KaryaVidhan

भौमस्तोत्रम्

Page 1 of 1

ॐ उदयभूधरशिखरकोटरचर दिवाकरसन्निभ
कुङ्कुमदहनविद्रुमललितपद्मदलाचलद्युते ।
ललिततुण्डविचित्रशिखण्डनकुलकुलाधिपवाहन
कुरु महीसुत सिद्धसुसेवितपादसरोज मयि कृपाम् ॥ १॥

ॐ मङ्गलो भूमिपुत्रश्च ऋणहर्ता धनप्रदः ।
स्थिरासनो महाकायः सर्वकर्मावबोधकः ॥ २॥ (स्थिरात्मजो)

लोहितो लोहिताङ्गश्च सामगायी कृपाकरः ॥ ३॥

धर्मराजः कुजो भौमो भूमिजो भूमिनन्दनः । (धरात्मजः कुजो)
अङ्गारको यमश्चैव सर्वरोगापहारकः ॥ ४॥

सृष्टिकर्ताऽपहर्ताच सर्वकामफलप्रदः । (वृष्टिकर्ताऽपहर्ताच)
भूतिदो ग्रहपूज्यश्च वक्रो रक्तवपुः प्रभुः ॥ ५॥

एतानि कुजनामानि यो नित्यं प्रयतः पठेत् ।
ऋणं न जायते तस्य धनं प्राप्नोत्यसंशयम् ॥ ६॥

रक्तपुष्पैश्च गन्धैश्च दीपधूपादिभिस्तथा ।
मङ्गलं पूजयित्वा तु मङ्गलेऽहनि सर्वदा ॥ ७॥

ऋणरेखाः प्रकर्तव्या दग्धाङ्गारैस्तदग्रतः ।
सप्तविंशतिनामानि पठित्वा तु तदन्तिके ॥ ८॥

ताश्च प्रमार्जयेत्पश्चाद्वामपादेन संस्पृशन् ।
एवं कृत्वा न सन्देहः ऋणहीनो धनी भवेत् ॥ ९॥

भूमिजस्य प्रसादेन ग्रहपीडा विनश्यति ।
येनार्जिता जगत्कीर्तिर्भूमिपुत्रेण शाश्वती ॥ १०॥

शत्रवश्च हता येन भौमेन महितात्मना ।
स प्रीयतां तु भौमोऽद्य तुष्टो भूयात्सदा मम ॥ ११॥

इति भौमस्तोत्रं सम्पूर्णम् ।