Shantikadhyaya
श्रीशिवधर्माख्योक्त शान्तिकाध्यायः
श्रीगणेशाय नमः ।
श्रीभैरवाय नमः ।
श्रीनन्दीशाय नमः ।
श्रीउमामहेश्वराभ्यां नमः ।
अथ श्रीशिवधर्माख्योक्त शान्तिकाध्यायः प्रारभ्यते ।
श्री नन्दिकेश्वर उवाच -
अतः परमिदं गुह्यं रुद्रोद्गीतं महोदयम् ।
महाविघ्नप्रशमनं महाशान्तिकरं शुभम् ॥ १॥
अकालमृत्युशमनं सर्वव्याधिनिवारणम् ।
परचक्रप्रमथनं सदा विजयवर्धनम् ॥ २॥
सर्वदेवग्रहानीकं समभीष्टफलप्रदम् ।
सर्वशान्ताधिकाराख्यं धर्मं वक्ष्यामि शाश्वतम् ॥ ३॥
शशाङ्कार्द्धधरस्त्र्यक्षो नागयज्ञोपवीतकः ।
चतुर्मुखश्चतुर्बाहुः सितभस्माऽवगुण्ठितः ॥ ४॥
वरो वरेण्यो वरदो देवदेवो महेश्वरः ।
त्रैलोक्यनमितः श्रीमाञ्छान्तिमाशु करोतु मे ॥ ५॥
सर्वावयवपूर्णेन गात्रेण तनुमध्यमा ।
पीतश्यामातिसौम्येन स्निग्धवर्णेन शोभना ॥ ६॥
ललाटे तिलकोपेता चन्द्ररेखार्धधारिणी ।
चित्राम्बरधरा देवी सर्वाऽऽभरणभूषिता ॥ ७॥
वरस्त्रीमयरूपेण शोभागुणमहास्पदा ।
भावनामात्रसन्तुष्टा उमादेवी वरप्रदा ॥ ८॥
साक्षादागत्य रूपेण शान्तेनाऽमिततेजसा ।
शान्तिं करोतु मे प्रीता भक्तानां भक्तवत्सला ॥ ९॥
पद्मरागद्युतिः सौम्यो रक्तमाल्याऽनुलेपनः ।
अबालो बालरूपेण षड्वक्त्रः शिखिवाहनः ॥ १०॥
पूर्णेन्दुवदनः सौम्यस्त्रिशिखः शक्तिसंयुतः ।
कृत्तिकोमाग्निरुद्रांशसमुद्भूतः सुरार्चितः ॥ ११॥
कार्तिकेयो महातेजा वरदानैकतत्परः ।
शान्तिं करोतु मे नित्यं वरं सौख्यं च मे सदा ॥ १२॥
श्वेतवस्त्रपरीधानस्त्र्यक्षः कनकसुप्रभः ।
रुद्रश्चैको महायोगी रुद्रैको हितमानसः ॥ १३॥
शूलपाणिर्महाप्राज्ञो नन्दीशः शिवभावितः ।
शिवार्चनपरो नित्यः शिवध्यानैकतत्परः ॥ १४॥
शान्तिं करोतु मे शान्तो धर्मं च मतिमुत्तमाम् ।
महादेव महाकायः स्निग्धाञ्जनचयच्छविः ॥ १५॥
एकदंष्ट्रोत्कटो देवो गजवक्त्रो महाबलः ।
नागयज्ञोपवीती च नागाऽऽभरणभूषितः ॥ १६॥
सर्वार्थसम्पदाधारो गणाध्यक्षो वरप्रदः ।
रुद्रस्य तनयो देवो नायकोऽथ विनायकः ॥ १७॥
करोतु मे महाशान्तिं कर्मसिद्धिं च सर्वदा ।
इन्द्रनीलनिभस्त्र्यक्षो दीप्तशूलाऽऽयुधोद्यतः ॥ १८॥
रक्ताम्बरधरः श्रीमान् कृष्णाङ्गो नागभूषणः ।
पापाऽपनोदमतुलमलक्ष्मीमलनाशनः ॥ १९॥
करोतु मे महाशान्तिं महाकालो महाबलः ।
पीतवस्त्रपरीधाना कन्यारूपा स्वलङ्कृता ॥ २०॥
गणमाताऽम्बिका त्र्यक्षा पुण्या शान्ता सुरेश्वरी ।
सर्वसिद्धिकरी देवी प्रसादपरमा परा ॥ २१॥
शान्तिं करोतु मे माता सिद्धिं चाऽनुप्रयच्छतु ।
स्निग्धश्यामेन वर्णेन महामहिषमर्दिनी ॥ २२॥
धनुश्चक्रप्रहरणा खड्गपट्टिशधारिणी ।
आतर्जन्युद्यतकरा सर्वोपद्रवनाशिनी ॥ २३॥
सर्वमङ्गलदात्री मे शिवमाचरतु ध्रुवम् ।
निर्मांसेन शरीरेण स्नाय्वस्थिषु निबन्धनः ॥ २४॥
अतिसूक्ष्मोऽतिविक्रान्तस्त्र्यक्षो भृङ्गिरिटिर्महान् ।
रुद्रात्मको महावीरो रुद्रेकाहितमानसः ॥ २५॥
सोऽपि मे शान्तिभावेन शान्तिमाशु प्रयच्छतु ।
प्रचण्डगणसैन्येशो महाटङ्काक्षधारकः ॥ २६॥
अक्षमालार्पितकरस्त्र्यक्षश्चण्डेश्वरो वरः ।
चण्डपापापहरणो ब्रह्महत्यादिशोधकः ॥ २७॥ (चण्डस्तापापहरणो)
करोतु मे महायोगी कल्याणानां परम्पराम् ।
शङ्खकुन्देन्दुतुल्याभः कण्ठे मरकतप्रभः ॥ २८॥
अक्षमाली शिखाग्रस्थः स्वयं ज्ञानव्यवस्थितः ।
चतुर्मुखश्चतुष्पादत्रिनेत्रः सर्वदोज्ज्वलः ॥ २९॥
क्षितेः पतिर्वृषो देवो धर्मो धर्मतमो मतः ।
ईशं वहति पृष्ठेन तस्माद्धर्मों जगत्प्रभुः ॥ ३०॥
वृषो वृषवरः श्रीमान् करोतु मम शान्तिकम् ।
पद्मासनः पद्मनिभश्चतुर्वदनपङ्कजः ॥ ३१॥
कमण्डलुधरः श्रीमान् देवगन्धर्वपूजितः ।
शिवध्यानैकपरमः शिवसद्भावभावितः ॥ ३२॥
ब्रह्मशब्देन दिव्येन ब्रह्मा शान्तिं करोतु मे ।
तार्क्ष्यासनश्चतुर्बाहुः शङ्खचक्रगदाधरः ॥ ३३॥
श्यामः पीताम्बरधरो महाबलपराक्रमः ।
यज्ञदेवोत्तमो देवो माधवो मधुसूदनः ॥ ३४॥
शिवप्रसादसम्पन्नः शिवध्यानपरायणः ।
सर्वपापप्रमथनः सर्वाऽसुरनिकृन्तनः ॥ ३५॥
सर्वदा शान्तभावेन विष्णुः शान्तिं करोतु मे ।
अर्हन्तः शान्तरूपी च पिच्छिस्कन्धैकपाणिकः ॥ ३६॥
दिग्वासा मत्तपङ्कश्च सौम्यचित्तः समाहितः ।
संवृत्तलोचनः शान्तः शिवज्ञानैकचिन्तकः ॥ ३७॥
शान्तिं करोतु मे शान्तः शिवयोगेन भावितः ।
जितेन्द्रियः समाधिस्थः पात्रचीवरभूषितः ॥ ३८॥
वरदाभयपाणिश्च ज्ञानध्यानरतः सदा ।
योगवृष्टिसमायुक्तः शिवभानेन भावितः ॥ ३९॥
शान्तिं करोतु मे देवः सर्वसत्त्वहिते रतः ।
पीतवर्णेन देहेन हारेण सुविचित्रितः ॥ ४०॥
सर्वाङ्गसुन्दरी देवी विजया जयकारिणी ।
शिवाऽर्चनरता नित्यं शिवजाप्यपरायणा ॥ ४१॥
धरित्री लोकमाता च नित्यं रक्षां करोतु मे ।
नन्दा भद्रा च सुरभिः सुशीला सुमनास्तथा ॥ ४२॥
क्षीरोदादुत्थिता गावो लोकानां हितकाम्यया ।
प्रीणयन्ति सदा देवान् विप्राँश्चैवाऽविशेषतः ॥ ४३॥ (विप्रां)
नित्यं च देवतात्मानः कुर्वन्तु मम शान्तिकम् ।
पद्मरागप्रभा देवी चतुर्वदनपङ्कजा ॥ ४४॥
अक्षमालार्पितकरा कमण्डलुधरा शुभा ।
ब्रह्माणी सौम्यवदना शिवपूजापरायणा ॥ ४५॥
शान्तिं करोतु मे प्रीता ब्रह्मशब्देन सर्वदा ।
हिमशैलनिभा देवी महावृषभवाहिनी ॥ ४६॥
त्रिशूलहस्ता वरदा नानाऽऽभरणभूषिता ।
चतुर्भुजा चतुर्वक्त्रा त्रिनेत्रा पापहारिणी ॥ ४७॥
आर्तिं हरतु मे माता रुद्राणी नित्यमुज्ज्वला ।
मयूरवाहना देवी सिन्दूरारुणविग्रहा ॥ ४८॥
शक्तिहस्ता महारूपा सर्वाऽलङ्कारभूषिता ।
रुद्रभक्ता महावीर्या रुद्रार्चनरता सदा ॥ ४९॥
कौमारी वरदा देवी शान्तिमाशु करोतु मे ।
खड्गचक्रगदाहस्ता श्यामा पीताम्बरप्रिया ॥ ५०॥
चतुर्भुजा तार्क्ष्ययाना वैष्णवी सुरपूजिता ।
शिवार्चनपरा नित्यं शिवैकाहितमानसा ॥ ५१॥
शान्तिं करोतु मे नित्यं सर्वाऽसुरविमर्दिनी ।
ऐरावतगजारूढा वज्रहस्ता महाबला ॥ ५२॥
नेत्राणां तु सहस्रेण भूषिता कनकप्रभा ।
सिद्धगन्धर्वनमिता सर्वालङ्कारभूषिता ॥ ५३॥
ऐन्द्री देवी सदाकालं शान्तिमाशु करोतु मे ।
वाराहघोरा विकटा वराहवरवाहना ॥ ५४॥
श्यामावदाता विपुला शङ्खचक्रगदायुधा ।
तर्जयन्ती सदा विघ्नान्नर्चयन्ती सदाशिवम् ॥ ५५॥
वाराही वरदा देवी क्षेमारोग्यं ददातु मे ।
ऊर्ध्वकेशा कोटराक्षी निर्मांसा स्नायुबन्धना ॥ ५६॥
करालवदना घोरा खड्गकट्टारकोद्यता ।
कपालमालिनी क्रुद्धा खट्वाङ्गवरधारिणी ॥ ५७॥
आरक्तपिङ्गनयना गजचर्माऽवगुण्ठिता ।
नानानागोपवीताङ्गी प्रेतस्थाननिवासिनी ॥ ५८॥
शिवरूपेण घोरेण शिवरावभयङ्करी ।
चामुण्डा चण्डरूपेण महारक्षां करोतु मे ॥ ५९॥
अपीतेन शरीरेण सर्वाऽऽभरणभूषिता ।
आतर्जयन्ती विघ्नानि ज्वलत्खट्वाङ्गधारिणी ॥ ६०॥
ध्वाङ्क्षासना महावीरा सर्वपापप्रणाशिनी ।
लम्बोष्ठी वरदा देवी शान्तिमाशु करोतु मे ॥ ६१॥
आकाशमातरी दिव्यस्तथाऽन्यालोकमातरः ।
भूतानां मातरः सर्वास्तथाऽन्येषाञ्च मातरः ॥ ६२॥
सर्वमातृमहादेव्यः स्वायुधा व्यग्रपाणयः ।
जगद्व्याप्याऽवतिष्ठन्ते बलिकामा महोदयाः ॥ ६३॥
रुद्रभक्ता महावीर्या रुद्रार्चाऽहितमानसाः ।
शान्तिं कुर्वन्तु मे नित्यं मातरः सुरपूजिताः ॥ ६४॥
ये रुद्रा रौद्रकर्माणो रुद्रस्थाननिवासिनः ।
सौम्याश्चैव तु ये केचित् स्थाणुस्थाननिवासिनः ॥ ६५॥
मातरो रुद्ररूपाश्च गणानामधिपाश्च ये ।
विघ्नभूतास्तथा चाऽन्ये दिवि दिक्षु समाश्रिताः ॥ ६६॥
सर्वे सुप्रीतमनसः प्रतिगृह्णन्तु मे बलिम् ।
सिद्धिमाशु प्रयच्छन्तु भयेभ्यः पान्तु मां सदा ॥ ६७॥
ऐन्द्रयां दिशि गणा ये तु वज्रहस्ता महाबलाः ।
सुश्वेताक्षाः श्वेतनिभास्तथा वै श्वेतलोहिताः ॥ ६८॥
दिव्यान्तरिक्षभौमाश्च पातालतलवासिनः ।
रुद्रार्चनरता हृष्टा शान्तिं कुर्वन्तु मे सदा ॥ ६९॥
आग्नेय्यां ये गणाः सर्वे शक्तिहस्ता निषङ्गिणः ।
आरक्ताक्षा रक्तनिभास्तथा वै रक्तलोहिताः ॥ ७०॥
दिव्यान्तरिक्षभौमाश्च पातालतलवासिनः ।
रुद्रप्रणाममनसः शान्तिं कुर्वन्तु मे सदा ॥ ७१॥
याम्यां दिशि गणा ये तु सततं दण्डपाणयः ।
कृष्णाः कृष्णनिभाः क्रुद्धास्तथा वै कृष्णलोहिताः ॥ ७२॥
दिव्यान्तरिक्षभौमाश्च पातालतलवासिनः ।
रुद्रका हितचेतस्काः शान्तिं कुर्वन्तु मे सदा ॥ ७३॥
नैरृत्यां तु गणाः क्रूरा राक्षसाः मृत्युरूपिणः ।
सुनीलाक्षा नीलनिभास्तथा वै नीललोहिताः ॥ ७४॥
दिव्यान्तरिक्षभौमाश्च पातालतलवासिनः ।
रुद्रध्यानैक निरताः शान्तिं कुर्वन्तु मे सदा ॥ ७५॥
वारुण्यां वै गणा ये तु सततं पाशपाणयः ।
सुमुक्ताक्षाः मुक्तनिभाः वै मुक्तलोहिताः ॥ ७६॥
दिव्यान्तरिक्षभौमाश्च पातालतलवासिनः ।
परमेशार्चनरताः कुर्वन्तु मम शान्तिकम् ॥ ७७॥
वायव्यां वै गणा ये तु सततं ध्वजपाणयः ।
सधूम्राक्षाः धूम्रनिभाः वै धूम्रलोहिताः ॥ ७८॥
दिव्यान्तरिक्षभौमाश्च पातालतलवासिनः ।
शिवभक्तिपराः सर्वे क्षेमं कुर्वन्तु मे सदा ॥ ७९॥
उत्तरस्यां गणा ये तु सततं निधिपाणयः ।
सुपीताक्षाः पीतनिभाः तथा वै पीतलोहिताः ॥ ८०॥
दिव्यान्तरिक्षभौमाश्च पातालतलवासिनः ।
शिवपूजासमुद्युक्ताः क्षेमं कुर्वन्तु सर्वदा ॥ ८१॥
ऐशान्यां वै गणा ये तु प्रशान्ताः शूलपाणयः ।
सुश्वेताक्षाः श्वेतनिभाः तथा वै श्वेतलोहिताः ॥ ८२॥
दिव्यान्तरिक्षभौमाश्च पातालतलवासिनः ।
शिवपूजासमुद्युक्ताः क्षेमं कुर्वन्तु मे सदा ॥ ८३॥
अधोभागे गणा ये तु सततं चक्रपाणयः ।
धूम्रा धूम्रनिभाः सर्वे तथा वै धूम्रलोहिताः ॥ ८४॥
सुनीलाक्षाः नीलनिभाः तथा वै नीललोहिताः
दिव्यान्तरिक्षभौमाश्च पातालतलवासिनः ।
शिवं कुर्वन्तु मे नित्यमलक्ष्मीमलनाशनम् ॥ ८५॥
ऊर्ध्वभागे गणा ये तु महाबलपराक्रमाः । (var तु सततं पाशपाणयः)
सुसूक्ष्माक्षाः सूक्ष्मनिभाः तथा वै सूक्ष्मलोहिताः ॥ ८६॥
दिव्यान्तरिक्षभौमाश्च पातालतलवासिनः ।
शिवपूजासमुद्युक्ता अशुभान्नाशयन्तु मे ॥ ८७॥
एते गणा महात्मानो महाबलपराक्रमाः ।
शिवं सम्पूज्य यत्नेन बलिं तेषां विनिक्षिपेत् ॥ ८८॥
ततः सुप्रीतमनसः शान्तिं कुर्वन्तु सर्वदा ।
अमरावती नाम पुरी पूर्वभागे व्यवस्थिता ॥ ८९॥
विद्याधरसमाकीर्णा सिद्धगन्धर्वसेविता ।
रत्नप्रकाररुचिरा सर्वरत्नोपशोभिता ॥ ९०॥
तत्र देवपतिः श्रीमान् वज्रपाणिर्महाबलः ।
नेत्राणां तु सहस्रेण शोभनेन विराजते ॥ ९१॥
ऐरावतगजारूढो हेमवर्णो महाद्युतिः ।
देवेन्द्रः सततं हृष्टः परमेशार्चने रतः ॥ ९२॥
शिवध्यानेन सम्पन्नः शिवभक्तिसमन्वितः ।
शिवप्रणामपरमः करोतु मम शान्तिकम् ॥ ९३॥
आग्नेये दिग्विभागे तु पुरी तेजोवती शुभा । (var आग्नेय्यां)
नानादेवगणाकीर्णा रत्नज्वालासमुज्ज्वला ॥ ९४॥
तत्र ज्वालापरीताङ्गी दीप्ताङ्गारसमद्युतिः ।
भूतिकृद् देहिनां देवो ज्वलनः पापनाशनः ॥ ९५॥
शिवपूजाजपोद्युक्तः शिवस्मरणभावितः ।
शान्तिङ्करोतु मे देवस्तथा पापपरिक्षयम् ॥ ९६॥
वैवस्वती नाम पुरी दक्षिणे वै व्यवस्थिता ।
लोहप्राकरसंयुक्ता प्रासादैर्गोपुरैः शुभैः ॥ ९७॥
सुरासुरशतानीकपितृरक्षोगणालया ।
तत्रेन्द्रो नीलसङ्काशो रक्तान्तायतलोचनः ॥ ९८॥
महामहिषमारूढः कृष्णस्रग्वस्त्रभूषणः ।
कालान्तकमहाकालः चण्डकोदण्ड संयुतः ॥ ९९॥
श्रीमान्यमो महातेजाः शिवधर्मपरायणः । (var अन्तकोऽथ महातेजाः)
शिवपूजासमुद्युक्तः क्षेमारोग्यं ददातु मे ॥ १००॥
नैरृत्यास्तु दिशो भागे पुरी कृष्णेति विश्रुता । (var पुरी