श्रीमद्भागवतमहापूराणम् पञ्चमस्कन्ध
महाभागवतो
दैत्यदानवकुलतीर्थीकरणशीलाचरितः
प्रह्लादोऽव्यवधानानन्यभक्तियोगेन सह
तद्वर्षपुरुषैरुपास्ते इदं चोदाहरति ॥ ७॥
ओं नमो भगवते नरसिंहाय नमस्तेजस्तेजसे
आविराविर्भव वज्रनख वज्रदंष्ट्र कर्माशयान्
रन्धय रन्धय तमो ग्रस ग्रस ओं स्वाहा
अभयमभयमात्मनि भूयिष्ठा ओं क्ष्रौम् ॥ ८॥
स्वस्त्यस्तु विश्वस्य खलः प्रसीदतां
ध्यायन्तु भूतानि शिवं मिथो धिया ।
मनश्च भद्रं भजतादधोक्षजे
आवेश्यतां नो मतिरप्यहैतुकी ॥ ९॥
मागारदारात्मजवित्तबन्धुषु
सङ्गो यदि स्याद्भगवत्प्रियेषु नः ।
यः प्राणवृत्त्या परितुष्ट आत्मवान्
सिद्ध्यत्यदूरान्न तथेन्द्रियप्रियः ॥ १०॥
यत्सङ्गलब्धं निजवीर्यवैभवं
तीर्थं मुहुः संस्पृशतां हि मानसम् ।
हरत्यजोऽन्तःश्रुतिभिर्गतोऽङ्गजं
को वै न सेवेत मुकुन्दविक्रमम् ॥ ११॥
यस्यास्ति भक्तिर्भगवत्यकिञ्चना
सर्वैर्गुणैस्तत्र समासते सुराः ।
हरावभक्तस्य कुतो महद्गुणा
मनोरथेनासति धावतो बहिः ॥ १२॥
हरिर्हि साक्षाद्भगवान् शरीरिणा-
मात्मा झषाणामिव तोयमीप्सितम् ।
हित्वा महांस्तं यदि सज्जते गृहे
तदा महत्त्वं वयसा दम्पतीनाम् ॥ १३॥
तस्माद्रजोरागविषादमन्यु-
मानस्पृहाभयदैन्याधिमूलम् ।
हित्वा गृहं संसृतिचक्रवालं
नृसिंहपादं भजताकुतोभयमिति ॥ १४॥
केतुमालेऽपि भगवान् कामदेवस्वरूपेण लक्ष्म्याः
प्रियचिकीर्षया प्रजापतेर्दुहितॄणां पुत्राणां तद्वर्षपतीनां
पुरुषायुषाहोरात्रपरिसङ्ख्यानानां यासां गर्भा महापुरुष-
महास्त्रतेजसोद्वेजितमनसां विध्वस्ता व्यसवः
संवत्सरान्ते विनिपतन्ति ॥ १५॥
अतीव सुललितगतिविलासविलसितरुचिरहास-
लेशावलोकलीलया किञ्चिदुत्तम्भितसुन्दरभ्रूमण्डल-
सुभगवदनारविन्दश्रिया रमां रमयन्निन्द्रियाणि
रमयते ॥ १६॥
तद्भगवतो मायामयं रूपं परमसमाधियोगेन
रमादेवी संवत्सरस्य रात्रिषु प्रजापतेर्दुहितृभि-
रुपेताहःसु च तद्भर्तृभिरुपास्ते इदं चोदाहरति ॥ १७॥
ओं ह्रां ह्रीं ह्रूं ओं नमो भगवते हृषीकेशाय
सर्वगुणविशेषैर्विलक्षितात्मने आकूतीनां चित्तीनां
चेतसां विशेषाणां चाधिपतये षोडशकलाय
च्छन्दोमयायान्नमयायामृतमयाय सर्वमयाय
सहसे ओजसे बलाय कान्ताय कामाय नमस्ते
उभयत्र भूयात् ॥ १८॥
स्त्रियो व्रतैस्त्वा हृषीकेश्वरं स्वतो
ह्याराध्य लोके पतिमाशासतेऽन्यम् ।
तासां न ते वै परिपान्त्यपत्यं
प्रियं धनायूंषि यतोऽस्वतन्त्राः ॥ १९॥
स वै पतिः स्यादकुतोभयः स्वयं
समन्ततः पाति भयातुरं जनम् ।
स एक एवेतरथा मिथो भयं
नैवात्मलाभादधि मन्यते परम् ॥ २०॥
या तस्य ते पादसरोरुहार्हणं
निकामयेत्साखिलकामलम्पटा ।
तदेव रासीप्सितमीप्सितोऽर्चितो
यद्भग्नयाच्ञा भगवन् प्रतप्यते ॥ २१॥
मत्प्राप्तयेऽजेशसुरासुरादय-
स्तप्यन्त उग्रं तप ऐन्द्रिये धियः ।
ऋते भवत्पादपरायणान्न मां
विन्दन्त्यहं त्वद्धृदया यतोऽजित ॥ २२॥
स त्वं ममाप्यच्युत शीर्ष्णि वन्दितं
कराम्बुजं यत्त्वदधायि सात्वताम् ।
बिभर्षि मां लक्ष्म वरेण्य मायया
क ईश्वरस्येहितमूहितुं विभुरिति ॥ २३॥
रम्यके च भगवतः प्रियतमं मात्स्यमवताररूपं
तद्वर्षपुरुषस्य मनोप्राक्प्रदर्शितं स इदानीमपि
महता भक्तियोगेनाराधयतीदं चोदाहरति ॥ २४॥
ओं नमो भगवते मुख्यतमाय नमः सत्त्वाय
प्राणायौजसे सहसे बलाय महामत्स्याय नम इति ॥ २५॥
अन्तर्बहिश्चाखिललोकपालकै-
रदृष्टरूपो विचरस्युरुस्वनः ।
स ईश्वरस्त्वं य इदं वशेऽनय-
न्नाम्ना यथा दारुमयीं नरः स्त्रियम् ॥ २६॥
यं लोकपालाः किल मत्सरज्वरा
हित्वा यतन्तोऽपि पृथक्समेत्य च ।
पातुं न शेकुर्द्विपदश्चतुष्पदः
सरीसृपं स्थाणु यदत्र दृश्यते ॥ २७॥
भवान् युगान्तार्णव ऊर्मिमालिनि
क्षोणीमिमामोषधिवीरुधां निधिम् ।
मया सहोरुक्रमतेज ओजसा
तस्मै जगत्प्राणगणात्मने नम इति ॥ २८॥
हिरण्मयेऽपि भगवान् निवसति कूर्मतनुं
बिभ्राणस्तस्य तत्प्रियतमां तनुमर्यमा सह
वर्षपुरुषैः पितृगणाधिपतिरुपधावति
मन्त्रमिमं चानुजपति ॥ २९॥
ओं नमो भगवते अकूपाराय सर्वसत्त्वगुण-
विशेषणायानुपलक्षितस्थानाय नमो वर्ष्मणे
नमो भूम्ने नमो नमोऽवस्थानाय नमस्ते ॥ ३०॥
यद्रूपमेतन्निजमाययार्पित-
मर्थस्वरूपं बहुरूपरूपितम् ।
सङ्ख्या न यस्यास्त्ययथोपलम्भना-
त्तस्मै नमस्तेऽव्यपदेशरूपिणे ॥ ३१॥
जरायुजं स्वेदजमण्डजोद्भिदं
चराचरं देवर्षिपितृभूतमैन्द्रियम् ।
द्यौः खं क्षितिः शैलसरित्समुद्र-
द्वीपग्रहर्क्षेत्यभिधेय एकः ॥ ३२॥
यस्मिन्नसङ्ख्येयविशेषनाम-
रूपाकृतौ कविभिः कल्पितेयम् ।
सङ्ख्या यया तत्त्वदृशापनीयते
तस्मै नमः साङ्ख्यनिदर्शनाय ते इति ॥ ३३॥
उत्तरेषु च कुरुषु भगवान् यज्ञपुरुषः
कृतवराहरूप आस्ते तं तु देवी हैषा भूः
सह कुरुभिरस्खलितभक्तियोगेनोपधावति
इमां च परमामुपनिषदमावर्तयति ॥ ३४॥
ओं नमो भगवते मन्त्रतत्त्वलिङ्गाय
यज्ञक्रतवे महाध्वरावयवाय महापुरुषाय
नमः कर्मशुक्लाय त्रियुगाय नमस्ते ॥ ३५॥
यस्य स्वरूपं कवयो विपश्चितो
गुणेषु दारुष्विव जातवेदसम् ।
मथ्नन्ति मथ्ना मनसा दिदृक्षवो
गूढं क्रियार्थैर्नम ईरितात्मने ॥ ३६॥
द्रव्यक्रियाहेत्वयनेशकर्तृभि-
र्मायागुणैर्वस्तुनिरीक्षितात्मने ।
अन्वीक्षयाङ्गातिशयात्मबुद्धिभि-
र्निरस्तमायाकृतये नमो नमः ॥ ३७॥
करोति विश्वस्थितिसंयमोदयं
यस्येप्सितं नेप्सितमीक्षितुर्गुणैः ।
माया यथायो भ्रमते तदाश्रयं
ग्राव्णो नमस्ते गुणकर्मसाक्षिणे ॥ ३८॥
प्रमथ्य दैत्यं प्रतिवारणं मृधे
यो मां रसाया जगदादिसूकरः ।
कृत्वाग्रदंष्ट्रे निरगादुदन्वतः
क्रीडन्निवेभः प्रणतास्मि तं विभुमिति ॥ ३९॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
पञ्चमस्कन्धे भुवनकोशवर्णनं नामाष्टादशोऽध्यायः ॥ १८॥
॥ ॐ नमो भगवते वासुदेवाय ॥
॥ एकोनविंशोऽध्यायः ॥
श्रीशुक उवाच ।
किम्पुरुषे वर्षे भगवन्तमादिपुरुषं लक्ष्मणाग्रजं
सीताभिरामं रामं तच्चरणसन्निकर्षाभिरतः
परमभागवतो हनुमान् सह किम्पुरुषैरविरत-
भक्तिरुपास्ते ॥ १॥
आर्ष्टिषेणेन सह गन्धर्वैरनुगीयमानां परमकल्याणीं
भर्तृभगवत्कथां समुपशृणोति स्वयं चेदं गायति ॥ २॥
ओं नमो भगवते उत्तमश्लोकाय नम आर्यलक्षणशील-
व्रताय नम उपशिक्षितात्मन उपासितलोकाय नमः
साधुवादनिकषणाय नमो ब्रह्मण्यदेवाय महापुरुषाय
महाराजाय नम इति ॥ ३॥
यत्तद्विशुद्धानुभवमात्रमेकं
स्वतेजसा ध्वस्तगुणव्यवस्थम् ।
प्रत्यक्प्रशान्तं सुधियोपलम्भनं
ह्यनामरूपं निरहं प्रपद्ये ॥ ४॥
मर्त्यावतारस्त्विह मर्त्यशिक्षणं
रक्षोवधायैव न केवलं विभोः ।
कुतोऽन्यथा स्याद्रमतः स्व आत्मनः
सीताकृतानि व्यसनानीश्वरस्य ॥ ५॥
न वै स आत्माऽऽत्मवतां सुहृत्तमः
सक्तस्त्रिलोक्यां भगवान्वासुदेवः ।
न स्त्रीकृतं कश्मलमश्नुवीत
न लक्ष्मणं चापि विहातुमर्हति ॥ ६॥
न जन्म नूनं महतो न सौभगं
न वाङ् न बुद्धिर्नाकृतिस्तोषहेतुः ।
तैर्यद्विसृष्टानपि नो वनौकस-
श्चकार सख्ये बत लक्ष्मणाग्रजः ॥ ७॥
सुरोऽसुरो वाप्यथ वानरो नरः
सर्वात्मना यः सुकृतज्ञमुत्तमम् ।
भजेत रामं मनुजाकृतिं हरिं
य उत्तराननयत्कोसलान् दिवमिति ॥ ८॥
भारतेऽपि वर्षे भगवान् नरनारायणाख्य आकल्पान्त-
मुपचितधर्म ज्ञानवैराग्यैश्वर्योपशमोपरमात्मोपलम्भन-
मनुग्रहायात्मवतामनुकम्पया तपोऽव्यक्तगतिश्चरति ॥ ९॥
तं भगवान् नारदो वर्णाश्रमवतीभिर्भारतीभिः प्रजाभि-
र्भगवत्प्रोक्ताभ्यां साङ्ख्ययोगाभ्यां भगवदनुभावोपवर्णनं
सावर्णेरुपदेक्ष्यमाणः परमभक्तिभावेनोपसरति इदं
चाभिगृणाति ॥ १०॥
ओं नमो भगवते उपशमशीलायोपरतानात्म्याय
नमोऽकिञ्चनवित्ताय ऋषिऋषभाय नरनारायणाय
परमहंस परमगुरवे आत्मारामाधिपतये नमो नम इति ॥ ११॥
गायति चेदम् ।
कर्तास्य सर्गादिषु यो न बध्यते
न हन्यते देहगतोऽपि दैहिकैः ।
द्रष्टुर्न दृग्यस्य गुणैर्विदूष्यते
तस्मै नमोऽसक्तविविक्तसाक्षिणे ॥ १२॥
इदं हि योगेश्वर योगनैपुणं
हिरण्यगर्भो भगवाञ्जगाद यत् ।
यदन्तकाले त्वयि निर्गुणे मनो
भक्त्या दधीतोज्झितदुष्कलेवरः ॥ १३॥
यथैहिकामुष्मिककामलम्पटः
सुतेषु दारेषु धनेषु चिन्तयन् ।
शङ्केत विद्वान् कुकलेवरात्यया-
द्यस्तस्य यत्नः श्रम एव केवलम् ॥ १४॥
तन्नः प्रभो त्वं कुकलेवरार्पितां
त्वन्माययाहम्ममतामधोक्षज ।
भिन्द्याम येनाशु वयं सुदुर्भिदां
विधेहि योगं त्वयि नः स्वभावमिति ॥ १५॥
भारतेऽप्यस्मिन् वर्षे सरिच्छैलाः सन्ति बहवो
मलयो मङ्गलप्रस्थो मैनाकस्त्रिकूटऋषभः कूटकः
कोल्लकः सह्यो देवगिरिरृष्यमूकः श्रीशैलो वेङ्कटो
महेन्द्रो वारिधारो विन्ध्यः शुक्तिमान् ऋक्षगिरिः
पारियात्रो द्रोणश्चित्रकूटो गोवर्धनो रैवतकः ककुभो
नीलो गोकामुख इन्द्रकीलः कामगिरिरिति चान्ये
च शतसहस्रशः शैलास्तेषां नितम्बप्रभवा नदा
नद्यश्च सन्त्यसङ्ख्याताः ॥ १६॥
एतासामपो भारत्यः प्रजा नामभिरेव पुनन्तीना-
मात्मना चोपस्पृशन्ति ॥ १७॥
चन्द्रवसा ताम्रपर्णी अवटोदा कृतमाला वैहायसी
कावेरी वेणी पयस्विनी शर्करावर्ता तुङ्गभद्रा कृष्णा
वेण्या भीमरथी गोदावरी निर्विन्ध्या पयोष्णी तापी
रेवा सुरसा नर्मदा चर्मण्वती सिन्धुरन्धः शोणश्च
नदौ महानदी वेदस्मृतिरृषिकुल्या त्रिसामा कौशिकी
मन्दाकिनी यमुना सरस्वती दृषद्वती गोमती सरयू
रोधस्वती सप्तवती सुषोमा शतद्रूश्चन्द्रभागा मरुद्वृधा
वितस्ता असिक्नी विश्वेति महानद्यः ॥ १८॥
अस्मिन्नेव वर्षे पुरुषैर्लब्धजन्मभिः शुक्ललोहित-
कृष्णवर्णेन स्वारब्धेन कर्मणा दिव्यमानुषनारक-
गतयो बह्व्य आत्मन आनुपूर्व्येण सर्वा ह्येव सर्वेषां
विधीयन्ते यथा वर्णविधानमपवर्गश्चापि भवति ॥ १९॥
योऽसौ भगवति सर्वभूतात्मन्यनात्म्येऽनिरुक्ते-
ऽनिलयने परमात्मनि वासुदेवेऽनन्यनिमित्त-
भक्तियोगलक्षणो नानागतिनिमित्ताविद्याग्रन्थि-
रन्धनद्वारेण यदा हि महापुरुषपुरुषप्रसङ्गः ॥ २०॥
एतदेव हि देवा गायन्ति -
अहो अमीषां किमकारि शोभनं
प्रसन्न एषां स्विदुत स्वयं हरिः ।
यैर्जन्म लब्धं नृषु भारताजिरे
मुकुन्दसेवौपयिकं स्पृहा हि नः ॥ २१॥
किं दुष्करैर्नः क्रतुभिस्तपोव्रतै-
र्दानादिभिर्वा द्युजयेन फल्गुना ।
न यत्र नारायणपादपङ्कज-
स्मृतिः प्रमुष्टातिशयेन्द्रियोत्सवात् ॥ २२॥
कल्पायुषां स्थानजयात्पुनर्भवात्
क्षणायुषां भारतभूजयो वरम् ।
क्षणेन मर्त्येन कृतं मनस्विनः
सन्न्यस्य संयान्त्यभयं पदं हरेः ॥ २३॥
न यत्र वैकुण्ठकथासुधापगा
न साधवो भागवतास्तदाश्रयाः ।
न यत्र यज्ञेशमखा महोत्सवाः
सुरेशलोकोऽपि न वै स सेव्यताम् ॥ २४॥
प्राप्ता नृजातिं त्विह ये च जन्तवो
ज्ञानक्रियाद्रव्यकलापसम्भृताम् ।
न वै यतेरन्नपुनर्भवाय ते
भूयो वनौका इव यान्ति बन्धनम् ॥ २५॥
यैः श्रद्धया बर्हिषि भागशो हवि
र्निरुप्तमिष्टं विधिमन्त्रवस्तुतः ।
एकः पृथङ् नामभिराहुतो मुदा
गृह्णाति पूर्णः स्वयमाशिषां प्रभुः ॥ २६॥
सत्यं दिशत्यर्थितमर्थितो नृणां
नैवार्थदो यत्पुनरर्थिता यतः ।
स्वयं विधत्ते भजतामनिच्छता-
मिच्छापिधानं निजपादपल्लवम् ॥ २७॥
यद्यत्र नः स्वर्गसुखावशेषितं
स्विष्टस्य सूक्तस्य कृतस्य शोभनम् ।
तेनाजनाभे स्मृतिमज्जन्म नः स्या-
द्वर्षे हरिर्यद्भजतां शं तनोति ॥ २८॥
श्रीशुक उवाच ।
जम्बूद्वीपस्य च राजन्नुपद्वीपानष्टौ हैक उपदिशन्ति
सगरात्मजैरश्वान्वेषण इमां महीं परितो निखनद्भि-
रुपकल्पितान् ॥ २९॥
तद्यथा स्वर्णप्रस्थश्चन्द्रशुक्ल आवर्तनो रमणको
मन्दरहरिणः पाञ्चजन्यः सिंहलो लङ्केति ॥ ३०॥
एव