KaryaVidhan

श्रीरुद्रसहस्रनामस्तोत्रम् लिङ्गपुराणे

Page 1 of 2

ॐ श्रीगणेशाय नमः ।
ऋषयः ऊचुः ।
आदित्यवंशं सोमस्य वंशं वंशविदां वर ।
वक्तुमर्हसि चास्माकं सङ्क्षेपाद्रोमहर्षणम् ॥ १॥

सूत उवाच ।
अदितिः सुषुवे पुत्रमादित्यं कश्यपाद्द्विजाः ।
तस्यादित्यस्य चैवासीद्भार्यात्रयमथापरम् ॥ २॥

संज्ञा राज्ञी प्रभा छाया पुत्रांस्तासां वदामि वः ।
संज्ञा त्वाष्ट्री च सुषुवे सूर्यान्मनुमनुत्तमम् ॥ ३॥

यमं च यमुनां चैव राज्ञी रेवतमेव च ।
प्रभा प्रभातमादित्याच्छायां संज्ञाप्यकल्पयत् ॥ ४॥

छाया च तस्मात्सुषुवे सावर्णिं भास्कराद्द्विजाः ।
ततः शनिञ्च तपतीं विष्टिञ्चैव यथाक्रमम् ॥ ५॥

छाया स्वपुत्राभ्यधिकं स्नेहञ्चक्रे मनौ तदा ।
पूर्वो मनुर्न चक्षाम यमस्तु क्रोधमूर्च्छितः ॥ ६॥

मन्ताडयामास रुषा पादमुद्यम्य दक्षिणम् ।
यमेन ताडिता सा तु छाया वै दुःखिताभवत् ॥ ७॥

छायाशापात्पदञ्चैकं यमस्य क्लिन्नमुत्तमम् ।
पूयशोणित सम्पूर्णं कृमीणां निचयान्वितम् ॥ ८॥

सोऽपि गोकर्णमाश्रित्य फलकेनानिलाशनः ।
आराधयन्महादेवं यावद्वर्षायुतायुतम् ॥ ९॥

भवप्रसादादागत्य लोकपालत्वमुत्तमम् ।
पितॄणामाधिपत्यं तु शापमोक्षं तथैव च ॥ १०॥

लब्धवान्देवदेवस्य प्रभावाच्छूलपाणिनः ।
असंहन्ती पुरा भानोस्तेजोमयमनिन्दिता ॥ ११॥

रूपं त्वाष्ट्री स्वदेहात्तु छायाख्यां सा त्वकल्पयत् ।
वडवारूपमास्थाय तपस्तेपे तु सुव्रता ॥ १२॥

कालात्प्रयत्नतो ज्ञात्वा छायां छायापतिः प्रभुः ।
वडवामगमत् संज्ञामश्वरूपेण भास्करः ॥ १३॥

वडवा च तदा त्वाष्ट्री संज्ञा तस्माद्दिवाकरात् ।
सुषुवे चाश्विनौ देवौ देवानान्तु भिषग्वरौ ॥ १४॥

लिखितो भास्करः पश्चात्संज्ञापित्रा महात्मना ।
विष्णोश्चक्रं तु यद्घोरं मण्डलाद्भास्करस्य तु ॥ १५॥

निर्ममे भगवांस्त्वष्टा प्रधानं दिव्यमायुधम् ।
रुद्रप्रसादाच्च शुभं सुदर्शनमिति स्मृतम् ॥ १६॥

लब्धवान् भगवांश्चक्रं कृष्णः कालाग्निसन्निभम् ।
मनोस्तु प्रथमस्यास नव पुत्रास्तु तत्समाः ॥ १७॥

इक्ष्वाकुर्नभगश्चैव धृष्णुः शर्यातिरेव च ।
नरिष्यन्तश्च वै धीमान् नाभागोऽरिष्ट एव च ॥ १८॥

करूषश्च पृषध्रश्च नवैते मानवाः स्मृताः ।
इला ज्येष्ठा वरिष्ठा च पुंस्त्वं प्राप च या पुरा ॥ १९॥

सुद्युम्न इति विख्याता पुंस्त्वं प्राप्ता त्विला पुरा ।
मित्रावरुणयोस्त्वत्र प्रसादान्मुनिपुङ्गवाः ॥ २०॥

पुनः शरवणं प्राप्य स्त्रीत्वं प्राप्तो भवाज्ञया ।
सुद्युम्नो मानवः श्रीमान् सोमवंशप्रवृद्धये ॥ २१॥

इक्ष्वाकोरश्वमेधेन इला किम्पुरुषोऽभवत् ।
इला किम्पुरुषत्वे च सुद्युम्न इति चोच्यते ॥ २२॥

मासमेकं पुमान्वीरः स्त्रीत्वं मासमभूत्पुनः ।
इला बुधस्य भवनं सोमपुत्रस्य चाश्रिता ॥ २३॥

बुधेनान्तरमासाद्य मैथुनाय प्रविर्तिता ।
सोमपुत्राद्बुधाच्चापि ऐलो यज्ञे पुरूरवाः ॥ २४॥

सोमवंशाग्रजो धीमान्भवभक्तः प्रतापवान् ।
इक्ष्वाकोर्वंशविस्तारं पश्चाद्वक्ष्ये तपोधनाः ॥ २५॥

पुत्रत्रयमभूत्तस्य सुद्युम्नस्य द्विजोत्तमाः ।
उत्कलश्च गयश्चैव विनताश्वस्तथैव च ॥ २६॥

उत्कलस्योत्कलं राष्ट्रं विनताश्वस्य पश्चिमम् ।
गया गयस्य चाख्याता पुरी परमशोभना ॥ २७॥

सुराणां संस्थितिर्यस्यां पितॄणाञ्च सदा स्थितिः ।
इक्ष्वाकुज्येष्ठदायादो मध्यदेशमवाप्तवान् ॥ २८॥

कन्याभावाच्च सुद्युम्नो नैव भागमवाप्तवान् ।
वसिष्ठवचनात्त्वासीत्प्रतीष्ठाने महाद्युतिः ॥ २९॥

प्रतिष्ठा धर्मराजस्य सुद्युम्नस्य महात्मनः ।
तत्पुरूरवसे प्रादाद्राज्यं प्राप्य महायशाः ॥ ३०॥

मानवेयो महाभागः स्त्रीपुंसोर्लक्षणान्वितः ।
इक्ष्वाकोरभवद्वीरो विकुक्षिर्धर्मवित्तमः ॥ ३१॥

ज्येष्ठः पुत्रशतस्यासीद्दश पञ्च च तत्सुताः ।
अभूज्ज्येष्ठः ककुत्स्थश्च ककुत्स्थात्तु सुयोधनः ॥ ३२॥

ततः पृथुर्मुनिश्रेष्ठा विश्वकः पार्थिवस्तथा ।
विश्वकस्यार्द्रको धीमान् युवनाश्वस्तु तत्सुतः ॥ ३३॥

शाबस्तिश्च महातेजा वंशकस्तु ततोभवत् ।
निर्मिता येन शाबस्ती गौडदेशे द्विजोत्तमाः ॥ ३४॥

वंशाच्च बृहदश्वोऽभूत्कुवलाश्वस्तु तत्सुतः ।
धुन्धुमारत्वमापन्नो धुन्धुं हत्वा महाबलम् ॥ ३५॥

धन्धुमारस्य तनयास्त्रयस्त्रैलोक्यविश्रुताः ।
दृढाश्वश्चैव चण्डाश्वः कपिलाश्वश्च ते स्मृताः ॥ ३६॥

दृढाश्वस्य प्रमोदस्तु हर्यश्वस्तस्य वै सुतः ।
हर्यश्वस्य निकुम्भस्तु संहताश्वस्तु तत्सुतः ॥ ३७॥

कृशाश्वोऽथरणाश्वश्च संहताश्वात्मजावुभौ ।
युवनाश्वो रणाश्वस्य मान्धाता तस्य वै सुतः ॥ ३८॥

मान्धातुः पुरुकुत्सोऽभूदम्बरीषश्च वीर्यवान् ।
मुचकुन्दश्च पुण्यात्मा त्रयस्त्रैलोक्यविश्रुताः ॥ ३९॥

अम्बरीषस्य दायादो युवानाश्वोऽपरः स्मृतः ।
हरितो युवनाश्वस्य हरितास्तु यतः स्मृताः ॥ ४०॥

एते ह्यङ्गिरसः पक्षे क्षत्रोपेता द्विजातयः ।
पुरुकुत्सस्य दायादस्त्रसद्दस्युर्महायशाः ॥ ४१॥

नर्मदायां समुत्पन्नः सम्भूतिस्तस्य चात्मजः ।
विष्णुवृद्धः सुतस्तस्य विष्णुवृद्धा यतः स्मृताः ॥ ४२॥

एते ह्यङ्गिरसः पक्षे क्षत्रोपेताः समाश्रिताः ।
सम्भूतिरपरं पुत्रमनरण्यमजीजनत् ॥ ४३॥

रावणेन हतो योऽसौ त्रैलोक्यविजये द्विजाः ।
बृहदश्वोऽनरण्यस्य हर्य्यश्वस्तस्य चात्मजः ॥ ४४॥

हर्य्यश्वात्तु दृषद्वत्यां जज्ञे वसुमना नृपः ।
तस्य पुत्रोऽभवद्राजा त्रिधन्वा भवभावितः ॥ ४५॥

प्रनादाद्ब्रह्मसूनोर्वै तण्डिनः प्राप्य शिष्यताम् ।
अश्वमेधसहस्रस्य फलं प्राप्य तदाज्ञया ॥ ४६॥

गणैश्वर्य्यमनुप्राप्तो भवभक्तः प्रतापवान् ।
कथञ्चैवाश्वमेधं वै करोमीति विचिन्तयन् ॥ ४७॥

धनहीनश्च धर्मात्मा दृष्टवान् ब्रह्मणः सुतम् ।
तण्डिसंज्ञं द्विजं तस्माल्लब्धवान् द्विजसत्तमाः ॥ ४८॥

नाम्नां सहस्रं रुद्रस्य ब्रह्मणा कथितं पुरा ।
तेन नाम्नां सहस्रेण स्तुत्वा तण्डिर्महेश्वरम् ॥ ४९॥

लब्धवान्गाणपत्यं च ब्रह्मयोनिर्द्विजोत्तमः ।
ततस्तस्मान्नृपो लब्ध्वा तण्डिना कथितं पुरा ॥ ५०॥

नाम्नां सहस्रं जप्त्वा वै गाणपत्यमवाप्तवान् ।
ऋषय ऊचुः ।
नाम्नां सहस्रं रुद्रस्य ताण्डिना ब्रह्मयोनिना ॥ ५१॥

कथितं सर्ववेदार्थसञ्चयं सूत सुव्रत ।
नाम्नां सहस्रं विप्राणां वक्तुमर्हसि शोभनम् ॥ ५२॥

सूत उवाच ।
सर्वभूतात्मभूतस्य हरस्यामिततेजसः ।
अष्टोत्तरसहस्रं तु नाम्नां श‍ृणुत सुव्रताः ॥ ५३॥

यज्जप्त्वा तु मुनिश्रेष्ठा गाणपत्यमवाप्तवान् ।
(अथ सहस्रनामस्तोत्रम् ।)
ॐ स्थिरः स्थाणुः प्रभुर्भानुः प्रवरो वरदो वरः ॥ ५४॥

सर्वात्मा सर्वविख्यातः सर्वः सर्वकरो भवः ।
जटी दण्डी शिखण्डी च सर्वगः सर्वभावनः ॥ ५५॥

हरिश्च हरिणाक्षश्च सर्वभूतहरः स्मृतः ।
प्रवृत्तिश्च निवृत्तिश्च शान्तात्मा शाश्वतो ध्रुवः ॥ ५६॥

श्मशानवासी भगवान्खचरो गोचरोर्दनः ।
अभिवाद्यो महाकर्मा तपस्वी भूतधारणः ॥ ५७॥

उन्मत्तवेशः प्रच्छन्नः सर्वलोकप्रजापतिः ।
महारूपो महाकायः सर्वरूपो महायशाः ॥ ५८॥

महात्मा सर्वभूतश्च विरूपो वामनो नरः ।
लोकपालोऽन्तर्हितात्मा प्रसादोऽभयदो विभुः ॥ ५९॥

पवित्रश्च महांश्चैव नियतो नियताश्रयः ।
स्वयम्भूः सर्वकर्मा च आदिरादिकरो निधिः ॥ ६०॥

सहस्राक्षो विशालाक्षः सोमो नक्षत्रसाधकः ।
चन्द्रः सूर्यः शनिः केतुर्ग्रहो ग्रहपतिर्मतः ॥ ६१॥

राजा राज्योदयः कर्ता मृगबाणार्पणो घनः ।
महातपा दीर्घतपा अदृश्यो धनसाधकः ॥ ६२॥

संवत्सरः कृतो मन्त्रः प्राणायामः परन्तपः ।
योगी योगो महाबीजो महारेता महाबलः ॥ ६३॥

सुवर्णरेताः सर्वज्ञः सुबीजो वृषवाहनः ।
दशबाहुस्त्वनिमिषो नीलकण्ठ उमापतिः ॥ ६४॥

विश्वरूपः स्वयंश्रेष्ठो बलवीरो बलाग्रणीः ।
गणकर्ता गणपतिर्दिग्वासाः काम्य एव च ॥ ६५॥

मन्त्रवित्परमो मन्त्रः सर्वभावकरो हरः ।
कमण्डलुधरो धन्वी बाणहस्तः कपालवान् ॥ ६६॥

शरी शतघ्नी खड्गी च पट्टिशी चायुधी महान् ।
अजश्च मृगरूपश्च तेजस्तेजस्करो विधिः ॥ ६७॥

उष्णीषी च सुवक्त्रश्च उदग्रो विनतस्तथा ।
दीर्घश्च हरिकेशश्च सुतीर्थः कृष्ण एव च ॥ ६८॥

श‍ृगालरूपः सर्वार्थो मुण्डः सर्वशुभङ्करः ।
सिंहशार्दूलरूपश्च गन्धकारी कपर्द्यपि ॥ ६९॥

ऊर्ध्वरेतोर्ध्वलिङ्गी च ऊर्ध्वशायी नभस्तलः ।
त्रिजटी चीरवासाश्च रुद्रः सेनापतिर्विभुः ॥ ७०॥

अहोरात्रञ्च नक्तञ्च तिग्ममन्युः सुवर्चसः ।
गजहा दैत्यहा कालो लोकधाता गुणाकरः ॥ ७१॥

सिंहशार्दुलरूपाणामार्द्रचर्माम्बरन्धरः ।
कालयोगी महानादः सर्वावासश्चतुष्पथः ॥ ७२॥

निशाचरः प्रेतचारी सर्वदर्शी महेश्वरः ।
बहुभूतो बहुधनः सर्वसारोऽमृतेश्वरः ॥ ७३॥

नृत्यप्रियो नित्यनृत्यो नर्तनः सर्वसाधकः ।
सकार्मुको महाबाहुर्महाघोरो महातपाः ॥ ७४॥

महाशरो महापाशो नित्यो गिरिचरो मतः ।
सहस्रहस्तो विजयो व्यवसायो ह्यनिन्दितः ॥ ७५॥

अमर्षणो मर्षणात्मा यज्ञहा कामनाशनः ।
दक्षहा परिचारी च प्रहसो मध्यमस्तथा ॥ ७६॥

तेजोऽपहारी बलवान्विदितोऽभ्युदितो बहुः ।
गम्भीरघोषो योगात्मा यज्ञहा कामनाशनः ॥ ७७॥

गम्भीररोषो गम्भीरो गम्भीरबलवाहनः ।
न्यग्रोधरूपो न्यग्रोधो विश्वकर्मा च विश्वभुक् ॥ ७८॥

तीक्ष्णोपायश्च हर्यश्वः सहायः कर्मकालवित् ।
विष्णुः प्रसादितो यज्ञः समुद्रो वडवामुखः ॥ ७९॥

हुताशनसहायश्च प्रशान्तात्मा हुताशनः ।
उग्रतेजा महातेजा जयो विजयकालवित् ॥ ८०॥

ज्योतिषामयनं सिद्धिः सन्धिर्विग्रह एव च ।
खड्गी शङ्खी जटी ज्वाली खचरो द्युचरो बली ॥ ८१॥

वैणवी पणवी कालः कालकण्ठः कटङ्कटः ।
नक्षत्रविग्रहो भावो निभावः सर्वतोमुखः ॥ ८२॥

विमोचनस्तु शरणो हिरण्यकवचोद्भवः ।
मेखलाकृतिरूपश्च जलाचारः स्तुतस्तथा ॥ ८३॥

वीणी च पणवी ताली नाली कलिकटुस्तथा ।
सर्वतूर्यनिनादी च सर्वव्याप्यपरिग्रहः ॥ ८४॥

व्यालरूपी बिलावासी गुहावासी तरङ्गवित् ।
वृक्षः श्रीमालकर्मा च सर्वबन्धविमोचनः ॥ ८५॥

बन्धनस्तु सुरेन्द्राणां युधि शत्रुविनाशनः ।
सखा प्रवासो दुर्वापः सर्वसाधुनिषेवितः ॥ ८६॥

प्रस्कन्दोऽप्यविभावश्च तुल्यो यज्ञविभागवित् ।
सर्ववासः सर्वचारी दुर्वासा वासवो मतः ॥ ८७॥

हैमो हेमकरो यज्ञः सर्वधारी धरोत्तमः ।
आकाशो निर्विरूपश्च विवासा उरगः खगः ॥ ८८॥

भिक्षुश्च भिक्षुरूपी च रौद्ररूपः सुरूपवान् ।
वसुरेताः सुवर्चस्वी वसुवेगो महाबलः ॥ ८९॥

मनोवेगो निशाचारः सर्वलोकशुभप्रदः ।
सर्वावासी त्रयीवासी उपदेशकरो धरः ॥ ९०॥

मुनिरात्मा मुनिर्लोकः सभाग्यश्च सहस्रभुक् ।
पक्षी च पक्षरूपश्च अतिदीप्तो निशाकरः ॥ ९१॥

समीरो दमनाकारो ह्यर्थो ह्यर्थकरोऽवशः ।
वासुदेवश्च देवश्च वामदेवश्च वामनः ॥ ९२॥

सिद्धियोगापहारी च सिद्धः सर्वार्थसाधकः ।
अक्षुण्णः क्षुण्णरूपश्च वृषणो मृदुरव्ययः ॥ ९३॥

महासेनो विशाखश्च षष्टिभागो गवां पतिः ।
चक्रहस्तस्तु विष्टम्भी मूलस्तम्भन एव च ॥ ९४॥

ऋतुरृतुकरस्तालो मधुर्मधुकरो वरः ।
वानस्पत्यो वाजसनो नित्यमाश्रमपूजितः ॥ ९५॥

ब्रह्मचारी लोकचारि सर्वचारि सुचारवित् ।
ईशान ईश्वरः कालो निशाचारी ह्यनेकदृक् ॥ ९६॥

निमित्तस्थो निमित्तं च नन्दिर्नन्दिकरो हरः ।
नन्दीश्वरः सुनन्दी च नन्दनो विषमर्दनः ॥ ९७॥

भगहारी नियन्ता च कालो लोकपितामहः ।
चतुर्मुखो महालिङ्गश्चारुलिङ्गस्तथैव च ॥ ९८॥

लिङ्गाध्यक्षः सुराध्यक्षः कालाध्यक्षो युगावहः ।
बीजाध्यक्षो बीजकर्ता अध्यात्मानुगतो बलः ॥ ९९॥

इतिहासश्च कल्पश्च दमनो जगदीश्वरः ।
दम्भो दम्भकरो दाता वंशो वंशकरः कलिः ॥ १००॥

लोककर्ता

अर्को