Shantikadhyaya
कृष्णावती शुभा)
महारक्षोगणैः कीर्णा पिशाचभूतसङ्कुला ॥ १०१॥
तत्र जीमूतसङ्काशो रक्तस्रग्वस्त्रभूषणः ।
खड्गपाणिर्महातेजाः करालवदनोज्ज्वलः ॥ १०२॥
रक्षोगणेन्द्रो निऋतिः शिवार्चनरतः सदा ।
करोतु मे महाशान्तिं शिवभक्तिसमुत्सुकः ॥ १०३॥
पश्चिमे तु दिशो भागे पुरी शुद्धावती शुभा ।
नानारत्नसमाकीर्णा नानाकिन्नरशोभिता ॥ १०४॥ (var नानागणसमाकीर्णा)
तत्र मौक्तिकसङ्काशः परिपिङ्गललोचनः ।
शुक्लवस्त्रपरीधानः पाशहस्तो महाबलः ॥ १०५॥
वरुणः परया भक्त्या शिवेकाहितमानसः ।
रोगशोकार्तिसन्तापं नित्यं नाशय मे ध्रुवम् ॥ १०६॥
वायव्ये दिग्विभागे तु पुरी गन्धवती शुभा ।
ऋषिसिद्धगणाऽऽकीर्णा हेमप्राकारतोरणा ॥ १०७॥
तत्र ताम्म्रेण देहेन कृष्णपिङ्गललोचनः ।
पटव्याप्तान्तरालीनो ध्वजयष्ट्यायुधोद्यतः ॥ १०८॥(var नभो व्याप्तान्तरालीनः)
पवनः परमो देवः परमेश्वरभावितः ।
क्षेमारोग्यबलं शान्तिं करोतु सततं मम ॥ १०९॥
महोदया नाम पुरी उत्तरेण महोज्ज्वला ।
अनेकयक्षसङ्कीर्णा नानारत्नोपशोभिता ॥ ११०॥
तत्र देवो गदाहस्तः चित्रस्रग्वस्त्रभूषणः । (var शुचिस्रग्वस्त्रभूषणः)
ह्रस्वबाहुर्महातेजाः परिपिङ्गललोचनः ॥ १११॥
कुबेरो वरदः श्रीमान् हरपादार्चने रतः ।
शान्तिं करोतु मे प्रीतः शान्तः शान्तेन तेजसा ॥ ११२॥
यशोवती पुरी रम्या ऐशान्यां दिशि संस्थिता । (var ऐशानीं दिशमाश्रिता)
नानागणसमाकीर्णा नानासुरकृतालया ॥ ११३॥
तेजः प्राकारपर्यन्ता निरौपम्या महोदया ।
तत्र मौक्तिकसङ्काशः शशाङ्ककृतभूषणः ॥ ११४॥
त्रिनेत्रः शान्तरूपात्मा अक्षमालाधरः सदा ।
ईशानः परमो देवः सर्वदेवोत्तमोत्तमः ।
सोऽपि सर्वात्मभावेन शान्तिमाशु प्रयच्छतु ॥ ११५॥
भूर्लोकेऽथ भुवर्लोके स्वर्लोके निवसन्ति ये । (var स्वर्लोके ऽपि च संस्थितः)
देवा दिव्यप्रभायुक्ताः शान्तिं कुर्वन्तु मे सदा ॥ ११६॥
जनलोके महर्लोके तपोलोके स्थिताश्च ये ।
तेऽपि प्रमुदिता देवाः शिवं कुर्वन्तु मे सदा ॥ ११७॥
सत्यलोके च ये देवाः प्रभावोज्ज्वलविग्रहाः ।
शिवभक्ताः सुमनसो भयं निर्णाशयन्तु मे ॥ ११८॥
गिरिकन्दरदुर्गेषु वनेषु निवसन्ति ये ।
रुद्रार्चनपरा देवा रक्षां कुर्वन्तु मे सदा ॥ ११९॥
महातले च ये सन्ति संस्थिताश्च रसातले ।
तलातले च ये सन्ति उत्तमाः सुतले जनाः ॥ १२०॥
वितले संस्थिताः भूता अतले निवसन्ति ये ।
तले च निलयो येषां रक्षां कुर्वन्तु सर्वदा ॥ १२१॥
शरच्चन्द्रांशुगौरेण देहेनाऽमलतेजसा ।
सरस्वती शिवेभक्ता शान्तिमाशु करोतु मे ॥ १२२॥
चारुचामीकरच्छाया सरोजकरपल्लवा ।
शिवभक्ता च श्रीर्देवी श्रीसद्भूतिं ददातु मे ॥ १२३॥
चारुणा मुखचन्द्रेण विचित्रकुसुमोज्ज्वला ।
जया देवी शिवे भक्ता सर्व कामं ददातु मे ॥ १२४॥
हारेण सुविचित्रेण भास्करोज्ज्वलतेजसा । (var भास्वत्कनक मेखला)
अपराजिता शिवेभक्ता करोतु विजयं मम ॥ १२५॥
सिन्दूरारुण रक्ताङ्गः कर्णान्तायत लोचनः ।
सहस्रकिरणः श्रीमान् सप्ताश्वकृतवाहनः ॥ १२६॥
गभस्तिमाली भगवाशिवपूजापरायणः ।
करोतु मे महाशान्तिं ग्रहपीडां व्यपोहतु ॥ १२७॥
जगदाप्यायनकरो ह्यमृताधारशीतलः ।
सोमः सौम्येन भावेन ग्रहपीडां व्यपोहतु ॥ १२८॥
पद्मरागनिभा नेनाऽपि देहेनापिङ्गललोचनः ।
(var पद्मरागनिभाङ्गेन करिपिङ्गललोचनः ।)
अङ्गारकः शिवेभक्तो रुद्रार्चन परायणः ॥ १२९॥
रुद्रसद्भावसम्पन्नो रुद्रध्यानैकमनसः ।
ग्रहपीडा भयं सर्वं विनाशयतु मे सदा ॥ १३०॥
कुंङ्कुमच्छविदेहेन चारुद्युत्करतः सदा ।
शिवभक्तो बुधः श्रीमान् ग्रहपीडां व्यपोहतु ॥ १३१॥
धातु चामीकरच्छायः सर्वज्ञानकृतालयः । (var तप्त चामीकरच्छायः)
बृहस्पतिः सदाकालमीशानार्चनतत्परः ॥ १३२॥
सोऽपि मे शान्तचित्तेन परमेण समाहितः ।
ग्रहपीडां विनिर्जित्य करोतु विजयं सदा ॥ १३३॥
हिमकुन्देन्दुतुल्याभः सुरदैत्येन्द्रपूजितः ।
शुक्रः शिवार्चनरतो ग्रहपीडां व्यपोहतु ॥ १३४॥
भिन्नाञ्जनचयच्छायः सरक्तनयनद्युतिः ।
शनैश्चरः शिवेभक्तो ग्रहपीडां व्यपोहतु ॥ १३५॥
नीलाञ्जननिभः श्रीमान् सैंहिकेयो महाबलः ।
शिवपूजापरो राहुग्रहपीडा व्यपोहतु ॥ १३६॥
धूम्राकारो ग्रहः केतुरैशान्यां दिशि संस्थितः ।
वर्तुलोऽतीव विस्तीर्णलोचनैश्च विभीषणः ॥ १३७॥
पलाशधूम्रसङ्काशो ग्रहपीडाऽपकारकः ।
घोरदंष्ट्राकरालश्च करोतु विजयं मम ॥ १३८॥
खड्गखेटकहस्तश्च वरेण्यो वरदः शुभः ।
शिवभक्तश्चाऽग्रजन्मा ग्रहपीडां व्यपोहतु ॥ १३८॥
एते ग्रहा महात्मानो महेशार्चनभाविताः ।
शान्तिं कुर्वन्तु मे हृष्टाः सदाकालं हितैषिणः ॥ १३९॥
मुखे यस्याः स्थितो मृत्युर्विष्टिर्नाम महाबलः ।
सम्मुखे विघ्नकर्त्री च पुच्छे तु विजयङ्करी ॥ १४०॥
रुद्रप्रणामपरमा शान्तिमाशु करोतु मे ।
तृतीया सप्तमी चैव दशमी च चतुर्दशी ॥ १४१॥
चतुर्थी ह्यष्टमी चैव एकादशी च पूर्णिमा ।
एतेषु विघ्नपातेषु कृष्णशुक्लसमाह्वयाः ॥ १४२॥
नाशयन्तु भयं नित्यं कुर्वन्तु विजयं मम् ।
अमावस्या महापुण्या पितृदेवसमन्विता ॥ १४३॥
शान्ता ह्येषा महापुण्या शिवस्य च महाप्रिया ।
शिवतेजः समायुक्ता करोतु विजयं मम् ॥ १४४॥
प्रतिपद्वह्नि संयुक्ता द्वितीया च विधिदैवता । (var द्वितीयाकोधिदेवता)
तृतीया च महापुण्या धनदेन समन्विता ॥ १४५॥
चतुर्थी च महापुण्या गजवक्त्राधिदैवतम् ।
पञ्चमी श्रीयुत नित्यं षष्ठी च स्कन्दाधिदैवतम् ॥ १४६॥
सप्तमी रवि संयुक्ता ह्यष्टमी रुद्रदैवता ।
तिथिः शूलभृतश्चैव पापहा परमा स्मृता ॥ १४७॥
नवमी तिथिरत्युग्रा दुर्गायाः परिकीर्तिता ।
दशमी यमसंयुक्ता चैन्द्रेणैकादशी युता ॥ १४८॥
द्वादशी विष्णुसंयुक्ता मदनेन त्रयोदशी ।
चतुर्दशी महावीर्या तिथिः शङ्करभाविता ॥ १४९॥
पूर्णिमा परिपूर्णात्मा तिथयः सततोज्ज्वलाः ।
(var चतुर्दशी महेशेन पौर्णमासी हिमांशुना ।)
सततं च शुभात्मानस्तिथयश्च क्रमेण तु ॥ १५०॥
पक्षद्वये सदा ह्येताश्चन्द्रगत्याऽनुगामिनः ।
शान्तिं कुर्वन्तु मे नित्यं शिवज्ञानविधायिनः ॥ १५१॥
विष्कुम्भः प्रीतिरायुष्मान् सौभाग्यः शोभनस्तथा ।
अतिगण्डः सुकर्मा च धृतिः शूलस्तथैव च ॥ १५२॥
गण्डोवृद्धिः ध्रुवश्चैव व्याघातो हर्षणस्तथा ।
वज्रः सिद्धिर्व्यतीपातो वरीयान् परिघः शिवः ॥ १५३॥
सिद्धिः साध्यः शुभः शुक्लो ब्रह्मा ऐन्द्रश्च वैधृतिः ।
चन्द्राभानोश्च ह्युत्पन्ना योगाश्चैते महाबलाः ॥ १५४॥
शिवभक्तिपराः सर्वे शिवज्ञानविधायिनः ।
शान्ति कुर्वन्तु मे नित्यं तथा किल्विषनाशनम् ॥ १५५॥
कृत्तिका परमा देवी रोहिणी रुचिरानना ।
श्रीमान् मृगशिरा भद्रा आर्द्रा च परमोज्ज्वला ॥ १५६॥
पुनर्वसुस्तथा पुष्य आश्लेषाऽथ महाबला ।
नक्षत्रमातरो ह्येताः प्रभामालाविभूषिताः ॥ १५७॥
महादेवाऽर्चने शक्ता महादेवाऽनुभावितः ।
पूर्वभागे स्थिता ह्येताः शान्तिं कुर्वन्तु मे सदा ॥ १५७॥
मघा सर्वगुणोपेता पूर्वा चैव तु फाल्गुनी ।
उत्तरा फाल्गुनी श्रेष्ठा हस्ता चित्रा तथोत्तमा ॥ १५८॥
स्वाती विशाखा वरदा दक्षिणस्थानसंस्थिताः ।
अर्चयन्ति सदाकालं देवं त्रिभुवनेश्वरम् ॥ १५९॥
नक्षत्रमारो ह्येतास्तेजसापरिभूषिताः ।
ममाऽपि शान्तिकं नित्यं कुर्वन्तु शिवचोदिताः ॥ १६०॥
अनुराधा तथा ज्येष्ठा मूलमृद्धिबलान्वितम् । (var मूला ऋद्धिबलान्वितता ।)
पूर्वाषाढा महावीर्या आषाढा चोत्तरा शुभा ॥ १६१॥
अभिजिन्नाम नक्षत्रं श्रवणः परमोज्ज्वलः ।
एताः पश्चिमतो दीप्ता राजन्ते राजमूर्तयः ॥ १६२॥
ईशानं पूजयन्त्येताः सर्वकालं शुभाऽन्विताः ।
मम शान्तिं प्रकुर्वन्तु विभूतिभिः समन्विताः ॥ १६३॥
धनिष्ठा शतभिषा च पूर्वाभाद्रपदा तथा ।
उत्तराभाद्ररेवत्यावश्विनी च महर्धिका ॥ १६४॥
भरणी च महावीर्या नित्यमुत्तरतः स्थिताः ।
शिवार्चनपरा नित्यं शिवध्यानैकमानसाः ॥ १६५॥
शान्तिं कुर्वन्तु मे नित्यं सर्वकालं शुभोदयाः ।
मेषो वृषाऽधिपः सिंहो धनुर्दीप्तिमतां वरः ॥ १६६॥
पूर्व भागे स्थिता येते शिवपूजापरायणाः ।
शान्तिं कुर्वन्तु मे नित्यं हर्पादब्जपूजकाः ॥ १६७॥
वृषश्च कन्या देवी च मकरश्चाऽपि ऋद्धिमान् ।
एते दक्षिणभागे तु पूजयन्ति सदा शिवम् ॥ १६८॥
भक्त्या परमया नित्यं शान्तिं कुर्वन्तु मे सदा ।
मिथुनश्च तुला कुम्भः पश्चिमेन व्यवस्थिताः ॥ १६९॥
शिवपादार्चनरताः क्षेमं कुर्वन्तु मे सदा ।
कर्कटो वृश्चिको मीन एते उत्तरमास्थिताः ॥ १७०॥
पूजयन्ति सदाकालं रुद्रम्भुवननायकम् ।
शान्तिं कुर्वन्तु मे नित्यं शिवाज्ञाऽनुविधायिनः ॥ १७१॥
बवश्च (बबश्च) बालवश्चैव कौलवस्तैतिलस्तथा ।
गरो वणिक् तथा विष्टिश्चतुष्पाच्छकुनिस्तथा ॥ १७२॥
नागः किंस्तुघ्न इत्येव करणाः शिवभाविताः ।
सर्वे सुप्रीतमनसः शान्तिं कुर्वन्तु मे सदा ॥ १७३॥
जन्म सम्पद्विपच्चैव क्षेपप्रत्यरिसाधकाः ।
वधो मैत्रोऽतिमैत्रश्च एते वै तारकागणाः ॥ १७४॥
शिवभक्ताः सुमनसः कुर्वन्तु मम शान्तिकम् ।
ऋषयः सप्तविख्याता ध्रुवान्ताः परमोज्ज्वलाः ॥ १७५॥
शिवप्रसादसम्पन्नाः शान्तिं कुर्वन्तु मे सदा ।
कश्यपो गालवो गार्ग्यो विश्वामित्रो महामुनिः ॥ १७६॥
मुनिर्दक्षोवसिष्ठोऽथ मृकण्डुः पुलहः क्रतुः ।
असितो बालखिल्याश्च दुर्वासाः पिप्पलादयः ॥ १७७॥
ऋचीको भरतोऽगस्त्यः पराशर्यो विभाण्डकः ।
मातङ्गो जैमिनिर्व्यासो देवलो दर्भरोमकः ॥ १७८॥
माण्डव्यश्च दधीचिश्च मार्कण्डेयोऽथ गौतमः ।
नारदो भृगुरात्रेयो भारद्वाजोऽङ्गिरा मुनिः ॥ १७९॥
वाल्मीकिः कौशिकः कण्वः शाकल्योऽथ(जाबाल्योऽथ) पुनर्वसुः ।
शालङ्कायन इत्याद्या ऋषयोऽथ महाव्रताः ॥ १८०॥
शिवध्यानार्चने युक्ताः शान्तिं कुर्वन्तु मे सदा ।
ऋषिपत्न्यो महापुण्यास्तथा ऋषिकुमारिकाः ॥ १८१॥
शिवार्चनपरा नित्यं शान्तिं कुर्वन्तु मे सदा
सिद्धाः संसिद्धतपसो गणा विद्याधरा ग्रहाः ॥ १८२॥
महात्मानो महोत्साहा गरुडाश्च महर्द्धिकाः ।
महेश्वरपरा ह्येते महेशं पादपूजकाः ॥ १८३॥
सिद्धिमाशु प्रयच्छन्तु आशीर्वादपरायणाः ।
नमुचिर्दैत्यराजेन्द्रः शङ्कुकर्णो महाबलः ॥ १८४॥
महानादोऽथ विख्यातो दैत्यः परमवीर्यवान् ।
हाटकेश्वरदेवस्य नित्यं पूजापरायणाः ॥ १८५॥
बलं वीर्यञ्च मे क्षिप्रं प्रयच्छन्तु महर्द्धिकाः ।
महाजृम्भो(महाजम्भो) हयग्रीवः प्रह्लादाऽव्यक्तह्लादकः ॥ १८६॥
तारकोऽग्निमुखो दैत्यः कालनेमिर्मदोत्कटः ।
एते दैत्या महात्मानः शिवसद्भावभाविताः ॥ १८७॥
पुष्टि बलं तथा वीर्यं प्रयच्छन्तु सुखोदयम् ।
विरोचनो हिरण्याक्षः सुपर्वा च सुलोमकः ॥ १८८॥
मुचुकुन्दः सुकुन्दश्च दैत्यो रैवतकस्तथा ।
भावेन च परेणाऽऽशु यजन्ते सर्वदा शिवम् ॥ १८९॥
सततञ्च गुणात्मानं पुष्टिं कुर्वन्तु मे सदा ।
दैत्यपत्न्यो महाभागा दैत्यानां कन्यकाः शुभाः ॥ १९०॥
कुमाराश्चैव दैत्यानां शान्तिं कुर्वन्तु मे सदा
आरक्तेन शरीरेण रक्तान्तायतलोचनः ॥ १९१॥
महाभोगकृताटोपः शङ्खाब्जकृतलाञ्छनः ।
अनन्तो नागराजेन्द्रः शिवपादार्चने रतः ॥ १९२॥
महापापविषं हत्वा शान्तिमाशु करोतु मे ।
सुश्वेतेन तु देहेन सुश्वेतोत्पलशेखरः ॥ १९३॥
चारुभोगकृताटोपो हारचारुविभूषणः ।
वासुकिर्नाम नागेन्द्रो रुद्रपूजापरो महान् ॥ १९४॥
महापापं विषं हत्वा शान्तिमाशु (शान्तिं आशु) करोतु मे ।
अतिपीतेन देहेन विस्फुरद्भोगसम्पदा ॥ १९५॥
तेजसाचाऽतिदीप्तेन कृतः