श्रीमद्भागवतमहापूराणम् पञ्चमस्कन्ध
वटुवामनरूपेण
पराक्षिप्तलोकत्रयो भगवदनुकम्पयैव पुनः प्रवेशित
इन्द्रादिष्वविद्यमानया सुसमृद्धया श्रियाभिजुष्टः
स्वधर्मेणाराधयंस्तमेव भगवन्तमाराधनीयमपगत-
साध्वस आस्तेऽधुनापि ॥ १८॥
नो एवैतत्साक्षात्कारो भूमिदानस्य यत्तद्भगवत्यशेष-
जीवनिकायानां जीवभूतात्मभूते परमात्मनि वासुदेवे
तीर्थतमे पात्र उपपन्ने परया श्रद्धया परमादरसमाहित-
मनसा सम्प्रतिपादितस्य साक्षादपवर्गद्वारस्य
यद्बिलनिलयैश्वर्यम् ॥ १९॥
यस्य ह वाव क्षुतपतनप्रस्खलनादिषु विवशः
सकृन्नामाभिगृणन् पुरुषः कर्मबन्धनमञ्जसा
विधुनोति यस्य हैव प्रतिबाधनं मुमुक्षवो-
ऽन्यथैवोपलभन्ते ॥ २०॥
तद्भक्तानामात्मवतां सर्वेषामात्मन्यात्मद
आत्मतयैव ॥ २१॥
न वै भगवान् नूनममुष्यानुजग्राह यदुत पुनरात्मा-
नुस्मृतिमोषणं मायामयभोगैश्वर्यमेवातनुतेति ॥ २२॥
यत्तद्भगवतानधिगतान्योपायेन याच्ञाच्छलेनापहृत
स्वशरीरावशेषितलोकत्रयो वरुणपाशैश्च सम्प्रतिमुक्तो
गिरिदर्यां चापविद्ध इति होवाच ॥ २३॥
नूनं बतायं भगवानर्थेषु न निष्णातो योऽसाविन्द्रो
यस्य सचिवो मन्त्राय वृत एकान्ततो बृहस्पतिस्त-
मतिहाय यमुपेन्द्रेणात्मानमयाचतात्मनश्चाशिषो
नो एव तद्दास्यमतिगम्भीरवयसः कालस्य
मन्वन्तरपरिवृत्तं कियल्लोकत्रयमिदम् ॥ २४॥
यस्यानुदास्यमेवास्मत्पितामहः किल वव्रे न तु
स्वपित्र्यं यदुताकुतोभयं पदं दीयमानं भगवतः परमिति
भगवतोपरते खलु स्वपितरि ॥ २५॥
तस्य महानुभावस्यानुपथममृजितकषायः को वास्मद्विधः
परिहीणभगवदनुग्रह उपजिगमिषतीति ॥ २६॥
तस्यानुचरितमुपरिष्टाद्विस्तरिष्यते यस्य भगवान् स्वय-
मखिलजगद्गुरुर्नारायणो द्वारि गदापाणिरवतिष्ठते निज-
जनानुकम्पितहृदयो येनाङ्गुष्ठेन पदा दशकन्धरो योजना-
युतायुतं दिग्विजय उच्चाटितः ॥ २७॥
ततोऽधस्तात्तलातले मयो नाम दानवेन्द्रस्त्रिपुराधिपति-
र्भगवता पुरारिणा त्रिलोकीशं चिकीर्षुणा निर्दग्धस्व-
पुरत्रयः तत्प्रसादाल्लब्धपदो मायाविनामाचार्यो
महादेवेन परिरक्षितो विगतसुदर्शनभयो महीयते ॥ २८॥
ततोऽधस्तान्महातले काद्रवेयाणां सर्पाणां
नैकशिरसां क्रोधवशो नाम गणः कुहकतक्षककालिय-
सुषेणादिप्रधाना महाभोगवन्तः पतत्त्रिराजाधिपतेः
पुरुषवाहादनवरतमुद्विजमानाः स्वकलत्रापत्यसुहृ-
त्कुटुम्बसङ्गेन क्वचित्प्रमत्ता विहरन्ति ॥ २९॥
ततोऽधस्ताद्रसातले दैतेया दानवाः पणयो नाम
निवातकवचाः कालेया हिरण्यपुरवासिन इति
विबुधप्रत्यनीका उत्पत्त्या महौजसो महासाहसिनो
भगवतः सकललोकानुभावस्य हरेरेव तेजसा
प्रतिहतबलावलेपा बिलेशया इव वसन्ति ये वै
सरमयेन्द्रदूत्या वाग्भिर्मन्त्रवर्णाभिरिन्द्राद्बिभ्यति ॥ ३०॥
ततोऽधस्तात्पाताले नागलोकपतयो वासुकिप्रमुखाः
शङ्खकुलिकमहाशङ्खश्वेतधनञ्जयधृतराष्ट्रशङ्खचूड-
कम्बलाश्वतरदेवदत्तादयो महाभोगिनो महामर्षा
निवसन्ति येषामु ह वै पञ्चसप्तदशशतसहस्रशीर्षाणां
फणासु विरचिता महामणयो रोचिष्णवः पातालविवर-
तिमिरनिकरं स्वरोचिषा विधमन्ति ॥ ३१॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
पञ्चमस्कन्धे राह्वादिस्थितिबिलस्वर्गमर्यादानिरूपणं
नाम चतुर्विंशोऽध्यायः ॥ २४॥
॥ ॐ नमो भगवते वासुदेवाय ॥
॥ पञ्चविंशोऽध्यायः ॥
श्रीशुक उवाच ।
तस्य मूलदेशे त्रिंशद्योजनसहस्रान्तर आस्ते या वै
कला भगवतस्तामसी समाख्यातानन्त इति सात्वतीया
द्रष्टृदृश्ययोः सङ्कर्षणमहमित्यभिमान-लक्षणं यं
सङ्कर्षणमित्याचक्षते ॥ १॥
यस्येदं क्षितिमण्डलं भगवतोऽनन्तमूर्तेः सहस्रशिरस
एकस्मिन्नेव शीर्षणि ध्रियमाणं सिद्धार्थ इव लक्ष्यते ॥ २॥
यस्य ह वा इदं कालेनोपसञ्जिहीर्षतोऽमर्षविरचित-
रुचिरभ्रमद्भ्रुवोरन्तरेण साङ्कर्षणो नाम रुद्र एकादश-
व्यूहस्त्र्यक्षस्त्रिशिखं शूलमुत्तम्भयन्नुदतिष्ठत् ॥ ३॥
यस्याङ्घ्रिकमलयुगलारुणविशदनखमणिषण्ड-
मण्डलेषु अहिपतयः सह सात्वतर्षभैरेकान्तभक्ति-
योगेनावनमन्तः स्ववदनानि परिस्फुरत्कुण्डलप्रभा-
मण्डितगण्डस्थलान्यतिमनोहराणि प्रमुदितमनसः
खलु विलोकयन्ति ॥ ४॥
यस्यैव हि नागराजकुमार्य आशिष आशासाना-
श्चार्वङ्गवलयविलसितविशदविपुलधवलसुभग-
रुचिरभुजरजतस्तम्भेष्वगुरुचन्दनकुङ्कुमपङ्कानु-
लेपेनावलिम्पमानास्तदभिमर्शनोन्मथितहृदय-
मकरध्वजावेशरुचिरललितस्मितास्तदनुराग-
मदमुदितमदविघूर्णितारुणकरुणावलोकनयन-
वदनारविन्दं सव्रीडं किल विलोकयन्ति ॥ ५॥
स एव भगवाननन्तोऽनन्तगुणार्णव आदिदेव
उपसंहृतामर्षरोषवेगो लोकानां स्वस्तय आस्ते ॥ ६॥
ध्यायमानः सुरासुरोरगसिद्धगन्धर्वविद्याधर-
मुनिगणैरनवरतमदमुदितविकृतविह्वललोचनः
सुललितमुखरिकामृतेनाप्यायमानः स्वपार्षद-
विबुधयूथपतीनपरिम्लानरागनवतुलसिकामोद-
मध्वासवेन माद्यन् मधुकरव्रातमधुरगीतश्रियं
वैजयन्तीं स्वां वनमालां नीलवासा एककुण्डलो
हलककुदि कृतसुभगसुन्दरभुजो भगवान् माहेन्द्रो
वारणेन्द्र इव काञ्चनीं कक्षामुदारलीलो बिभर्ति ॥ ७॥
य एष एवमनुश्रुतो ध्यायमानो मुमुक्षूणामनादि-
कालकर्मवासनाग्रथितमविद्यामयं हृदयग्रन्थिं
सत्त्वरजस्तमोमयमन्तर्हृदयं गत आशु निर्भिनत्ति
तस्यानुभावान् भगवान् स्वायम्भुवो नारदः सह
तुम्बुरुणा सभायां ब्रह्मणः संश्लोकयामास ॥ ८॥
उत्पत्तिस्थितिलयहेतवोऽस्य कल्पाः
सत्त्वाद्याः प्रकृतिगुणा यदीक्षयाऽऽसन् ।
यद्रूपं ध्रुवमकृतं यदेकमात्मन्
नानाधात्कथमु ह वेद तस्य वर्त्म ॥ ९॥
मूर्तिं नः पुरुकृपया बभार सत्त्वं
संशुद्धं सदसदिदं विभाति तत्र ।
यल्लीलां मृगपतिराददेऽनवद्या-
मादातुं स्वजनमनांस्युदारवीर्यः ॥ १०॥
यन्नामश्रुतमनुकीर्तयेदकस्मा-
दार्तो वा यदि पतितः प्रलम्भनाद्वा ।
हन्त्यंहः सपदि नृणामशेषमन्यं
कं शेषाद्भगवत आश्रयेन्मुमुक्षुः ॥ ११॥
मूर्धन्यर्पितमणुवत्सहस्रमूर्ध्नो
भूगोलं सगिरिसरित्समुद्रसत्त्वम् ।
आनन्त्यादनिमितविक्रमस्य भूम्नः
को वीर्याण्यधिगणयेत्सहस्रजिह्वः ॥ १२॥
एवम्प्रभावो भगवाननन्तो
दुरन्तवीर्योरुगुणानुभावः ।
मूले रसायाः स्थित आत्मतन्त्रो
यो लीलया क्ष्मां स्थितये बिभर्ति ॥ १३॥
एता ह्येवेह नृभिरुपगन्तव्या गतयो यथा
कर्मविनिर्मिता यथोपदेशमनुवर्णिताः कामान्
कामयमानैः ॥ १४॥
एतावतीर्हि राजन् पुंसः प्रवृत्तिलक्षणस्य धर्मस्य
विपाकगतय उच्चावचा विसदृशा यथाप्रश्नं
व्याचख्ये किमन्यत्कथयाम इति ॥ १५॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
पञ्चमस्कन्धे भूविवरविध्युपवर्णनं नाम पञ्चविंशोऽध्यायः ॥ २५॥
॥ ॐ नमो भगवते वासुदेवाय ॥
॥ षड्विंशोऽध्यायः ॥
राजोवाच ।
महर्ष एतद्वैचित्र्यं लोकस्य कथमिति ॥ १॥
ऋषिरुवाच ।
त्रिगुणत्वात्कर्तुः श्रद्धया कर्मगतयः पृथग्विधाः
सर्वा एव सर्वस्य तारतम्येन भवन्ति ॥ २॥
अथेदानीं प्रतिषिद्धलक्षणस्याधर्मस्य तथैव कर्तुः
श्रद्धाया वैसादृश्यात्कर्मफलं विसदृशं भवति या
ह्यनाद्यविद्यया कृतकामानां तत्परिणामलक्षणाः
सृतयः सहस्रशः प्रवृत्तास्तासां प्राचुर्येणा-
नुवर्णयिष्यामः ॥ ३॥
राजोवाच ।
नरका नाम भगवन् किं देशविशेषा अथवा
बहिस्त्रिलोक्या आहोस्विदन्तराल इति ॥ ४॥
ऋषिरुवाच ।
अन्तराल एव त्रिजगत्यास्तु दिशि दक्षिणस्या-
मधस्ताद्भूमेरुपरिष्टाच्च जलाद्यस्यामग्निष्वात्तादयः
पितृगणा दिशि स्वानां गोत्राणां परमेण समाधिना
सत्या एवाशिष आशासाना निवसन्ति ॥ ५॥
यत्र ह वाव भगवान् पितृराजो वैवस्वतः स्वविषयं
प्रापितेषु स्वपुरुषैर्जन्तुषु सम्परेतेषु यथा कर्मावद्यं
दोषमेवानुल्लङ्घितभगवच्छासनः सगणो दमं
धारयति ॥ ६॥
तत्र हैके नरकानेकविंशतिं गणयन्ति अथ तांस्ते
राजन् नामरूपलक्षणतोऽनुक्रमिष्यामस्तामिस्रो-
ऽन्धतामिस्रो रौरवो महारौरवः कुम्भीपाकः
कालसूत्रमसिपत्रवनं सूकरमुखमन्धकूपः
कृमिभोजनः सन्दंशस्तप्तसूर्मिर्वज्रकण्टक-
शाल्मली वैतरणी पूयोदः प्राणरोधो विशसनं
लालाभक्षः सारमेयादनमवीचिरयःपानमिति
किञ्च क्षारकर्दमो रक्षोगणभोजनः शूलप्रोतो
दन्दशूकोऽवटनिरोधनः पर्यावर्तनः सूचीमुखमि-
त्यष्टाविंशतिर्नरका विविधयातनाभूमयः ॥ ७॥
तत्र यस्तु परवित्तापत्यकलत्राण्यपहरति स हि
कालपाशबद्धो यमपुरुषैरतिभयानकैस्तामिस्रे
नरके बलान्निपात्यते अनशनानुदपानदण्ड-
ताडनसन्तर्जनादिभिर्यातनाभिर्यात्यमानो
जन्तुर्यत्र कश्मलमासादित एकदैव मूर्च्छामुपयाति
तामिस्रप्राये ॥ ८॥
एवमेवान्धतामिस्रे यस्तु वञ्चयित्वा पुरुषं दारादी-
नुपयुङ्क्ते यत्र शरीरी निपात्यमानो यातनास्थो
वेदनया नष्टमतिर्नष्टदृष्टिश्च भवति यथा वनस्पति-
र्वृश्च्यमानमूलस्तस्मादन्धतामिस्रं तमुपदिशन्ति ॥ ९॥
यस्त्विह वा एतदहमिति ममेदमिति भूतद्रोहेण
केवलं स्वकुटुम्बमेवानुदिनं प्रपुष्णाति स तदिह
विहाय स्वयमेव तदशुभेन रौरवे निपतति ॥ १०॥
ये त्विह यथैवामुना विहिंसिता जन्तवः परत्र
यमयातनामुपगतं त एव रुरवो भूत्वा तथा
तमेव विहिंसन्ति तस्माद्रौरवमित्याहू रुरुरिति
सर्पादतिक्रूरसत्त्वस्यापदेशः ॥ ११॥
एवमेव महारौरवो यत्र निपतितं पुरुषं क्रव्यादा
नाम रुरवस्तं क्रव्येण घातयन्ति यः केवलं
देहम्भरः ॥ १२॥
यस्त्विह वा उग्रः पशून् पक्षिणो वा प्राणत
उपरन्धयति तमपकरुणं पुरुषादैरपि विगर्हितममुत्र
यमानुचराः कुम्भीपाके तप्ततैले उपरन्धयन्ति ॥ १३॥
यस्त्विह पितृविप्रब्रह्मध्रुक् स कालसूत्रसंज्ञके
नरके अयुतयोजनपरिमण्डले ताम्रमये तप्तखले
उपर्यधस्तादग्न्यर्काभ्यामतितप्यमानेऽभिनिवेशितः
क्षुत्पिपासाभ्यां च दह्यमानान्तर्बहिःशरीर आस्ते
शेते चेष्टतेऽवतिष्ठति परिधावति च
यावन्ति पशुरोमाणि तावद्वर्षसहस्राणि ॥ १४॥
यस्त्विह वै निजवेदपथादनापद्यपगतः पाखण्डं
चोपगतस्तमसिपत्रवनं प्रवेश्य कशया प्रहरन्ति
तत्र हासावितस्ततो धावमान उभयतो धारै-
स्तालवनासिपत्रैश्छिद्यमानसर्वाङ्गो हा हतो-
ऽस्मीति परमया वेदनया मूर्च्छितः पदे पदे
निपतति स्वधर्महा पाखण्डानुगतं फलं भुङ्क्ते ॥ १५॥
यस्त्विह वै राजा राजपुरुषो वा अदण्ड्ये दण्डं
प्रणयति ब्राह्मणे वा शरीरदण्डं स पापीयान्
नरकेऽमुत्र सूकरमुखे निपतति तत्रातिबलै-
र्विनिष्पिष्यमाणावयवो यथैवेहेक्षुखण्ड
आर्तस्वरेण स्वनयन् क्वचिन्मूर्च्छितः
कश्मलमुपगतो यथैवेहादृष्टदोषा उपरुद्धाः ॥ १६॥
यस्त्विह वै भूतानामीश्वरोपकल्पितवृत्तीना-
मविविक्तपरव्यथानां स्वयं पुरुषोपकल्पित-
वृत्तिर्विविक्तपरव्यथो व्यथामाचरति स
परत्रान्धकूपे तदभिद्रोहेण निपतति तत्र हासौ
तैर्जन्तुभिः पशुमृगपक्षिसरीसृपैर्मशकयूका-
मत्कुणमक्षिकादिभिर्ये के चाभिद्रुग्धास्तैः
सर्वतोऽभिद्रुह्यमाणस्तमसि विहतनिद्रानिर्वृति-
रलब्धावस्थानः परिक्रामति यथा कुशरीरे जीवः ॥ १७॥
यस्त्विह वा असंविभज्याश्नाति यत्किञ्चनो-
पनतमनिर्मितपञ्चयज्ञो वायससंस्तुतः स
परत्र कृमिभोजने नरकाधमे निपतति तत्र
शतसहस्रयोजने कृमिकुण्डे कृमिभूतः स्वयं
कृमिभिरेव भक्ष्यमाणः कृमिभोजनो यावत्त-
दप्रत्ताप्रहूतादोऽनिर्वेशमात्मानं यातयते ॥ १८॥
यस्त्विह वै स्तेयेन बलाद्वा हिरण्यरत्नादीनि
ब्राह्मणस्य वापहरत्यन्यस्य वानापदि पुरुष-
स्तममुत्र राजन् यमपुरुषा अयस्मयैरग्निपिण्डैः
सन्दंशैस्त्वचि निष्कुषन्ति ॥ १९॥
यस्त्विह वा अगम्यां स्त्रियमगम्यं वा पुरुषं
योषिदभिगच्छति तावमुत्र कशया ताडयन्त-
स्तिग्मया सूर्म्या लोहमय्या पुरुषमालिङ्गयन्ति
स्त्रियं च पुरुषरूपया सूर्म्या ॥ २०॥
यस्त्विह वै सर्वाभिगमस्तममुत्र निरये