Shantikadhyaya
स्वस्तिकलाञ्छनः ।
नागराट् तक्षकः श्रीमान्नागकोट्यासमन्वितः ॥ १९६॥
करोतु मे महाशान्तिं सर्वदोषविषावहः ।
अतिकृष्णेन वर्णेन स्फुटो विकटमस्तकः ॥ १९७॥
कण्ठे रेखात्रयोपेतो घोरदंष्ट्रायुधोद्यतः ।
कर्कोटको महानागो विषदर्पबलाऽन्वितः ॥ १९८॥
विषशस्त्राग्निसन्तापं हत्वा शान्तिं करोतु मे ।
पद्मवर्णेन देहेन चारुपद्मायतेक्षणः ॥ १९९॥
पञ्चबिन्दुकृताभासो ग्रीवायां शुभलक्षणः ।
ख्यातः पद्मो महानागो हरपादार्चने रतः ॥ २००॥
करोतु मे महाशान्तिं महापापं विषक्षयम् ।
पुण्डरीकनिभेनाऽपि देहेनाऽमिततेजसा ॥ २०१॥
शङ्खशूलाब्जरुचिरैर्भूषितो मूर्ध्नि सर्वदा ।
महापद्मो महानागो नित्यं पशुपतौ रतः ॥ २०२॥
विनिर्धूत(विनिहत्य) विषं घोरं शान्तिमाशु करोतु मे ।
श्यामेन देहभारेण श्रीमत्कमललोचनः ॥ २०३॥
विषदर्पबलोन्मत्तो ग्रीवायामेकरेखया ।
शङ्खपालः श्रिया दीप्तः शिवपादाब्जपूजकः ॥ २०४॥
महाविषं महापापं हत्वा शान्तिं करोतु मे ।
अतिगौरेण देहेन चन्द्रार्धकृतमस्तकः ॥ २०५॥
दीप्तभोगकृताटोपः शुभलक्षणलक्षितः ।
कुलिको नागराजेशो नित्यं हरपरायणः ॥ २०६॥
अपहृत्य विषं घोरं करोतु मम शान्तिकम् ।
अन्तरिक्षे च ये नागा ये नागाः स्वर्गसंस्थिताः ॥ २०७॥
गिरिकन्दरदुर्गेषु ये नागा भूमिसंस्थिताः ।
पाताले ये स्थिता नागाः सर्वेप्यन्ये समाहिताः ॥ २०८॥
रुद्रपादार्चने शान्ताः कुर्वन्तु मम शान्तिकम् ।
नागिन्यो नागपत्न्यश्च तथा कन्याः कुमारिकाः ॥ २०९॥
शिवभक्ताः सुमनसः शान्तिं कुर्वन्तु मे सदा ।
यदिदं नागसंस्थानं कीर्तनाच्छ्रवणादपि ॥ २१०॥
न तं सर्पा विहिंसन्ति न विषं क्रमते सदा ।
चिन्तितं सिध्यते(लभ्यते) नित्यं तथा पापपरिक्षयः ॥ २११॥
सिद्धिमाशु प्रयच्छन्ति सर्वविघ्न विवर्जिताः ।
गङ्गा पुण्या महादेवी यमुना नर्मदा नदी ॥ २१२॥
गोमती ताप्ती(तप्ती) कावेरी वरुणा देविका तथा ।
सर्वभूतपतिं देवं परमेशं महेश्वरम् ॥ २१३॥
पूजयन्ति महानद्यः शिवसद्भावभाविताः ।
शान्तिं कुर्वन्तु मे नित्यं तथा पापपरिक्षयम् ॥ २१४॥
सिद्धिमाशु प्रयच्छन्तु सर्वविघ्न विवर्जितम् ।
चन्द्रभागा महापुण्या नदी गोदावरी शुभा ॥ २१५॥
सरयूर्गण्डकी श्रेष्ठा कौशिकी च सरस्वती ।
इमा नद्यो महाभागाः शिवपादार्चने रताः ॥ २१६॥
शान्तिं कुर्वन्तु मे नित्यं शिवध्यानैकमानसाः ।
नैरञ्जना नाम नदी शोणश्चाऽपि महानदः ॥ २१७॥
मन्दाकिनी च परमा तथा सन्निहिताः शुभाः ।
इमाश्चाऽन्याश्च या नद्यः भुवि दिव्यन्तरिक्षगाः ॥ २१८॥
रुद्रार्चनपरा नद्यः कुर्वन्तु मम शान्तिकम् ।
गुह्यानि यानि तीर्थानि आसमुद्रात्सरंसि च ॥ २१९॥
कुर्वन्तु शान्तिकं तानि श्रीकण्ठाधिष्ठितानि तु ।
महावैश्रणो देवो यक्षराजो महर्द्धिकः ॥ २२०॥
यक्षकोटिपरीवारो यक्षसङ्घेन(यक्षासङ्ख्येन) संयुतः ।
महाविभवसम्पन्नो हरपादार्चने रतः ॥ २२१॥
हरध्यानैकपरमो हरपादनतोत्तमः ।
शान्तिं करोतु मे नित्यं पद्मपत्रायतेक्षणः ॥ २२२॥
मणिभद्रो महायक्षो मणिरत्नविभूषणः ।
मनोहरेण हारेण कण्ठलग्नेन राजते ॥ २२३॥
शिवध्यानरतो नित्यं शिवपदाब्ज पूजकः ।
शान्तिं करोतु मे नित्यं सर्वदोष निवारणम् ॥ २२४॥
यक्षिणीयक्षकन्याभिः परिवारितविग्रहः ।
रुद्रार्चनपरो युक्तः करोतु मम शान्तिकम् ॥ २२५॥
सुवीरो नाम यक्षेन्द्रो मणिकुण्डलभूषितः ।
भालेन हेमपट्टेन शोभनेन विराजतः ॥ २२६॥
बहुयक्षसमाकीर्णो यक्षैर्नमितविग्रहः ।
शिवपूजापरो युक्तः करोतु मम शान्तिकम् ॥ २२७॥
पञ्जिको नाम यक्षेन्द्रः कर्णिकाकटकोज्ज्वलः ।
हारेण(मुकुटेन) सुविचित्रेण केयूराभ्यां विराजितः ॥ २२८॥
यक्षसन्धैः समायुक्तो यक्षकोटिसमावृतः ।
हरार्चनपरः श्रीमान् करोतु मम शान्तिकम् ॥ २२९॥
श्रीमान्विभाण्डको यक्षो नानारत्नविभूषितः ।
चारुणा कुण्डलेन्द्रेण कर्णे नित्यं विराजितः ॥ २३०॥
यक्षो यक्षपतिर्देवो यक्षसेनापतिर्बुधः ।
हरपादार्चनरतः करोतु मम शान्तिकम् ॥ २३१॥
धृतराष्ट्रो महातेजा यक्षाधिपसमः प्रभुः ।
दिव्यपट्टांशुकच्छन्नो मणिकाञ्चनभूषितः ॥ २३२॥
शिवभक्तः शिवं ध्यात्वा शिवपूजापरायणः ।
शिवप्रसादसम्पन्नः करोतु मम शान्तिकम् ॥ २३३॥
पूर्णभद्रो महायक्षः सर्वालङ्कारभूषितः ।
रत्नप्रदीप्तपट्टेन हेमेनाऽतिपरिष्कृतः ॥ २३४॥ (var हैमेनातीव राजिते ।)
यक्षकोटिसहस्रेण परिवारेण संस्कृतः । (var परिवारित विग्रहः ।)
रुद्रप्रणामपरमो रुद्रभक्तिरतस्सदा ॥ २३५॥
रुद्रार्चनसमायुक्तः करोतु मम शान्तिकम् ।
विरूपाक्षश्च यक्षेन्द्रः श्वेतवासा महाद्युतिः ॥ २३६॥
चारुकाञ्चनमालाभिः किङ्किणीरवकान्वितः ।
भूषितश्च महाकायो वरदानैकतत्परः ॥ २३७॥
रुद्रपूजापरो नित्यं करोतु मम शान्तिकम् ।
अन्तरिक्षगता यक्षास्ते यक्षाः स्वर्गवासिनः ॥ २३८॥
गिरिकन्दरदुर्गेषु ये यक्षा भूमिवासिनः ।
पाताले ये स्थिता यक्षाः शिवेप्यन्तः समाहिताः ॥ २३९॥
नानारूपाऽऽयुधा यक्षा नानाभेषधरास्तथा ।
योगैश्वर्ययुताः सर्वे (शिवभक्ताः सुमनसः) शिवपूजासमुत्सुकाः ॥ २४०॥
शान्तिं कुर्वन्तु मे हृष्टाः शान्ताः शान्तिपरायणाः ।
यक्षिण्यो विविधाकारास्तथा यक्षकुमारिकाः ॥ २४१॥
यक्षकन्या महाभागाः शिवपूजार्चने रताः ।
शान्तिस्वस्त्ययनं क्षेमं बलं कल्याणमुत्तमम् ॥ २४२॥
सिद्धिञ्चाऽऽशु प्रयच्छन्तु नित्यमेव समाहिताः ।
मेरुर्मन्दरकैलासौ मलयो गन्धमादनः ॥ २४३॥
श्रीपर्वतो महेन्द्रश्च हेमकूटस्तथैव च ।
पर्वता सर्वतः सर्वे सर्वदा सुमहर्द्धिकाः ॥ २४४॥
शिवभक्ताः सदाकालं क्षेमं कुर्वन्तु मे सदा ।
जम्बूद्वीपः प्लक्षद्वीपः शाल्मलीकुशद्वीपकौ ॥ २४५॥
क्रौञ्चद्वीपः शाकद्वीपो गोमेदद्वीपको महान् ।
पुष्करस्तु महाद्वीप एते द्वीपा महारुचः ॥ २४६॥
रुद्रभक्तिरताः सर्वे शान्तिं कुर्वन्तु मे सदा ।
क्षारक्षीरोदकौ चैव दध्युदोऽथ घृतोदकः ॥ २४७॥
सुरोदः स्वादुदश्चैव इक्षुदकस्तथैव च ।
सप्तसमुद्रनामानः कुर्वन्तु मम शान्तिकम् ॥ २४८॥
सागराः सरितः सर्वाः सागराः सर्वतः स्थिताः ।
रुद्रपूजापरानित्यं कुर्वन्तु मम शान्तिकम् ॥ २४९॥
राक्षसाः सर्वतः सर्वे राक्षसा घोररूपिणः ।
राक्षसा ये महावीर्या राक्षसाश्च महाबलाः ॥ २५०॥
स्वर्गं जलस्थानस्था ये तु अन्तरिक्षे तु राक्षसाः ।
पाताले भूतले ये च नित्यं रुद्रपरायणाः ॥ २५१॥
शान्तिं कुर्वन्तु मे नित्यं सततं शिवभाविताः ।
भैरवं यस्य रूपं तु प्रेतभस्माऽवगुण्ठितम् ॥ २५२॥ (var प्रेमभस्माऽवगुण्ठितम्)
तेजसा तस्य देवस्य शान्तिं कुर्वन्तु मे सदा ।
नित्यमुज्ज्वलवेषेन योगिन्योऽथ महाबलाः ॥ २५३॥
रुद्राण्यो विविधाऽऽकारा डाकिन्यश्च महर्द्धिकाः ।
रुद्रप्रणामनिरता रुद्रपूजारताः सदा ॥ २५४॥
रुद्रेकाहितचेतस्काः कुर्वन्तु मम शान्तिकम् ।
अन्तरिक्षगतायाश्च डाकिन्यः स्वर्गसंस्थिताः ॥ २५५॥
पाताले भूतले याश्च गिरिदुर्गेषु याः स्थिताः ।
तृतीयं लोचनं यस्य त्रिशूलं भस्म भासुरम् ॥ २५६॥
तेजसा तस्य देवस्य शान्तिं कुर्वन्तु मे सदा ।
सर्वे भूता महारूपाः सर्वे भूता महोज्ज्वलाः ॥ २५७॥
सर्वे भूताः स्थिताः सौम्याः सर्वे भूता मनोजवाः ।
अन्तरिक्षे च ये भूता ये भूता दिवि संस्थिताः ॥ २५८॥
पाताले भूतले ये तु भूता भूतविधायकाः(भूतिविधायिनः) ।
खट्वाङ्गं विमलं यस्य त्रिशूलं करपल्लवे ॥ २५९॥
तेजसा तस्य देवस्य शान्तिं कुर्वन्तु मे सदा ।
प्रेताः प्रेतगणाः सर्वे ये प्रेताः सर्वतोमुखाः ॥ २६०॥
अतिदीप्ताश्च ये प्रेता ये प्रेता रुधिराशनाः ।
अन्तरिक्षे च ये प्रेताः ये प्रेताः स्वर्गवासिनः ॥ २६१॥
पाताले भूतले प्रेता ये प्रेताः कामरूपिणः ।
स्मशाने निलयो यस्य वृषभो यस्य वाहनम् (वाहनः) ॥ २६२॥
तेजसा तस्य देवस्य शान्ति कुर्वन्तु मे सदा ।
ये पिशाचा महावीर्या ऋद्धिमन्तो महाबलाः ॥ २६३॥
नानारूपधराः सर्वे सर्वे च गुणविस्तराः ।
अन्तरिक्षे पिशाचा ये स्वर्गे ये च पिशाचकाः ॥ २६४॥
भू-पाताले पिशाचाश्च बहुरूपाः महोज्ज्वलाः ।
चन्द्रार्धं मस्तके यस्य भस्मं यस्य विभूषणम् ॥ २६५॥
तेजसा तस्य देवस्य शान्ति कुर्वन्तु मे सदा ।
अपस्मारग्रहाः सर्वे सर्वे चाऽपि ज्वरग्रहाः ॥ २६६॥
गर्भबालग्रहा ये तु नानारोगग्रहाश्च ये ।
अन्तरिक्षे ग्रहा ये तु स्वर्गे ये तु ग्रहोत्तमाः ॥ २६७॥
पाताले भूतले ये च(तु) ये ग्रहाः सर्वतोदिशि ।
कण्ठे यस्य महानीलं भूषणं यस्य पन्नगाः ॥ २६८॥
तेजसा तस्य देवस्य शान्तिं कुर्वन्तु मे सदा ।
एते देवादयः सर्वे शिवाऽऽज्ञानुपधायिनः ॥ २६९॥
कुर्वन्तु जगतः शान्तिं शिवभक्ताश्च सर्वदा ।
जयात्मयोगसंस्थाय जय संशुद्धचेतसे ॥ २७०॥
जय दानैकशूराय जयेशाय नमोऽस्तु ते ।
जयोत्तमाय देवाय जय कल्याणदायिने(कल्याणकीर्तये) ॥ २७१॥
जय प्रकटदेहाय जय जाप्याय(जप्याय) ते नमः ।
जय लक्ष्मीनिवासाय जय कान्तिविधायिने ॥ २७२॥ (var लक्ष्मीविधानाय)
जय वाक्यविशुद्धाय अजिताय नमो नमः ।
जय त्रिशूलहस्ताय जय खट्वाङ्गधारिणे ॥ २७३॥
जय निर्जितलोकाय जय रूपाय ते नमः ।
जय कान्तार्धदेहाय जय चन्द्रार्धधारिणे ॥ २७४॥
जय देवाधिवासाय(देवाधिदेवाय) जय रुद्राय ते नमः ।
जय त्रिभुवनेशाय जय विख्यातकीर्तये (कल्याणकीर्तये) ॥ २७५॥
जयाधाराय शर्वाय जय कर्त्रे नमो नमः । (var जय सर्वावधाराय)
जय मोक्षप्रदात्रे च सृष्टिसंहारकारिणे ॥ २७६॥
जय निर्मल देहाय जय सर्वार्थकारिणे ।
जय मन्मथनाशाय ईशानाय नमो नमः ॥ २७७॥
ब्रह्मविष्ण्वीशवन्याय शिवशान्ताय ते नमः ।
जय जातविशुद्धाय सर्वव्यापिन्नमोऽस्तु ते ॥ २७८॥
इत्येवं शान्तिकाध्यायं यः पठेच्छृणुयादऽपि ।
सुधियः सुखतां यान्ति शिवलोके महीयते ॥ २७९॥
(var विधूय सर्वपापानि शिवलोके महीयते ॥)
कन्यार्थी लभते कन्यां जयकामौ जयं लभेत् ।
अर्थकामो लभेदर्थं पुत्रकामस्तु तान् बहून् ॥ २८०॥
विद्यार्थी लभते विद्यां योगार्थी योगमाप्नुयात् ।
गर्भिणी लभते पुत्रं कन्या विन्दति सत्पतिम् ॥ २८१॥
यो यान प्रार्थयते कामान् मानवः श्रवणादिह ।
तत्सर्वं शीघ्रमाप्नोति देवानां च प्रियो भवेत् ॥ २८२॥
शान्त्यध्यायं पठेद्यस्तु सङ्ग्राम प्रविशेन्नरः ।
सुनिर्जित्याऽऽहवे शत्रून् कल्याणैः परिपूर्यते ॥ २८३॥
अक्षय्यं मोदते कालमतिरस्कृतशासनः ।
व्याधिभिर्नाभिभूयेत पुत्रपौत्रैः प्रतिष्ठितः ॥ २८४॥
पाठ्यमानमिदं पुण्यं यमुद्दिश्य च पठ्यते ।
न तस्य रोगा बाधन्ते वातपित्तादिसम्भवाः ॥ २८५॥
नाऽकाले मरणं तस्य न सर्पैश्चाऽपि दंश्यते ।
न विष क्रमते देहे न जडान्धत्वमूकता ॥ २८६॥
न च सर्पभयं तस्य न चोत्पातभयं भवेत् ।
नाऽभिचारकृतैर्दोषैः लिप्यते स कदाचन ॥ २८७॥
यत्पुण्यं सर्वतीर्थानां गङ्गादीनां विशेषतः ।
तत्पुण्यं कोटिगुणितं प्राप्नोति श्रवणादिह ॥ २८८॥
यज्ञानामश्वमेधानामग्निष्टोमशतस्य च ।
(var दशानां राजसूयानां अग्निष्टोमशतस्य च ।)
श्रवणात् फलमाप्नोति कोटिकोटिगुणोत्तरम् ॥ २८९॥
अवध्यः सर्वदेवानां (सर्वभूतानां) अन्येषां च विशेषतः ।
जीवेद्वर्षशतं साग्रं सर्वव्याधिविवर्जितः ॥ २९०॥
गोघ्नश्चैव कृतघ्नश्च ब्रह्महा गुरुतल्पगः ।
शरणागतघाती च मित्रविश्वासघातकः ॥ २९१॥
दुष्टपापसमाचारो मातृहा पितृहा तथा ।
श्रवणादस्य पाठाद् वा मुच्यते सर्वपातकैः ॥ २९२॥
शान्त्यध्यायमिदं पुण्यं न देयं यस्य कस्यचित् ।
शिवभक्ताय दातव्यं