KaryaVidhan

श्रीमद्भागवतमहापूराणम् पञ्चमस्कन्ध

Page 7 of 12


अकरोदत्यलं कीर्त्या विष्णुः सुरगणं यथा ॥ १६॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
पञ्चमस्कन्धे प्रियव्रतवंशानुकीर्तनं नाम पञ्चदशोऽध्यायः ॥ १५॥

॥ ॐ नमो भगवते वासुदेवाय ॥
॥ षोडशोऽध्यायः ॥

राजोवाच ।
उक्तस्त्वया भूमण्डलायामविशेषो यावदादित्य-
स्तपति यत्र चासौ ज्योतिषां गणैश्चन्द्रमा वा
सह दृश्यते ॥ १॥

तत्रापि प्रियव्रतरथचरणपरिखातैः सप्तभिः
सप्तसिन्धव उपकॢप्ता यत एतस्याः सप्तद्वीप-
विशेषविकल्पस्त्वया भगवन् खलु सूचित
एतदेवाखिलमहं मानतो लक्षणतश्च सर्वं
विजिज्ञासामि ॥ २॥

भगवतो गुणमये स्थूलरूप आवेशितं मनो
ह्यगुणेऽपि सूक्ष्मतम आत्मज्योतिषि परे
ब्रह्मणि भगवति वासुदेवाख्ये क्षममावेशितुं
तदु हैतद्गुरोऽर्हस्यनुवर्णयितुमिति ॥ ३॥

ऋषिरुवाच ।
न वै महाराज भगवतो मायागुणविभूतेः
काष्ठां मनसा वचसा वाधिगन्तुमलं
विबुधायुषापि पुरुषस्तस्मात्प्राधान्येनैव
भूगोलकविशेषं नामरूपमानलक्षणतो
व्याख्यास्यामः ॥ ४॥

यो वायं द्वीपः कुवलयकमलकोशाभ्यन्तर-
कोशो नियुतयोजनविशालः समवर्तुलो
यथा पुष्करपत्रम् ॥ ५॥

यस्मिन् नव वर्षाणि नवयोजनसहस्रायामा-
न्यष्टभिर्मर्यादागिरिभिः सुविभक्तानि भवन्ति ॥ ६॥

एषां मध्ये इलावृतं नामाभ्यन्तरवर्षं यस्य
नाभ्यामवस्थितः सर्वतः सौवर्णः कुलगिरिराजो
मेरुर्द्वीपायामसमुन्नाहः कर्णिकाभूतः कुवलय-
कमलस्य मूर्धनि द्वात्रिंशत्सहस्रयोजनविततो मूले
षोडशसहस्रं तावतान्तर्भूम्यां प्रविष्टः ॥ ७॥

उत्तरोत्तरेणेलावृतं नीलः श्वेतः श‍ृङ्गवानिति त्रयो
रम्यकहिरण्मयकुरूणां वर्षाणां मर्यादागिरयः
प्रागायता उभयतः क्षारोदावधयो द्विसहस्रपृथव
एकैकशः पूर्वस्मात्पूर्वस्मादुत्तर उत्तरो दशांशाधिकांशेन
दैर्घ्य एव ह्रसन्ति ॥ ८॥

एवं दक्षिणेनेलावृतं निषधो हेमकूटो हिमालय इति
प्रागायता यथा नीलादयोऽयुतयोजनोत्सेधा हरिवर्ष-
किम्पुरुषभारतानां यथासङ्ख्यम् ॥ ९॥

तथैवेलावृतमपरेण पूर्वेण च माल्यवद्गन्धमादना-
वानीलनिषधायतौ द्विसहस्रं पप्रथतुः केतुमाल-
भद्राश्वयोः सीमानं विदधाते ॥ १०॥

मन्दरो मेरुमन्दरः सुपार्श्वः कुमुद इत्ययुतयोजन-
विस्तारोन्नाहा मेरोः चतुर्दिशमवष्टम्भगिरय
उपकॢप्ताः ॥ ११॥

चतुर्ष्वेतेषु चूतजम्बूकदम्बन्यग्रोधाश्चत्वारः पादपप्रवराः
पर्वतकेतव इवाधिसहस्रयोजनोन्नाहास्तावद्विटपविततयः
शतयोजनपरिणाहाः ॥ १२॥

ह्रदाश्चत्वारः पयोमध्विक्षुरसमृष्टजला यदुपस्पर्शिन
उपदेवगणा योगैश्वर्याणि स्वाभाविकानि भरतर्षभ
धारयन्ति ॥ १३॥

देवोद्यानानि च भवन्ति चत्वारि नन्दनं चैत्ररथं
वैभ्राजकं सर्वतोभद्रमिति ॥ १४॥

येष्वमरपरिवृढाः सह सुरललनाललामयूथपतय
उपदेवगणैरुपगीयमानमहिमानः किल विहरन्ति ॥ १५॥

मन्दरोत्सङ्ग एकादशशतयोजनोत्तुङ्गदेवचूतशिरसो
गिरिशिखरस्थूलानि फलान्यमृतकल्पानि पतन्ति ॥ १६॥

तेषां विशीर्यमाणानामतिमधुरसुरभिसुगन्धिबहुलारुण-
रसोदेनारुणोदा नाम नदी मन्दरगिरिशिखरान्निपतन्ती
पूर्वेणेलावृतमुपप्लावयति ॥ १७॥

यदुपजोषणाद्भवान्या अनुचरीणां पुण्यजनवधूनामवयव-
स्पर्शसुगन्धवातो दशयोजनं समन्तादनुवासयति ॥ १८॥

एवं जम्बूफलानामत्युच्चनिपातविशीर्णानामनस्थिप्रायाणा-
मिभकायनिभानां रसेन जम्बू नाम नदी मेरुमन्दर-
शिखरादयुतयोजनादवनितले निपतन्ती दक्षिणेना-
त्मानं यावदिलावृतमुपस्यन्दयति ॥ १९॥

तावदुभयोरपि रोधसोर्या मृत्तिका तद्रसेनानुविध्यमाना
वाय्वर्कसंयोगविपाकेन सदामरलोकाभरणं जाम्बूनदं
नाम सुवर्णं भवति ॥ २०॥

यदु ह वाव विबुधादयः सह युवतिभिर्मुकुटकटक-
कटिसूत्राद्याभरणरूपेण खलु धारयन्ति ॥ २१॥

यस्तु महाकदम्बः सुपार्श्वनिरूढो यास्तस्य कोटरेभ्यो
विनिःसृताः पञ्चायामपरिणाहाः पञ्च मधुधाराः सुपार्श्व-
शिखरात्पतन्त्योऽपरेणात्मानमिलावृतमनुमोदयन्ति ॥ २२॥

या ह्युपयुञ्जानानां मुखनिर्वासितो वायुः समन्ता-
च्छतयोजनमनुवासयति ॥ २३॥

एवं कुमुदनिरूढो यः शतवल्शो नाम वटस्तस्य
स्कन्धेभ्यो नीचीनाः पयोदधिमधुघृतगुडान्ना-
द्यम्बरशय्यासनाभरणादयः सर्व एव कामदुघा नदाः
कुमुदाग्रात्पतन्तस्तमुत्तरेणेलावृतमुपयोजयन्ति ॥ २४॥

यानुपजुषाणानां न कदाचिदपि प्रजानां
वलीपलितक्लमस्वेददौर्गन्ध्यजराऽऽमय-
मृत्युशीतोष्णवैवर्ण्योपसर्गादयस्तापविशेषा
भवन्ति यावज्जीवं सुखं निरतिशयमेव ॥ २५॥

कुरङ्गकुररकुसुम्भवैकङ्कत्रिकूटशिशिरपतङ्ग-
रुचकनिषधशिनीवासकपिलशङ्खवैदूर्यजारुधि-
हंसऋषभनागकालञ्जरनारदादयो विंशति गिरयो
मेरोः कर्णिकाया इव केसरभूता मूलदेशे
परित उपकॢप्ताः ॥ २६॥

जठरदेवकूटौ मेरुं पूर्वेणाष्टादशयोजनसहस्र-
मुदगायतौ द्विसहस्रं पृथुतुङ्गौ भवतः एवमपरेण
पवनपारियात्रौ दक्षिणेन कैलासकरवीरौ
प्रागायतावेवमुत्तरतस्त्रिश‍ृङ्गमकरावष्टभिरेतैः
परिसृतोऽग्निरिव परितश्चकास्ति काञ्चनगिरिः ॥ २७॥

मेरोर्मूर्धनि भगवत आत्मयोनेर्मध्यत उपकॢप्तां
पुरीमयुतयोजनसाहस्रीं समचतुरस्रां शातकौम्भीं
वदन्ति ॥ २८॥

तामनुपरितो लोकपालानामष्टानां यथादिशं
यथारूपं तुरीयमानेन पुरोऽष्टावुपकॢप्ताः ॥ २९॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
पञ्चमस्कन्धे भुवनकोशवर्णनं नाम षोडशोऽध्यायः ॥ १६॥

॥ ॐ नमो भगवते वासुदेवाय ॥
॥ सप्तदशोऽध्यायः ॥

श्रीशुक उवाच ।
तत्र भगवतः साक्षाद्यज्ञलिङ्गस्य विष्णोर्विक्रमतो
वामपादाङ्गुष्ठनखनिर्भिन्नोर्ध्वाण्डकटाहविवरेणा-
न्तःप्रविष्टा या बाह्यजलधारा तच्चरणपङ्कजा-
वनेजनारुणकिञ्जल्कोपरञ्जिताखिलजगदघ-
मलापहोपस्पर्शनामला साक्षाद्भगवत्पदी-
त्यनुपलक्षितवचोऽभिधीयमानातिमहता
कालेन युगसहस्रोपलक्षणेन दिवो
मूर्धन्यवततार यत्तद्विष्णुपदमाहुः ॥ १॥

यत्र ह वाव वीरव्रत औत्तानपादिः परमभागवतो-
ऽस्मत्कुलदेवताचरणारविन्दोदकमिति यामनुसवन-
मुत्कृष्यमाणभगवद्भक्तियोगेन दृढं क्लिद्यमानान्तर्हृदय
औत्कण्ठ्यविवशामीलितलोचनयुगलकुड्मल-
विगलितामलबाष्पकलयाभिव्यज्यमानरोमपुलक-
कुलकोऽधुनापि परमादरेण शिरसा बिभर्ति ॥ २॥

ततः सप्तर्षयस्तत्प्रभावाभिज्ञा यां ननु तपस
आत्यन्तिकी सिद्धिरेतावती भगवति सर्वात्मनि
वासुदेवेऽनुपरतभक्तियोगलाभेनैवोपेक्षितान्या-
र्थात्मगतयो मुक्तिमिवागतां मुमुक्षव इव सबहुमान-
मद्यापि जटाजूटैरुद्वहन्ति ॥ ३॥

ततोऽनेकसहस्रकोटिविमानानीकसङ्कुलदेवयानेना-
वतरन्तीन्दुमण्डलमावार्य ब्रह्मसदने निपतति ॥ ४॥

तत्र चतुर्धा भिद्यमाना चतुर्भिर्नामभिश्चतुर्दिश-
मभिस्पन्दन्ती नदनदीपतिमेवाभिनिविशति
सीतालकनन्दा चक्षुर्भद्रेति ॥ ५॥

सीता तु ब्रह्मसदनात्केसराचलादि गिरिशिखरेभ्यो-
ऽधोऽधःप्रस्रवन्ती गन्धमादनमूर्धसु पतित्वान्तरेण
भद्राश्ववर्षं प्राच्यां दिशि क्षारसमुद्रमभिप्रविशति ॥ ६॥

एवं माल्यवच्छिखरान्निष्पतन्ती ततोऽनुपरतवेगा
केतुमालमभिचक्षुः प्रतीच्यां दिशि सरित्पतिं
प्रविशति ॥ ७॥

भद्रा चोत्तरतो मेरुशिरसो निपतिता गिरिशिखरा-
द्गिरिशिखरमतिहाय श‍ृङ्गवतः श‍ृङ्गादवस्यन्दमाना
उत्तरांस्तु कुरूनभित उदीच्यां दिशि जलधि-
मभिप्रविशति ॥ ८॥

तथैवालकनन्दा दक्षिणेन ब्रह्मसदनाद्बहूनि
गिरिकूटान्यतिक्रम्य हेमकूटाद्धैमकूटान्यति-
रभसतररंहसा लुठयन्ती भारतमभिवर्षं दक्षिणस्यां
दिशि जलधिमभिप्रविशति यस्यां स्नानार्थं चागच्छतः
पुंसः पदे पदेऽश्वमेधराजसूयादीनां फलं न
दुर्लभमिति ॥ ९॥

अन्ये च नदा नद्यश्च वर्षे वर्षे सन्ति बहुशो
मेर्वादिगिरिदुहितरः शतशः ॥ १०॥

तत्रापि भारतमेव वर्षं कर्मक्षेत्रमन्यान्यष्ट-
वर्षाणि स्वर्गिणां पुण्यशेषोपभोगस्थानानि
भौमानि स्वर्गपदानि व्यपदिशन्ति ॥ ११॥

एषु पुरुषाणामयुतपुरुषायुर्वर्षाणां देवकल्पानां
नागायुतप्राणानां वज्रसंहननबलवयोमोदप्रमुदित-
महासौरतमिथुनव्यवायापवर्गवर्षधृतैकगर्भकलत्राणां
तत्र तु त्रेतायुगसमः कालो वर्तते ॥ १२॥

यत्र ह देवपतयः स्वैः स्वैर्गणनायकैर्विहितमहार्हणाः
सर्वर्तुकुसुमस्तबकफलकिसलयश्रियाऽऽनम्यमान-
विटपलताविटपिभिरुपशुम्भमानरुचिरकाननाश्रमा-
यतनवर्षगिरिद्रोणीषु तथा चामलजलाशयेषु
विकचविविधनववनरुहामोदमुदितराजहंस-
जलकुक्कुटकारण्डवसारसचक्रवाकादिभिः
मधुकरनिकराकृतिभिरुपकूजितेषु जलक्रीडादिभि-
र्विचित्रविनोदैः सुललितसुरसुन्दरीणां
कामकलिलविलासहासलीलावलोकाकृष्टमनोदृष्टयः
स्वैरं विहरन्ति ॥ १३॥

नवस्वपि वर्षेषु भगवान् नारायणो महापुरुषः
पुरुषाणां तदनुग्रहायात्मतत्त्वव्यूहेनात्मनाद्यापि
सन्निधीयते ॥ १४॥

इलावृते तु भगवान् भव एक एव पुमान् न ह्यन्य-
स्तत्रापरो निर्विशति भवान्याः शापनिमित्तज्ञो
यत्प्रवेक्ष्यतः स्त्रीभावस्तत्पश्चाद्वक्ष्यामि ॥ १५॥

भवानीनाथैः स्त्रीगणार्बुदसहस्रैरवरुध्यमानो
भगवतश्चतुर्मूर्तेर्महापुरुषस्य तुरीयां तामसीं
मूर्तिं प्रकृतिमात्मनः सङ्कर्षणसंज्ञामात्मसमाधि-
रूपेण सन्निधाप्यैतदभिगृणन् भव उपधावति ॥ १६॥

श्रीभगवानुवाच ।
ओं नमो भगवते महापुरुषाय सर्वगुणसङ्ख्यानाया-
नन्तायाव्यक्ताय नम इति ॥ १७॥

भजे भजन्यारणपादपङ्कजं
भगस्य कृत्स्नस्य परं परायणम् ।
भक्तेष्वलं भावितभूतभावनं
भवापहं त्वा भवभावमीश्वरम् ॥ १८॥

न यस्य मायागुणचित्तवृत्तिभि-
र्निरीक्षतो ह्यण्वपि दृष्टिरज्यते ।
ईशे यथा नोऽजितमन्युरंहसां
कस्तं न मन्येत जिगीषुरात्मनः ॥ १९॥

असद्दृशो यः प्रतिभाति मायया
क्षीबेव मध्वासवताम्रलोचनः ।
न नागवध्वोऽर्हण ईशिरे ह्रिया
यत्पादयोः स्पर्शनधर्षितेन्द्रियाः ॥ २०॥

यमाहुरस्य स्थितिजन्मसंयमं
त्रिभिर्विहीनं यमनन्तमृषयः ।
न वेद सिद्धार्थमिव क्वचित्स्थितं
भूमण्डलं मूर्धसहस्रधामसु ॥ २१॥

यस्याद्य आसीद्गुणविग्रहो महान्
विज्ञानधिष्ण्यो भगवानजः किल ।
यत्सम्भवोऽहं त्रिवृता स्वतेजसा
वैकारिकं तामसमैन्द्रियं सृजे ॥ २२॥

एते वयं यस्य वशे महात्मनः
स्थिताः शकुन्ता इव सूत्रयन्त्रिताः ।
महानहं वैकृततामसेन्द्रियाः
सृजाम सर्वे यदनुग्रहादिदम् ॥ २३॥

यन्निर्मितां कर्ह्यपि कर्मपर्वणीं
मायां जनोऽयं गुणसर्गमोहितः ।
न वेद निस्तारणयोगमञ्जसा
तस्मै नमस्ते विलयोदयात्मने ॥ २४॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
पञ्चमस्कन्धे सप्तदशोऽध्यायः ॥ १७॥

॥ ॐ नमो भगवते वासुदेवाय ॥
॥ अष्टादशोऽध्यायः ॥

श्रीशुक उवाच ।
तथा च भद्रश्रवा नाम धर्मसुतस्तत्कुलपतयः
पुरुषा भद्राश्ववर्षे साक्षाद्भगवतो वासुदेवस्य
प्रियां तनुं धर्ममयीं हयशीर्षाभिधानां परमेण
समाधिना सन्निधाप्येदमभिगृणन्त उपधावन्ति ॥ १॥

भद्रश्रवस ऊचुः ।
ओं नमो भगवते धर्मायात्मविशोधनाय नम इति ॥ २॥

अहो विचित्रं भगवद्विचेष्टितं
घ्नन्तं जनोऽयं हि मिषन्न पश्यति ।
ध्यायन्नसद्यर्हि विकर्म सेवितुं
निर्हृत्य पुत्रं पितरं जिजीविषति ॥ ३॥

वदन्ति विश्वं कवयः स्म नश्वरं
पश्यन्ति चाध्यात्मविदो विपश्चितः ।
तथापि मुह्यन्ति तवाज मायया
सुविस्मितं कृत्यमजं नतोऽस्मि तम् ॥ ४॥

विश्वोद्भवस्थाननिरोधकर्म ते
ह्यकर्तुरङ्गीकृतमप्यपावृतः ।
युक्तं न चित्रं त्वयि कार्यकारणे
सर्वात्मनि व्यतिरिक्ते च वस्तुतः ॥ ५॥

वेदान् युगान्ते तमसा तिरस्कृतान्
रसातलाद्यो नृतुरङ्गविग्रहः ।
प्रत्याददे वै कवयेऽभियाचते
तस्मै नमस्तेऽवितथेहिताय इति ॥ ६॥

हरिवर्षे चापि भगवान् नरहरिरूपेणास्ते
तद्रूपग्रहणनिमित्तमुत्तरत्राभिधास्ये तद्दयितं
रूपं महापुरुषगुणभाजनो