KaryaVidhan

श्रीरुद्रसहस्रनामस्तोत्रम् लिङ्गपुराणे

Page 2 of 2

पशुपतिर्महाकर्ता ह्यधोक्षजः ।
अक्षरं परमं ब्रह्म बलवाञ्छुक्र एव च ॥ १०१॥

नित्यो ह्यनीशः शुद्धात्मा शुद्धो मानो गतिर्हविः ।
प्रासादस्तु बलो दर्पो दर्पणो हव्यमिन्द्रजित् ॥ १०२॥

वेदकारः सूत्रकारो विद्वांश्च परमर्दनः ।
महामेघनिवासी च महाघोरो वशीकरः ॥ १०३॥

अग्निज्वालो महाज्वालः परिधूम्रावृतो रविः ।
धिषणः शङ्करो नित्यो वर्चस्वी धूम्रलोचनः ॥ १०४॥

नीलस्तथाङ्गलुप्तश्च शोभनो नरविग्रहः ।
स्वस्ति स्वस्तिस्वभावश्च भोगी भोगकरो लघुः ॥ १०५॥

उत्सङ्गश्च महाङ्गश्च महागर्भः प्रतापवान् ।
कृष्णवर्णः सुवर्णश्च इन्द्रियः सर्ववर्णिकः ॥ १०६॥

महापादो महाहस्तो महाकायो महायशाः ।
महामूर्धा महामात्रो महामित्रो नगालयः ॥ १०७॥

महास्कन्धो महाकर्णो महोष्ठश्च महाहनुः ।
महानासो महाकण्ठो महाग्रीवः श्मशानवान् ॥ १०८॥

महाबलो महातेजा ह्यन्तरात्मा मृगालयः ।
लम्बितोष्ठश्च निष्ठश्च महामायः पयोनिधिः ॥ १०९॥

महादन्तो महादंष्ट्रो महाजिह्वो महामुखः ।
महानखो महारोमा महाकेशो महाजटः ॥ ११०॥

असपत्नः प्रसादश्च प्रत्ययो गीतसाधकः ।
प्रस्वेदनो स्वहेनश्च आदिकश्च महामुनिः ॥ १११॥

वृषको वृषकेतुश्च अनलो वायुवाहनः ।
मण्डली मेरुवासश्च देववाहन एव च ॥ ११२॥

अथर्वशीर्षः सामास्य ऋक्सहस्रोर्जितेक्षणः ।
यजुः पादभुजो गुह्यः प्रकाशौजास्तथैव च ॥ ११३॥

अमोघार्थप्रसादश्च अन्तर्भाव्यः सुदर्शनः ।
उपहारः प्रियः सर्वः कनकः काञ्चनस्थितः ॥ ११४॥

नाभिर्नन्दिकरो हर्म्यः पुष्करः स्थपतिः स्थितः ।
सर्वशास्त्रो धनश्चाद्यो यज्ञो यज्वा समाहितः ॥ ११५॥

नगो नीलः कविः कालो मकरः कालपूजितः ।
सगणो गणकारश्च भूतभावनसारथिः ॥ ११६॥

भस्मशायी भस्मगोप्ता भस्मभूततनुर्गणः ।
आगमश्च विलोपश्च महात्मा सर्वपूजितः ॥ ११७॥

शुक्लः स्त्रीरूपसम्पन्नः शुचिर्भूतनिषेवितः ।
आश्रमस्थः कपोतस्थो विश्वकर्मा पतिर्विराट् ॥ ११८॥

विशालशाखस्ताम्रोष्ठो ह्यम्बुजालः सुनिश्चितः ।
कपिलः कलशः स्थूल आयुधश्चैव रोमशः ॥ ११९॥

गन्धर्वो ह्यदितिस्तार्क्ष्यो ह्यविज्ञेयः सुशारदः ।
परश्वधायुधो देवो ह्यर्थकारी सुबान्धवः ॥ १२०॥

तुम्बवीणो महाकोप ऊर्ध्वरेता जलेशयः ।
उग्रो वंशकरो वंशो वंशवादी ह्यनिन्दितः ॥ १२१॥

सर्वाङ्गरूपी मायावी सुहृदो ह्यनिलो बलः ।
बन्धनो बन्धकर्ता च सुबन्धनविमोचनः ॥ १२२॥

राक्षसघ्नोऽथ कामारिर्महादंष्ट्रो महायुधः ।
लम्बितो लम्बितोष्ठश्च लम्बहस्तो वरप्रदः ॥ १२३॥

बाहुस्त्वनिन्दितः सर्वः शङ्करोऽथाप्यकोपनः ।
अमरेशो महाघोरो विश्वदेवः सुरारिहा ॥ १२४॥

अहिर्बुध्न्यो निरृतिश्च चेकितानो हली तथा ।
अजैकपाच्च कापाली शं कुमारो महागिरिः ॥ १२५॥

धन्वन्तरिर्धूमकेतुः सूर्यो वैश्रवणस्तथा ।
धाता विष्णुश्च शक्रश्च मित्रस्त्वष्टा धरो ध्रुवः ॥ १२६॥

प्रभासः पर्वतो वायुरर्यमा सविता रविः ।
धृतिश्चैव विधाता च मान्धाता भूतभावनः ॥ १२७॥

नीरस्तीर्थश्च भीमश्च सर्वकर्मा गुणोद्वहः ।
पद्मगर्भो महागर्भश्चन्द्रवक्त्रो नभोऽनघः ॥ १२८॥

बलवांश्चोपशान्तश्च पुराणः पुण्यकृत्तमः ।
क्रूरकर्ता क्रूरवासी तनुरात्मा महौषधः ॥ १२९॥

सर्वाशयः सर्वचारी प्राणेशः प्राणिनां पतिः ।
देवदेवः सुखोत्सिक्तः सदसत्सर्वरत्नवित् ॥ १३०॥

कैलासस्थो गुहावासी हिमवद्गिरिसंश्रयः ।
कुलहारी कुलाकर्ता बहुवित्तो बहुप्रजः ॥ १३१॥

प्राणेशो बन्धकी वृक्षो नकुलश्चाद्रिकस्तथा ।
ह्रस्वग्रीवो महाजानुरलोलश्च महौषधिः ॥ १३२॥

सिद्धान्तकारी सिद्धार्थश्छन्दो व्याकरणोद्भवः ।
सिंहनादः सिंहदंष्ट्रः सिंहास्यः सिंहवाहनः ॥ १३३॥

प्रभावात्मा जगत्कालः कालः कम्पी तरुस्तनुः ।
सारङ्गो भूतचक्राङ्कः केतुमाली सुवेधकः ॥ १३४॥

भूतालयो भूतपतिरहोरात्रो मलोऽमलः ।
वसुभृत्सर्वभूतात्मा निश्चलः सुविदुर्बुधः ॥ १३५॥

असुहृत्सर्वभूतानां निश्चलश्चलविद्बुधः ।
अमोघः संयमो हृष्टो भोजनः प्राणधारणः ॥ १३६॥

धृतिमान्मतिमांस्त्र्यक्षः सुकृतस्तु युधां पतिः ।
गोपालो गोपतिर्ग्रामो गोचर्मवसनो हरः ॥ १३७॥

हिरण्यबाहुश्च तथा गुहावासः प्रवेशनः ।
महामना महाकामो चित्तकामो जितेन्द्रियः ॥ १३८॥

गान्धारश्च सुरापश्च तापकर्मरतो हितः ।
महाभूतो भूतवृतो ह्यप्सरोगणसेवितः ॥ १३९॥

महाकेतुर्धराधाता नैकतानरतः स्वरः ।
अवेदनीय आवेद्यः सर्वगश्च सुखावहः ॥ १४०॥

तारणश्चरणो धाता परिधा परिपूजितः ।
संयोगी वर्धनो वृद्धो गणिकोऽथ गणाधिपः ॥ १४१॥

नित्यो धाता सहायश्च देवासुरपतिः पतिः ।
युक्तश्च युक्तबाहुश्च सुदेवोऽपि सुपर्वणः ॥ १४२॥

आषाढश्च सुषाढश्च स्कन्धदो हरितो हरः ।
वपुरावर्तमानोऽन्यो वपुः श्रेष्ठो महावपुः ॥ १४३॥

शिरो विमर्शनः सर्वलक्ष्यलक्षणभूषितः ।
अक्षयो रथगीतश्च सर्वभोगी महाबलः ॥ १४४॥

साम्नायोऽथ महाम्नायस्तीर्थदेवो महायशाः ।
निर्जीवो जीवनो मन्त्रः सुभगो बहुकर्कशः ॥ १४५॥

रत्नभूतोऽथ रत्नाङ्गः महार्णवनिपातवित् ।
मूलं विशालो ह्यमृतं व्यक्ताव्यक्तस्तपोनिधिः ॥ १४६॥

आरोहणोऽधिरोहश्च शीलधारी महातपाः ।
महाकण्ठो महायोगी युगो युगकरो हरिः ॥ १४७॥

युगरूपो महारूपो वहनो गहनो नगः ।
न्यायो निर्वापणो पादः पण्डितो ह्यचलोपमः ॥ १४८॥

बहुमालो महामालः शिपिविष्टः सुलोचनः ।
विस्तारो लवणः कूपः कुसुमाङ्गो फलोदयः ॥ १४९॥

ऋषभो वृषभो भङ्गो माणिबिम्बजटाधरः ।
इन्दुर्विसर्गः सुमुखः शूरः सर्वायुधः सहः ॥ १५०॥

निवेदनः सुधाजातः स्वर्गद्वारो महाधनुः ।
गिरावासो विसर्गश्च सर्वलक्षणलक्षवित् ॥ १५१॥

गन्धमाली च भगवाननन्तः सर्वलक्षणः ।
सन्तानो बहुलो बाहुः सकलः सर्वपावनः ॥ १५२॥

करस्थाली कपाली च ऊर्ध्वसंहननो युवा ।
यन्त्रतन्त्रसुविख्यातो लोकः सर्वाश्रयो मृदुः ॥ १५३॥

मुण्डो विरूपो विकृतो दण्डी कुण्डी विकुर्वणः ।
वार्यक्षः ककुभो वज्री दीप्ततेजाः सहस्रपात् ॥ १५४॥

सहस्रमूर्धा देवेन्द्रः सर्वदेवमयो गुरुः ।
सहस्रबाहुः सर्वाङ्गः शरण्यः सर्वलोककृत् ॥ १५५॥

पवित्रं त्रिमधुर्मन्त्रः कनिष्ठः कृष्णपिङ्गलः ।
ब्रह्मदण्डविनिर्माता शतघ्नः शतपाशधृक् ॥ १५६॥

कला काष्ठा लवो मात्रा मुहूर्तोहः क्षपा क्षणः ।
विश्वक्षेत्रप्रदो बीजं लिङ्गमाद्यस्तु निर्मुखः ॥ १५७॥

सदसद्व्यक्तमव्यक्तं पिता माता पितामहः ।
स्वर्गद्वारं मोक्षद्वारं प्रजाद्वारं त्रिविष्टपः ॥ १५८॥

निर्वाणं हृदयश्चैव ब्रह्मलोकः परा गतिः ।
देवासुरविनिर्माता देवासुरपरायणः ॥ १५९॥

देवासुरगुरुर्देवो देवासुरनमस्कृतः ।
देवासुरमहामात्रो देवासुरगणाश्रयः ॥ १६०॥

देवासुरगणाध्यक्षो देवासुरगणाग्रणीः ।
देवाधिदेवो देवर्षिर्देवासुरवरप्रदः ॥ १६१॥

देवासुरेश्वरो विष्णुर्देवासुरमहेश्वरः ।
सर्वदेवमयोऽचिन्त्यो देवताऽऽत्मा स्वयम्भवः ॥ १६२॥

उद्गतस्त्रिक्रमो वैद्यो वरदोऽवरजोऽम्बरः ।
इज्यो हस्ती तथा व्याघ्रो देवसिंहो महर्षभः ॥ १६३॥

विबुधाग्र्यः सुरश्रेष्ठः स्वर्गदेवस्तथोत्तमः ।
संयुक्तः शोभनो वक्ता आशानां प्रभवोव्ययः ॥ १६४॥

गुरुः कान्तो निजः सर्गः पवित्रः सर्ववाहनः ।
श‍ृङ्गी श‍ृङ्गप्रियो बभ्रू राजराजो निरामयः ॥ १६५॥

अभिरामः सुशरणो निरामः सर्वसाधनः ।
ललाटाक्षो विश्वदेहो हरिणो ब्रह्मवर्चसः ॥ १६६॥

स्थावराणां पतिश्चैव नियतेन्द्रियवर्तनः ।
सिद्धार्थः सर्वभूतार्थोऽचिन्त्यः सत्यः शुचिव्रतः ॥ १६७॥

व्रताधिपः परं ब्रह्म मुक्तानां परमा गातिः ।
विमुक्तो मुक्तकेशश्च श्रीमाञ्छ्रीवर्धनो जगत् ॥ १६८॥

यथाप्रधानं भगवानिति भक्त्या स्तुतो मया ।
भक्तिमेवं पुरुस्कृत्य मया यज्ञपतिर्विभुः ॥ १६९॥

ततो ह्यनुज्ञां प्राप्यैवं स्तुतो भक्तिमतां गतिः ।
तस्माल्लब्ध्वा स्तवं शम्भोर्नृपस्त्रैलोक्यविश्रुतः ॥ १७०॥

अश्वमेधसहस्रस्य फलं प्राप्य महायशाः ।
गणाधिपत्यं संप्राप्तस्तण्डिनस्तेजसा प्रभोः ॥ १७१॥

यः पठेच्छ्रुणुयाद्वापि श्रावयेद्ब्राह्मणानपि ।
अश्वमेधसहस्रस्य फलं प्राप्नोति वै द्विजाः ॥ १७२॥

ब्रह्मघ्नश्च सुरापश्च स्तेयश्च गुरुतल्पगः ।
शरणागतघाती च मित्रविश्वासघातकः ॥ १७३॥

मातृहा पितृहा चैव वीरहा भ्रूणहा तथा ।
संवत्सरं क्रमाज्जप्त्वा त्रिसन्ध्यं शङ्कराश्रमे ॥ १७४॥

दिवमिष्ट्वा त्रिसन्ध्यं च सर्वपापैः प्रमुच्यते ॥ १७५॥

इति श्रीलिङ्गमहापुराणे पूर्वभागे रुद्रसहस्रनामकथनं नाम
पञ्चषष्टित्तमोऽध्यायः ॥ ६५॥

Lingapuranam - pUrvabhAgaH adhyAyaH 6

अघिल्लो