श्रीमद्भागवतमहापूराणम् पञ्चमस्कन्ध
थनीडस्तु षट्त्रिंशल्लक्षयोजनायतस्तत्तुरीयभाग-
विशालस्तावान् रविरथयुगो यत्र हयाश्छन्दो
नामानः सप्तारुणयोजिता वहन्ति देवमादित्यम् ॥ १५॥
पुरस्तात्सवितुररुणः पश्चाच्च नियुक्तः सौत्ये
कर्मणि किलास्ते ॥ १६॥
तथा वालिखिल्या ऋषयोङ्गुष्ठपर्वमात्राः षष्टिसहस्राणि
पुरतः सूर्यं सूक्तवाकाय नियुक्ताः संस्तुवन्ति ॥ १७॥
तथान्ये च ऋषयो गन्धर्वाप्सरसो नागा ग्रामण्यो
यातुधाना देवा इत्येकैकशो गणाः सप्तचतुर्दश
मासि मासि भगवन्तं सूर्यमात्मानं नानानामानं
पृथङ्नानानामानः पृथक्कर्मभिर्द्वन्द्वश उपासते ॥ १८॥
लक्षोत्तरं सार्धनवकोटियोजनपरिमण्डलं
भूवलयस्य क्षणेन सगव्यूत्युत्तरं द्विसहस्रयोजनानि
स भुङ्क्ते ॥ १९॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
पञ्चमस्कन्धे ज्योतिश्चक्रसूर्यरथमण्डलवर्णनं
नमैकविंशोऽध्यायः ॥ २१॥
॥ ॐ नमो भगवते वासुदेवाय ॥
॥ द्वाविंशोऽध्यायः ॥
राजोवाच ।
यदेतद्भगवत आदित्यस्य मेरुं ध्रुवं च प्रदक्षिणेन
परिक्रामतो राशीनामभिमुखं प्रचलितं चाप्रदक्षिणं
भगवतोपवर्णितममुष्य वयं कथमनुमिमीमहीति ॥ १॥
स होवाच ।
यथा कुलालचक्रेण भ्रमता सह भ्रमतां तदाश्रयाणां
पिपीलिकादीनां गतिरन्यैव प्रदेशान्तरेष्वप्युपलभ्य-
मानत्वादेवं नक्षत्रराशिभिरुपलक्षितेन कालचक्रेण ध्रुवं
मेरुं च प्रदक्षिणेन परिधावता सह परिधावमानानां
तदाश्रयाणां सूर्यादीनां ग्रहाणां गतिरन्यैव नक्षत्रान्तरे
राश्यन्तरे चोपलभ्यमानत्वात् ॥ २॥
स एष भगवानादिपुरुष एव साक्षान्नारायणो
लोकानां स्वस्तय आत्मानं त्रयीमयं कर्मविशुद्धि-
निमित्तं कविभिरपि च वेदेन विजिज्ञास्यमानो
द्वादशधा विभज्य षट्सु वसन्तादिष्वृतुषु
यथोपजोषमृतुगुणान् विदधाति ॥ ३॥
तमेतमिह पुरुषास्त्रय्या विद्यया वर्णाश्रमा-
चारानुपथा उच्चावचैः कर्मभिराम्नातैर्योगवितानैश्च
श्रद्धया यजन्तोऽञ्जसा श्रेयः समधिगच्छन्ति ॥ ४॥
अथ स एष आत्मा लोकानां द्यावापृथिव्योरन्तरेण
नभोवलयस्य कालचक्रगतो द्वादशमासान् भुङ्क्ते
राशिसंज्ञान् संवत्सरावयवान् मासः पक्षद्वयं दिवा
नक्तं चेति सपादर्क्षद्वयमुपदिशन्ति यावता षष्ठमंशं
भुञ्जीत स वै ऋतुरित्युपदिश्यते संवत्सरावयवः ॥ ५॥
अथ च यावतार्धेन नभोवीथ्यां प्रचरति तं
कालमयनमाचक्षते ॥ ६॥
अथ च यावन्नभोमण्डलं सह द्यावापृथिव्यो-
र्मण्डलाभ्यां कार्त्स्न्येन स ह भुञ्जीत तं कालं
संवत्सरं परिवत्सरमिडावत्सरमनुवत्सरं
वत्सरमिति भानोर्मान्द्यशैघ्र्यसमगतिभिः
समामनन्ति ॥ ७॥
एवं चन्द्रमा अर्कगभस्तिभ्य उपरिष्टाल्लक्षयोजनत
उपलभ्यमानोऽर्कस्य संवत्सरभुक्तिं पक्षाभ्यां
मासभुक्तिं सपादर्क्षाभ्यां दिनेनैव पक्षभुक्तिमग्रचारी
द्रुततरगमनो भुङ्क्ते ॥ ८॥
अथ चापूर्यमाणाभिश्च कलाभिरमराणां
क्षीयमाणाभिश्च कलाभिः पितॄणामहोरात्राणि
पूर्वपक्षापरपक्षाभ्यां वितन्वानः सर्वजीव-
निवहप्राणो जीवश्चैकमेकं नक्षत्रं त्रिंशता
मुहूर्तैर्भुङ्क्ते ॥ ९॥
य एष षोडशकलः पुरुषो भगवान् मनोमयो-
ऽन्नमयोऽमृतमयो देवपितृमनुष्यभूतपशुपक्षि-
सरीसृपवीरुधां प्राणाप्यायनशीलत्वात्सर्वमय
इति वर्णयन्ति ॥ १०॥
तत उपरिष्टात्त्रिलक्षयोजनतो नक्षत्राणि मेरुं
दक्षिणेनैव कालायन ईश्वरयोजितानि
सहाभिजिताष्टाविंशतिः ॥ ११॥
तत उपरिष्टादुशना द्विलक्षयोजनत उपलभ्यते
पुरतः पश्चात्सहैव वार्कस्य शैघ्र्यमान्द्यसाम्याभि-
र्गतिभिरर्कवच्चरति लोकानां नित्यदानुकूल एव
प्रायेण वर्षयंश्चारेणानुमीयते स वृष्टिविष्टम्भ-
ग्रहोपशमनः ॥ १२॥
उशनसा बुधो व्याख्यातस्तत उपरिष्टाद्द्विलक्ष-
योजनतो बुधः सोमसुत उपलभ्यमानःप्रायेण
शुभकृद्यदार्काद्व्यतिरिच्येत तदातिवाताभ्रप्राया-
नावृष्ट्यादि भयमाशंसते ॥ १३॥
अत ऊर्ध्वमङ्गारकोऽपि योजनलक्षद्वितय
उपलभ्यमानस्त्रिभिस्त्रिभिः पक्षैरेकैकशो
राशीन् द्वादशानुभुङ्क्ते यदि न वक्रेणाभिवर्तते
प्रायेणाशुभग्रहोऽघशंसः ॥ १४॥
तत उपरिष्टाद्द्विलक्षयोजनान्तरगतो
भगवान् बृहस्पतिरेकैकस्मिन् राशौ
परिवत्सरं परिवत्सरं चरति यदि न वक्रः
स्यात्प्रायेणानुकूलो ब्राह्मणकुलस्य ॥ १५॥
तत उपरिष्टाद्योजनलक्षद्वयात्प्रतीयमानः
शनैश्चर एकैकस्मिन् राशौ त्रिंशन्मासान्
विलम्बमानः सर्वानेवानुपर्येति तावद्भि-
रनुवत्सरैः प्रायेण हि सर्वेषामशान्तिकरः ॥ १६॥
तत उत्तरस्मादृषय एकादशलक्षयोजनान्तर
उपलभ्यन्ते य एव लोकानां शमनुभावयन्तो
भगवतो विष्णोर्यत्परमं पदं प्रदक्षिणं प्रक्रमन्ति ॥ १७॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
पञ्चमस्कन्धे ज्योतिश्चक्रवर्णने द्वाविंशोऽध्यायः ॥ २२॥
॥ ॐ नमो भगवते वासुदेवाय ॥
॥ त्रयोविंशोऽध्यायः ॥
श्रीशुक उवाच ।
अथ तस्मात्परतस्त्रयोदशलक्षयोजनान्तरतो
यत्तद्विष्णोः परमं पदमभिवदन्ति यत्र ह महा-
भागवतो ध्रुव औत्तानपादिरग्निनेन्द्रेण प्रजापतिना
कश्यपेन धर्मेण च समकालयुग्भिः सबहुमानं
दक्षिणतः क्रियमाण इदानीमपि कल्पजीविना-
माजीव्य उपास्ते तस्येहानुभाव उपवर्णितः ॥ १॥
स हि सर्वेषां ज्योतिर्गणानां ग्रहनक्षत्रादीना-
मनिमिषेणाव्यक्तरंहसा भगवता कालेन
भ्राम्यमाणानां स्थाणुरिवावष्टम्भ ईश्वरेण विहितः
शश्वदवभासते ॥ २॥
यथा मेढीस्तम्भ आक्रमणपशवः संयोजिता-
स्त्रिभिस्त्रिभिः सवनैर्यथास्थानं मण्डलानि
चरन्त्येवं भगणा ग्रहादय एतस्मिन्नन्तर्बहिर्योगेन
कालचक्र आयोजिता ध्रुवमेवावलम्ब्य
वायुनोदीर्यमाणा आकल्पान्तं परिचङ्क्रमन्ति
नभसि यथा मेघाः श्येनादयो वायुवशाः
कर्मसारथयः परिवर्तन्ते एवं ज्योतिर्गणाः
प्रकृतिपुरुषसंयोगानुगृहीताः कर्मनिर्मित-
गतयो भुवि न पतन्ति ॥ ३॥
केचनैतज्ज्योतिरनीकं शिशुमारसंस्थानेन भगवतो
वासुदेवस्य योगधारणायामनुवर्णयन्ति ॥ ४॥
यस्य पुच्छाग्रेऽवाक्शिरसः कुण्डलीभूतदेहस्य
ध्रुव उपकल्पितस्तस्य लाङ्गूले प्रजापतिरग्निरिन्द्रो
धर्म इति पुच्छमूले धाता विधाता च कट्यां
सप्तर्षयः तस्य दक्षिणावर्तकुण्डलीभूतशरीरस्य
यान्युदगयनानि दक्षिणपार्श्वे तु नक्षत्राण्युप-
कल्पयन्ति दक्षिणायनानि तु सव्ये यथा
शिशुमारस्य कुण्डलाभोगसन्निवेशस्य
पार्श्वयोरुभयोरप्यवयवाः समसङ्ख्या भवन्ति
पृष्ठे त्वजवीथी आकाशगङ्गा चोदरतः ॥ ५॥
पुनर्वसुपुष्यौ दक्षिणवामयोः श्रोण्योरार्द्राऽऽश्लेषे
च दक्षिणवामयोः पश्चिमयोः पादयोरभिजि-
दुत्तराषाढे दक्षिणवामयोर्नासिकयोर्यथासङ्ख्यं
श्रवणपूर्वाषाढे दक्षिणवामयोर्लोचनयोर्धनिष्ठा
मूलं च दक्षिणवामयोः कर्णयोर्मघादीन्यष्ट
नक्षत्राणि दक्षिणायनानि वामपार्श्ववङ्क्रिषु
युञ्जीत तथैव मृगशीर्षादीन्युदगयनानि
दक्षिणपार्श्ववङ्क्रिषु प्रातिलोम्येन प्रयुञ्जीत
शतभिषा ज्येष्ठे स्कन्धयोर्दक्षिणवामयोर्न्यसेत् ॥ ६॥
उत्तराहनावगस्तिरधराहनौ यमो मुखेषु चाङ्गारकः
शनैश्चर उपस्थे बृहस्पतिः ककुदि वक्षस्यादित्यो
हृदये नारायणो मनसि चन्द्रो नाभ्यामुशना
स्तनयोरश्विनौ बुधः प्राणापानयो राहुर्गले केतवः
सर्वाङ्गेषु रोमसु सर्वे तारागणाः ॥ ७॥
एतदु हैव भगवतो विष्णोः सर्वदेवतामयं
रूपमहरहः सन्ध्यायां प्रयतो वाग्यतो
निरीक्षमाण उपतिष्ठेत नमो ज्योतिर्लोकाय
कालायनायानिमिषां पतये महापुरुषाया-
भिधीमहीति ॥ ८॥
ग्रहर्क्षतारामयमाधिदैविकं
पापापहं मन्त्रकृतां त्रिकालम् ।
नमस्यतः स्मरतो वा त्रिकालं
नश्येत तत्कालजमाशु पापम् ॥ ९॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
पञ्चमस्कन्धे शिशुमारसंस्थावर्णनं नाम त्रयोविंशोऽध्यायः ॥ २३॥
॥ ॐ नमो भगवते वासुदेवाय ॥
॥ चतुर्विंशोऽध्यायः ॥
श्रीशुक उवाच ।
अधस्तात्सवितुर्योजनायुते स्वर्भानुर्नक्षत्रव-
च्चरतीत्येके योऽसावमरत्वं ग्रहत्वं चालभत ।
भगवदनुकम्पया स्वयमसुरापसदः सैंहिकेयो
ह्यतदर्हस्तस्य तात जन्मकर्माणि चोपरिष्टा-
द्वक्ष्यामः ॥ १॥
यददस्तरणेर्मण्डलं प्रतपतस्तद्विस्तरतो योजना-
युतमाचक्षते द्वादशसहस्रं सोमस्य त्रयोदशसहस्रं
राहोर्यः पर्वणि तद्व्यवधानकृद्वैरानुबन्धः
सूर्याचन्द्रमसावभिधावति ॥ २॥
तन्निशम्योभयत्रापि भगवता रक्षणाय प्रयुक्तं
सुदर्शनं नाम भागवतं दयितमस्त्रं तत्तेजसा
दुर्विषहं मुहुः परिवर्तमानमभ्यवस्थितो मुहूर्त-
मुद्विजमानश्चकितहृदय आरादेव निवर्तते
तदुपरागमिति वदन्ति लोकाः ॥ ३॥
ततोऽधस्तात्सिद्धचारणविद्याधराणां सदनानि
तावन्मात्र एव ॥ ४॥
ततोऽधस्ताद्यक्षरक्षःपिशाचप्रेतभूतगणानां
विहाराजिरमन्तरिक्षं यावद्वायुः प्रवाति यावन्मेघा
उपलभ्यन्ते ॥ ५॥
ततोऽधस्ताच्छतयोजनान्तर इयं पृथिवी याव-
द्धंसभासश्येनसुपर्णादयः पतत्त्रिप्रवरा उत्पतन्तीति ॥ ६॥
उपवर्णितं भूमेर्यथा सन्निवेशावस्थानमवनेर-
प्यधस्तात्सप्तभूविवरा एकैकशो योजनायुतान्तरेणा-
यामविस्तारेणोपकॢप्ता अतलं वितलं सुतलं
तलातलं महातलं रसातलं पातालमिति ॥ ७॥
एतेषु हि बिलस्वर्गेषु स्वर्गादप्यधिककामभोगै-
श्वर्यानन्दभूतिविभूतिभिः सुसमृद्धभवनोद्याना-
क्रीडाविहारेषु दैत्यदानवकाद्रवेया नित्यप्रमुदिता-
नुरक्तकलत्रापत्यबन्धुसुहृदनुचरा गृहपतय
ईश्वरादप्यप्रतिहतकामा मायाविनोदा निवसन्ति ॥ ८॥
येषु महाराज मयेन मायाविना विनिर्मिताः
पुरो नानामणिप्रवरप्रवेकविरचितविचित्रभवन-
प्राकारगोपुरसभाचैत्यचत्वरायतनादिभि-
र्नागासुरमिथुनपारावतशुकसारिकाऽऽकीर्णकृत्रिम-
भूमिभिर्विवरेश्वरगृहोत्तमैः समलङ्कृताश्चकासति ॥ ९॥
उद्यानानि चातितरां मन इन्द्रियानन्दिभिः
कुसुमफलस्तबकसुभगकिसलयावनतरुचिर-
विटपविटपिनां लताङ्गालिङ्गितानां श्रीभिः
समिथुनविविधविहङ्गमजलाशयानाममल-
जलपूर्णानां झषकुलोल्लङ्घनक्षुभितनीरनीरज-
कुमुदकुवलयकह्लारनीलोत्पललोहितशतपत्रादि
वनेषु कृतनिकेतनानामेकविहाराकुलमधुर-
विविधस्वनादिभिरिन्द्रियोत्सवैरमरलोकश्रिय-
मतिशयितानि ॥ १०॥
यत्र ह वाव न भयमहोरात्रादिभिः
कालविभागैरुपलक्ष्यते ॥ ११॥
यत्र हि महाहिप्रवरशिरोमणयः सर्वं तमः प्रबाधन्ते ॥ १२॥
न वा एतेषु वसतां दिव्यौषधिरसरसायनान्नपान-
स्नानादिभिराधयो व्याधयो वलीपलितजरादयश्च
देहवैवर्ण्यदौर्गन्ध्यस्वेदक्लमग्लानिरिति वयोऽवस्थाश्च
भवन्ति ॥ १३॥
न हि तेषां कल्याणानां प्रभवति कुतश्चन मृत्युर्विना
भगवत्तेजसश्चक्रापदेशात् ॥ १४॥
यस्मिन् प्रविष्टेऽसुरवधूनां प्रायः पुंसवनानि
भयादेव स्रवन्ति पतन्ति च ॥ १५॥
अथातले मयपुत्रोऽसुरो बलो निवसति येन ह वा
इह सृष्टाः षण्णवतिर्मायाः काश्चनाद्यापि मायाविनो
धारयन्ति यस्य च जृम्भमाणस्य मुखतस्त्रयः स्त्रीगणा
उदपद्यन्त स्वैरिण्यः कामिन्यः पुंश्चल्य इति या वै
बिलायनं प्रविष्टं पुरुषं रसेन हाटकाख्येन साधयित्वा
स्वविलासावलोकनानुरागस्मितसंलापोपगूहनादिभिः
स्वैरं किल रमयन्ति यस्मिन्नुपयुक्ते पुरुष ईश्वरोऽहं
सिद्धोऽहमित्ययुतमहागजबलमात्मानमभिमन्यमानः
कत्थते मदान्ध इव ॥ १६॥
ततोऽधस्ताद्वितले हरो भगवान् हाटकेश्वरः स्वपार्षद-
भूतगणावृतः प्रजापतिसर्गोपबृंहणाय भवो भवान्या सह
मिथुनीभूत आस्ते यतः प्रवृत्ता सरित्प्रवरा हाटकी नाम
भवयोर्वीर्येण यत्र चित्रभानुर्मातरिश्वना समिध्यमान
ओजसा पिबति तन्निष्ठ्यूतं हाटकाख्यं सुवर्णं भूषणेना-
सुरेन्द्रावरोधेषु पुरुषाः सह पुरुषीभिर्धारयन्ति ॥ १७॥
ततोऽधस्तात्सुतले उदारश्रवाः पुण्यश्लोको
विरोचनात्मजो बलिर्भगवता महेन्द्रस्य प्रियं
चिकीर्षमाणेनादितेर्लब्धकायो भूत्वा