श्रीमद्भागवतमहापूराणम् पञ्चमस्कन्ध
वर्तमानं
वज्रकण्टकशाल्मलीमारोप्य निष्कर्षन्ति ॥ २१॥
ये त्विह वै राजन्या राजपुरुषा वा अपाखण्डा
धर्मसेतून् भिन्दन्ति ते सम्परेत्य वैतरण्यां
निपतन्ति भिन्नमर्यादास्तस्यां निरयपरिखा-
भूतायां नद्यां यादोगणैरितस्ततो भक्ष्यमाणा
आत्मना न वियुज्यमानाश्चासुभिरुह्यमानाः
स्वाघेन कर्मपाकमनुस्मरन्तो विण्मूत्रपूयशोणित-
केशनखास्थिमेदोमांसवसावाहिन्यामुपतप्यन्ते ॥ २२॥
ये त्विह वै वृषलीपतयो नष्टशौचाचारनियमा-
स्त्यक्तलज्जाः पशुचर्यां चरन्ति ते चापि प्रेत्य
पूयविण्मूत्रश्लेष्ममलापूर्णार्णवे निपतन्ति
तदेवातिबीभत्सितमश्नन्ति ॥ २३॥
ये त्विह वै श्वगर्दभपतयो ब्राह्मणादयो मृगया-
विहारा अतीर्थे च मृगान् निघ्नन्ति तानपि
सम्परेतान् लक्ष्यभूतान् यमपुरुषा इषुभिर्विध्यन्ति ॥ २४॥
ये त्विह वै दाम्भिका दम्भयज्ञेषु पशून् विशसन्ति
तानमुष्मिन् लोके वैशसे नरके पतितान् निरयपतयो
यातयित्वा विशसन्ति ॥ २५॥
यस्त्विह वै सवर्णां भार्यां द्विजो रेतः पाययति
काममोहितस्तं पापकृतममुत्र रेतःकुल्यायां
पातयित्वा रेतः सम्पाययन्ति ॥ २६॥
ये त्विह वै दस्यवोऽग्निदा गरदा ग्रामान् सार्थान् वा
विलुम्पन्ति राजानो राजभटा वा तांश्चापि हि
परेत्य यमदूता वज्रदंष्ट्राः श्वानः सप्तशतानि
विंशतिश्च सरभसं खादन्ति ॥ २७॥
यस्त्विह वा अनृतं वदति साक्ष्ये द्रव्यविनिमये
दाने वा कथञ्चित्स वै प्रेत्य नरकेऽवीचिमत्यधःशिरा
निरवकाशे योजनशतोच्छ्रायाद्गिरिमूर्ध्नः सम्पात्यते
यत्र जलमिव स्थलमश्मपृष्ठमवभासते तदवीचिम-
त्तिलशो विशीर्यमाणशरीरो न म्रियमाणः पुनरारोपितो
निपतति ॥ २८॥
यस्त्विह वै विप्रो राजन्यो वैश्यो वा सोमपीथस्तत्कलत्रं
वा सुरां व्रतस्थोऽपि वा पिबति प्रमादतस्तेषां निरयं
नीतानामुरसि पदाऽऽक्रम्यास्ये वह्निना द्रवमाणं
कार्ष्णायसं निषिञ्चन्ति ॥ २९॥
अथ च यस्त्विह वा आत्मसम्भावनेन स्वयमधमो
जन्मतपोविद्याचारवर्णाश्रमवतो वरीयसो न
बहुमन्येत स मृतक एव मृत्वा क्षारकर्दमे निरये-
ऽवाक्शिरा निपातितो दुरन्ता यातना ह्यश्नुते ॥ ३०॥
ये त्विह वै पुरुषाः पुरुषमेधेन यजन्ते याश्च स्त्रियो
नृपशून् खादन्ति तांश्च ते पशव इव निहता यमसदने
यातयन्तो रक्षोगणाः सौनिका इव स्वधितिनावदाया-
सृक् पिबन्ति नृत्यन्ति च गायन्ति च हृष्यमाणा यथेह
पुरुषादाः ॥ ३१॥
ये त्विह वा अनागसोऽरण्ये ग्रामे वा वैश्रम्भकैरुपसृता-
नुपविश्रम्भय्य जिजीविषून् शूलसूत्रादिषूपप्रोतान्
क्रीडनकतया यातयन्ति तेऽपि च प्रेत्य यमयातनासु
शूलादिषु प्रोतात्मानः क्षुत्तृड्भ्यां चाभिहताः कङ्कवटादिभि-
श्चेतस्ततस्तिग्मतुण्डैराहन्यमाना आत्मशमलं स्मरन्ति ॥ ३२॥
ये त्विह वै भूतान्युद्वेजयन्ति नरा उल्बणस्वभावा यथा
दन्दशूकास्तेऽपि प्रेत्य नरके दन्दशूकाख्ये निपतन्ति
यत्र नृप दन्दशूकाः पञ्चमुखाः सप्तमुखा उपसृत्य
ग्रसन्ति यथा बिलेशयान् ॥ ३३॥
ये त्विह वा अन्धावटकुसूलगुहादिषु भूतानि निरुन्धन्ति
तथामुत्र तेष्वेवोपवेश्य सगरेण वह्निना धूमेन निरुन्धन्ति ॥ ३४॥
यस्त्विह वा अतिथीनभ्यागतान् वा गृहपतिरसकृ-
दुपगतमन्युर्दिधक्षुरिव पापेन चक्षुषा निरीक्षते तस्य
चापि निरये पापदृष्टेरक्षिणी वज्रतुण्डा गृध्राः
कङ्ककाकवटादयः प्रसह्योरुबलादुत्पाटयन्ति ॥ ३५॥
यस्त्विह वा आढ्याभिमतिरहङ्कृतिस्तिर्यक्प्रेक्षणः
सर्वतोऽभिविशङ्की अर्थव्ययनाशचिन्तया
परिशुष्यमाणहृदयवदनो निर्वृतिमनवगतो ग्रह
इवार्थमभिरक्षति स चापि प्रेत्य तदुत्पादनोत्कर्षण
संरक्षणशमलग्रहः सूचीमुखे नरके निपतति यत्र
ह वित्तग्रहं पापपुरुषं धर्मराजपुरुषा वायका इव
सर्वतोऽङ्गेषु सूत्रैः परिवयन्ति ॥ ३६॥
एवंविधा नरका यमालये सन्ति शतशः सहस्रशस्तेषु
सर्वेषु च सर्व एवाधर्मवर्तिनो ये केचिदिहोदिता
अनुदिताश्चावनिपते पर्यायेण विशन्ति तथैव धर्मानुवर्तिन
इतरत्र इह तु पुनर्भवे त उभयशेषाभ्यां निविशन्ति ॥ ३७॥
निवृत्तिलक्षणमार्ग आदावेव व्याख्यातः एतावानेवा-
ण्डकोशो यश्चतुर्दशधा पुराणेषु विकल्पित उपगीयते
यत्तद्भगवतो नारायणस्य साक्षान्महापुरुषस्य स्थविष्ठं
रूपमात्ममायागुणमयमनुवर्णितमादृतः पठति शृणोति
श्रावयति स उपगेयं भगवतः परमात्मनोऽग्राह्यमपि
श्रद्धाभक्तिविशुद्धबुद्धिर्वेद ॥ ३८॥
श्रुत्वा स्थूलं तथा सूक्ष्मं रूपं भगवतो यतिः ।
स्थूले निर्जितमात्मानं शनैः सूक्ष्मं धिया नयेदिति ॥ ३९॥
भूद्वीपवर्षसरिदद्रिनभःसमुद्र-
पातालदिङ्नरकभागणलोकसंस्था ।
गीता मया तव नृपाद्भुतमीश्वरस्य
स्थूलं वपुः सकलजीवनिकायधाम ॥ ४०॥
इति श्रीमद्भागवते महापुराणे वैयासक्यामष्टादशसाहस्र्यां
पारमहंस्यां संहितायां पञ्चमस्कन्धे नरकानुवर्णनं नाम
षड्विंशोऽध्यायः ॥ २६॥
॥ इति पञ्चमस्कन्धः समाप्तः ॥
॥ हरिः ॐ तत्सत् ॥
g