्वादशलक्षाणि
साधिकानि चोपयाति ॥ १०॥

एवं ततो वारुणीं सौम्यामैन्द्रीं च पुनस्तथान्ये च
ग्रहाः सोमादयो नक्षत्रैः सह ज्योतिश्चक्रे सम-
भ्युद्यन्ति सह वा निम्लोचन्ति ॥ ११॥

एवं मुहूर्तेन चतुस्त्रिंशल्लक्षयोजनान्यष्टशताधिकानि
सौरो रथस्त्रयीमयोऽसौचतसृषु परिवर्तते पुरीषु ॥ १२॥

यस्यैकं चक्रं द्वादशारं षण्नेमि त्रिणाभि संवत्सरात्मकं
समामनन्ति तस्याक्षो मेरोर्मूर्धनि कृतो मानसोत्तरे
कृतेतरभागो यत्र प्रोतं रविरथचक्रं तैलयन्त्रचक्रवद्भ्रमन्
मानसोत्तरगिरौ परिभ्रमति ॥ १३॥

तस्मिन्नक्षे कृतमूलो द्वितीयोऽक्षस्तुर्यमानेन
सम्मितस्तैलयन्त्राक्षवद्ध्रुवे कृतोपरिभागः ॥ १४॥