KaryaVidhan

श्रीमद्भागवतमहापूराणम् पञ्चमस्कन्ध

Page 6 of 12

परमकारुणिकतयोपदिश्य
रहूगणेन सकरुणमभिवन्दितचरण
आपूर्णार्णव इव निभृतकरणोर्म्याशयो
धरणिमिमां विचचार ॥ २४॥

सौवीरपतिरपि सुजनसमवगतपरमात्मसतत्त्व
आत्मन्यविद्याध्यारोपितां च देहात्ममतिं विससर्ज
एवं हि नृप भगवदाश्रिताश्रितानुभावः ॥ २५॥

राजोवाच ।
यो ह वा इह बहुविदा महाभागवत त्वयाभिहितः
परोक्षेण वचसा जीवलोकभवाध्वा स ह्यार्य
मनीषया कल्पितविषयो नाञ्जसाव्युत्पन्नलोक-
समधिगमः अथ तदेवैतद्दुरवगमं समवेता-
नुकल्पेन निर्दिश्यतामिति ॥ २६॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
पञ्चमस्कन्धे त्रयोदशोऽऽध्यायः ॥ १३॥

॥ ॐ नमो भगवते वासुदेवाय ॥
॥ चतुर्दशोऽध्यायः ॥

स होवाच ।
य एष देहात्ममानिनां सत्त्वादिगुणविशेषविकल्पित-
कुशलाकुशलसमवहारविनिर्मितविविधदेहावलिभि-
र्वियोगसंयोगादि अनादिसंसारानुभवस्य द्वारभूतेन
षडिन्द्रियवर्गेण तस्मिन् दुर्गाध्ववदसुगमेऽध्व-
न्यापतित ईश्वरस्य भगवतो विष्णोर्वशवर्तिन्या
मायया जीवलोकोऽयं यथा वणिक्सार्थोऽर्थपरः
स्वदेहनिष्पादितकर्मानुभवः श्मशानवदशिवतमायां
संसाराटव्यां गतो नाद्यापि विफलबहुप्रतियोगेहस्त-
त्तापोपशमनीं हरिगुरुचरणारविन्दमधुकरानुपदवी-
मवरुन्धे ॥ १॥

यस्यामु ह वा एते षडिन्द्रियनामानः कर्मणा दस्यव
एव ते तद्यथा पुरुषस्य धनं यत्किञ्चिद्धर्मौपयिकं बहु
कृच्छ्राधिगतं साक्षात्परमपुरुषाराधनलक्षणो योऽसौ
धर्मस्तं तु साम्पराय उदाहरन्ति । तद्धर्म्यं धनं दर्शन-
स्पर्शनश्रवणास्वादनावघ्राणसङ्कल्पव्यवसायगृह-
ग्राम्योपभोगेन कुनाथस्याजितात्मनो यथा सार्थस्य
विलुम्पन्ति ॥ २॥

अथ च यत्र कौटुम्बिका दारापत्यादयो नाम्ना कर्मणा
वृकसृगाला एवानिच्छतोऽपि कदर्यस्य कुटुम्बिन
उरणकवत्संरक्ष्यमाणं मिषतोऽपि हरन्ति ॥ ३॥

यथा ह्यनुवत्सरं कृष्यमाणमप्यदग्धबीजं क्षेत्रं
पुनरेवावपनकाले गुल्मतृणवीरुद्भिर्गह्वरमिव
भवत्येवमेव गृहाश्रमः कर्मक्षेत्रं यस्मिन् न हि
कर्माण्युत्सीदन्ति यदयं कामकरण्ड एष आवसथः ॥ ४॥

तत्र गतो दंशमशकसमापसदैर्मनुजैः शलभ-
शकुन्ततस्करमूषकादिभिरुपरुध्यमानबहिःप्राणः
क्वचित्परिवर्तमानोऽस्मिन्नध्वन्यविद्याकामकर्मभि-
रुपरक्तमनसानुपपन्नार्थं नरलोकं गन्धर्वनगर-
मुपपन्नमिति मिथ्यादृष्टिरनुपश्यति ॥ ५॥

तत्र च क्वचिदातपोदकनिभान् विषयानुपधावति
पानभोजनव्यवायादि व्यसनलोलुपः ॥ ६॥

क्वचिच्चाशेषदोषनिषदनं पुरीषविशेषं तद्वर्णगुण-
निर्मितमतिः सुवर्णमुपादित्सत्यग्निकामकातर
इवोल्मुकपिशाचम् ॥ ७॥

अथ कदाचिन्निवासपानीयद्रविणाद्यनेकात्मो-
पजीवनाभिनिवेश एतस्यां संसाराटव्यामितस्ततः
परिधावति ॥ ८॥

क्वचिच्च वात्यौपम्यया प्रमदयाऽऽरोहमारोपित-
स्तत्कालरजसा रजनीभूत इवासाधुमर्यादो
रजस्वलाक्षोऽपि दिग्देवता अतिरजस्वलमतिर्न
विजानाति ॥ ९॥

क्वचित्सकृदवगतविषयवैतथ्यः स्वयं
पराभिध्यानेन विभ्रंशितस्मृतिस्तयैव
मरीचितोयप्रायांस्तानेवाभिधावति ॥ १०॥

क्वचिदुलूकझिल्लीस्वनवदतिपरुषरभसाटोपं
प्रत्यक्षं परोक्षं वा रिपुराजकुलनिर्भर्त्सितेना-
तिव्यथितकर्णमूलहृदयः ॥ ११॥

स यदा दुग्धपूर्वसुकृतस्तदा कारस्करकाकतुण्डा-
द्यपुण्यद्रुमलताविषोदपानवदुभयार्थशून्यद्रविणान्
जीवन्मृतान् स्वयं जीवन् म्रियमाण उपधावति ॥ १२॥

एकदासत्प्रसङ्गान्निकृतमतिर्व्युदकस्रोतः स्खलनव-
दुभयतोऽपि दुःखदं पाखण्डमभियाति ॥ १३॥

यदा तु परबाधयान्ध आत्मने नोपनमति तदा हि
पितृपुत्रबर्हिष्मतः पितृपुत्रान् वा स खलु भक्षयति ॥ १४॥

क्वचिदासाद्य गृहं दाववत्प्रियार्थविधुरमसुखोदर्कं
शोकाग्निना दह्यमानो भृशं निर्वेदमुपगच्छति ॥ १५॥

क्वचित्कालविषमितराजकुलरक्षसापहृतप्रियतम-
धनासुः प्रमृतक इव विगतजीवलक्षण आस्ते ॥ १६॥

कदाचिन्मनोरथोपगतपितृपितामहाद्यसत्सदिति
स्वप्ननिर्वृतिलक्षणमनुभवति ॥ १७॥

क्वचिद्गृहाश्रमकर्मचोदनातिभरगिरि-
मारुरुक्षमाणो लोकव्यसनकर्षितमनाः
कण्टकशर्कराक्षेत्रं प्रविशन्निव सीदति ॥ १८॥

क्वचिच्च दुःसहेन कायाभ्यन्तरवह्निना गृहीतसारः
स्वकुटुम्बाय क्रुध्यति ॥ १९॥

स एव पुनर्निद्राजगरगृहीतोऽन्धे तमसि मग्नः
शून्यारण्य इव शेते नान्यत्किञ्चन वेद शव
इवापविद्धः ॥ २०॥

कदाचिद्भग्नमानदंष्ट्रो दुर्जनदन्दशूकैरलब्ध-
निद्राक्षणो व्यथितहृदयेनानुक्षीयमाणविज्ञानो-
ऽन्धकूपेऽन्धवत्पतति ॥ २१॥

कर्हि स्म चित्काममधुलवान् विचिन्वन् यदा
परदारपरद्रव्याण्यवरुन्धानो राज्ञा स्वामिभिर्वा
निहतः पतत्यपारे निरये ॥ २२॥

अथ च तस्मादुभयथापि हि कर्मास्मिन्नात्मनः
संसारावपनमुदाहरन्ति ॥ २३॥

मुक्तस्ततो यदि बन्धाद्देवदत्त उपाच्छिनत्ति
तस्मादपि विष्णुमित्र इत्यनवस्थितिः ॥ २४॥

क्वचिच्च शीतवाताद्यनेकाधिदैविकभौतिका-
त्मीयानां दशानां प्रतिनिवारणेऽकल्पो
दुरन्तचिन्तया विषण्ण आस्ते ॥ २५॥

क्वचिन्मिथो व्यवहरन् यत्किञ्चिद्धनमन्येभ्यो
वा काकिणिकामात्रमप्यपहरन् यत्किञ्चिद्वा
विद्वेषमेति वित्तशाठ्यात् ॥ २६॥

अध्वन्यमुष्मिन्निम उपसर्गास्तथा सुखदुःख-
रागद्वेषभयाभिमानप्रमादोन्मादशोकमोहलोभ-
मात्सर्येर्ष्यावमानक्षुत्पिपासाऽऽधिव्याधिजन्म-
जरामरणादयः ॥ २७॥

क्वापि देवमायया स्त्रिया भुजलतोपगूढः प्रस्कन्न-
विवेकविज्ञानो यद्विहारगृहारम्भाकुलहृदय-
स्तदाश्रयावसक्तसुतदुहितृकलत्रभाषितावलोक-
विचेष्टितापहृतहृदय आत्मानमजितात्मापारेऽन्धे
तमसि प्रहिणोति ॥ २८॥

कदाचिदीश्वरस्य भगवतो विष्णोश्चक्रात्परमाण्वादि
द्विपरार्धापवर्गकालोपलक्षणात्परिवर्तितेन वयसा
रंहसा हरत आब्रह्मतृणस्तम्बादीनां भूतानामनिमिषतो
मिषतां वित्रस्तहृदयस्तमेवेश्वरं कालचक्रनिजायुधं
साक्षाद्भगवन्तं यज्ञपुरुषमनादृत्य पाखण्डदेवताः
कङ्कगृध्रबकवटप्राया आर्यसमयपरिहृताः
साङ्केत्येनाभिधत्ते ॥ २९॥

यदा पाखण्डिभिरात्मवञ्चितैस्तैरुरुवञ्चितो ब्रह्मकुलं
समावसंस्तेषां शीलमुपनयनादि श्रौतस्मार्तकर्मा-
नुष्ठानेन भगवतो यज्ञपुरुषस्याराधनमेव तदरोचयन्
शूद्रकुलं भजते निगमाचारेऽशुद्धितो यस्य मिथुनीभावः
कुटुम्बभरणं यथा वानरजातेः ॥ ३०॥

तत्रापि निरवरोधः स्वैरेण विहरन्नतिकृपणबुद्धि-
रन्योन्यमुखनिरीक्षणादिना ग्राम्यकर्मणैव
विस्मृतकालावधिः ॥ ३१॥

क्वचिद्द्रुमवदैहिकार्थेषु गृहेषु रंस्यन् यथा वानरः
सुतदारवत्सलो व्यवायक्षणः ॥ ३२॥

एवमध्वन्यवरुन्धानो मृत्युगजभयात्तमसि
गिरिकन्दरप्राये ॥ ३३॥

क्वचिच्छीतवाताद्यनेकदैविकभौतिकात्मीयानां
दुःखानां प्रतिनिवारणेऽकल्पो दुरन्तविषयविषण्ण
आस्ते ॥ ३४॥

क्वचिन्मिथो व्यवहरन् यत्किञ्चिद्धनमुपयाति
वित्तशाठ्येन ॥ ३५॥

क्वचित्क्षीणधनः शय्यासनाशनाद्युपभोगविहीनो
यावदप्रतिलब्धमनोरथोपगतादानेऽवसितमति-
स्ततस्ततोऽवमानादीनि जनादभिलभते ॥ ३६॥

एवं वित्तव्यतिषङ्गविवृद्धवैरानुबन्धोऽपि
पूर्ववासनया मिथ उद्वहत्यथापवहति ॥ ३७॥

एतस्मिन् संसाराध्वनि नानाक्लेशोपसर्गबाधित
आपन्नविपन्नो यत्र यस्तमु ह वावेतरस्तत्र
विसृज्य जातं जातमुपादाय शोचन्मुह्यन्बिभ्य-
द्विवदन् क्रन्दन्संहृष्यन् गायन्नह्यमानः
साधुवर्जितो नैवावर्ततेऽद्यापि यत आरब्ध
एष नरलोकसार्थो यमध्वनः पारमुपदिशन्ति ॥ ३८॥

यदिदं योगानुशासनं न वा एतदवरुन्धते
यन्न्यस्तदण्डा मुनय उपशमशीला उपरतात्मानः
समवगच्छन्ति ॥ ३९॥

यदपि दिगिभजयिनो यज्विनो ये वै राजर्षयः किं तु
परं मृधे शयीरन्नस्यामेव ममेयमिति कृतवैरानुबन्धायां
विसृज्य स्वयमुपसंहृताः ॥ ४०॥

कर्मवल्लीमवलम्ब्य तत आपदः कथञ्चिन्नरकाद्विमुक्तः
पुनरप्येवं संसाराध्वनि वर्तमानो नरलोकसार्थमुपयाति
एवमुपरिगतोऽपि ॥ ४१॥

तस्येदमुपगायन्ति -
आर्षभस्येह राजर्षेर्मनसापि महात्मनः ।
नानुवर्त्मार्हति नृपो मक्षिकेव गरुत्मतः ॥ ४२॥

यो दुस्त्यजान् दारसुतान् सुहृद्राज्यं हृदिस्पृशः ।
जहौ युवैव मलवदुत्तमश्लोकलालसः ॥ ४३॥

यो दुस्त्यजान् क्षितिसुतस्वजनार्थदारान्
प्रार्थ्यां श्रियं सुरवरैः सदयावलोकाम् ।
नैच्छन्नृपस्तदुचितं महतां मधुद्विट्
सेवानुरक्तमनसामभवोऽपि फल्गुः ॥ ४४॥

यज्ञाय धर्मपतये विधिनैपुणाय
योगाय साङ्ख्यशिरसे प्रकृतीश्वराय ।
नारायणाय हरये नम इत्युदारं
हास्यन् मृगत्वमपि यः समुदाजहार ॥ ४५॥

य इदं भागवतसभाजितावदातगुणकर्मणो
राजर्षेर्भरतस्यानुचरितं स्वस्त्ययनमायुष्यं
धन्यं यशस्यं स्वर्ग्यापवर्ग्यं वानुश‍ृणो-
त्याख्यास्यत्यभिनन्दति च सर्वा एवाशिष
आत्मन आशास्ते न काञ्चन परत इति ॥ ४६॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
पञ्चमस्कन्धे भरतोपाख्याने पारोक्ष्यविवरणं नाम
चतुर्दशोऽध्यायः ॥ १४॥

॥ ॐ नमो भगवते वासुदेवाय ॥
॥ पञ्चदशोऽध्यायः ॥

श्रीशुक उवाच ।
भरतस्यात्मजः सुमतिर्नामाभिहितो यमु ह वाव
केचित्पाखण्डिन ऋषभपदवीमनुवर्तमानं चानार्या
अवेदसमाम्नातां देवतां स्वमनीषया पापीयस्या
कलौ कल्पयिष्यन्ति ॥ १॥

तस्माद्वृद्धसेनायां देवताजिन्नाम पुत्रोऽभवत् ॥ २॥

अथासुर्यां तत्तनयो देवद्युम्नस्ततो धेनुमत्यां सुतः
परमेष्ठी तस्य सुवर्चलायां प्रतीह उपजातः ॥ ३॥

य आत्मविद्यामाख्याय स्वयं संशुद्धो
महापुरुषमनुसस्मार ॥ ४॥

प्रतीहात्सुवर्चलायां प्रतिहर्त्रादयस्त्रय आसन्निज्या-
कोविदाः सूनवः प्रतिहर्तुः स्तुत्यामजभूमाना-
वजनिषाताम् ॥ ५॥

भूम्न ऋषिकुल्यायामुद्गीथस्ततः प्रस्तावो देवकुल्यायां
प्रस्तावान्नियुत्सायां हृदयज आसीद्विभुर्विभो रत्यां च
पृथुषेणस्तस्मान्नक्त आकूत्यां जज्ञे नक्ताद्द्रुतिपुत्रो
गयो राजर्षिप्रवर उदारश्रवा अजायत ।
साक्षाद्भगवतो विष्णोर्जगद्रिरक्षिषया गृहीतसत्त्वस्य
कलात्मवत्त्वादि लक्षणेन महापुरुषतां प्राप्तः ॥ ६॥

स वै स्वधर्मेण प्रजापालनपोषणप्रीणनोपलालना-
नुशासनलक्षणेनेज्यादिना च भगवति महापुरुषे
परावरे ब्रह्मणि सर्वात्मनार्पितपरमार्थलक्षणेन
ब्रह्मविच्चरणानुसेवयाऽऽपादितभगवद्भक्तियोगेन
चाभीक्ष्णशः परिभावितातिशुद्धमतिरुपरतानात्म्य
आत्मनि स्वयमुपलभ्यमानब्रह्मात्मानुभवोऽपि
निरभिमान एवावनिमजूगुपत् ॥ ७॥

तस्येमां गाथां पाण्डवेय पुराविद उपगायन्ति ॥ ८॥

गयं नृपः कः प्रतियाति कर्मभि-
र्यज्वाभिमानी बहुविद्धर्मगोप्ता ।
समागतश्रीः सदसस्पतिः सतां
सत्सेवकोऽन्यो भगवत्कलामृते ॥ ९॥

यमभ्यषिञ्चन् परया मुदा सतीः
सत्याशिषो दक्षकन्याः सरिद्भिः ।
यस्य प्रजानां दुदुहे धराशिषो
निराशिषो गुणवत्सस्नुतोधाः ॥ १०॥

छन्दांस्यकामस्य च यस्य कामान्
दुदूहुराजह्रुरथो बलिं नृपाः ।
प्रत्यञ्चिता युधि धर्मेण विप्रा
यदाशिषां षष्ठमंशं परेत्य ॥ ११॥

यस्याध्वरे भगवानध्वरात्मा
मघोनि माद्यत्युरुसोमपीथे ।
श्रद्धा विशुद्धाचलभक्तियोग-
समर्पितेज्याफलमाजहार ॥ १२॥

यत्प्रीणनाद्बर्हिषि देवतिर्यङ्-
मनुष्यवीरुत्तृणमाविरिञ्चात् ।
प्रीयेत सद्यः स ह विश्वजीवः
प्रीतः स्वयं प्रीतिमगाद्गयस्य ॥ १३॥

गयाद्गयन्त्यां चित्ररथः सुगतिरवरोधन इति त्रयः
पुत्रा बभूवुश्चित्ररथादूर्णायां सम्राडजनिष्ट ॥ १४॥

तत उत्कलायां मरीचिर्मरीचेर्बिन्दुमत्यां बिन्दुमा-
नुदपद्यत तस्मात्सरघायां मधुर्नामाभवन्मधोः
सुमनसि वीरव्रतस्ततो भोजायां मन्थुप्रमन्थू
जज्ञाते मन्थोः सत्यायां भौवनस्ततो दूषणायां
त्वष्टाजनिष्ट त्वष्टुर्विरोचनायां विरजो विरजस्य
शतजित्प्रवरं पुत्रशतं कन्या च विषूच्यां किल
जातम् ॥ १५॥

तत्रायं श्लोकः
प्रैयव्रतं वंशमिमं विरजश्चरमोद्भवः