KaryaVidhan

चतुर्थाेध्याय

Page 1 of 1

(अप्रतिरथसूक्तम् ।)
हरि॑ ॐ
आ॒शुः शिशा॑नो वृष॒भो न भी॒मो घ॑नाघ॒नः क्षोभ॑णश्चर्षणी॒नाम् ।
सं॒क्रन्द॑नोऽनिमि॒ष ए॑कवी॒रः श॒तꣳ सेना॑ अजयत्सा॒कमिन्द्रः॑ ॥ १॥

सं॒क्रन्द॑नेनाऽनिमि॒षेण॑ जि॒ष्णुना॑ युत्का॒रेण॑ दुश्च्यव॒नेन॑ धृ॒ष्णुना॑ ।
तदिन्द्रे॑ण जयत॒ तत्स॑हध्वं॒ युधो॑ नर॒ इषु॑हस्तेन॒ वृष्णा॑ ॥ २॥

स इषु॑हस्तैः॒ स नि॑ष॒ङ्गिभि॑र्व॒शी सꣳस्र॑ष्टा॒ स युध॒ इन्द्रो॑ ग॒णेन॑ ।
स॒ꣳसृष्ट॒जित्सो॑म॒पा बा॑हुश॒र्ध्युग्रध॑न्वा॒ प्रति॑हिताभि॒रस्ता॑ ॥ ३॥

बृह॑स्पते॒ परि॑दीया॒ रथे॑न रक्षो॒हामित्रा॑ँ२ अप॒बाध॑मानः ।
प्र॒भ॒ञ्जन्त्सेनाः॑ प्रमृ॒णो यु॒धा जय॑न्न॒स्माक॑मेध्यवि॒ता रथा॑नाम् ॥ ४॥

ब॒ल॒वि॒ज्ञा॒यः स्थवि॑रः॒ प्रवी॑रः॒ सह॑स्वान्वा॒जी सह॑मान उ॒ग्रः ।
अ॒भिवी॑रो अ॒भिस॑त्वा सहो॒जा जै॑त्रमिन्द्र॒ रथ॒माति॑ष्ठ गो॒वित् ॥ ५॥

गो॒त्र॒भिदं॑ गो॒विदं॒ वज्र॑बाहुं॒ जय॑न्त॒मज्म॑ प्रमृ॒णन्त॒मोज॑सा ।
इ॒मꣳ स॑जाता॒ अनु॑ वीरयध्व॒मिन्द्र॑ꣳ सखायो॒ अनु॒ सꣳर॑भध्वम् ॥ ६॥

अ॒भि गो॒त्राणि॒ सह॑सा॒ गाह॑मानोऽद॒यो वी॒रः श॒तम॑न्यु॒रिन्द्रः॑ ।
दु॒श्च्य॒व॒नः पृ॑तना॒षाड॑यु॒ध्योऽस्माक॒ꣳ सेना॑ अवतु॒ प्र यु॒त्सु ॥ ७॥

इन्द्र॑ आसां ने॒ता बृह॒स्पति॒र्दक्षि॑णा य॒ज्ञः पु॒र ए॑तु॒ सोमः॑ ।
दे॒व॒से॒नाना॑मभिभञ्जती॒नां जय॑न्तीनां म॒रुतो॑ य॒न्त्वग्र॑म् ॥ ८॥

इन्द्र॑स्य॒ वृष्णो॒ वरु॑णस्य॒ राज्ञ॑ आदि॒त्यानां॑ म॒रुता॒ꣳ शर्ध॑ उ॒ग्रम् ।
म॒हाम॑नसां भुवनच्य॒वानां॒ घोषो॑ दे॒वानां॒ जय॑ता॒मुद॑स्थात् ॥ ९॥

उद्ध॑र्षय मघव॒न्नायु॑धा॒न्युत्सत्व॑नां माम॒कानां॒ मना॑ꣳसि ।
उद्वृ॑त्रहन्वा॒जिनां॒ वाजि॑ना॒न्युद्रथा॑नां॒ जय॑तां यन्तु॒ घोषाः॑ ॥ १०॥

अ॒स्माक॒मिन्द्रः॒ समृ॑तेषु ध्व॒जेष्व॒स्माकं॒ या इष॑व॒स्ता ज॑यन्तु ।
अ॒स्माकं॑ वी॒रा उत्त॑रे भवन्त्व॒स्माँ२ उ॑ देवा अवता॒ हवे॑षु ॥ ११॥

अ॒मीषां॑ चि॒त्तं प्र॑तिलो॒भय॑न्ती गृहा॒णाङ्गा॑न्यप्वे॒ परे॑हि ।
अ॒भि प्रेहि॒ निर्द॑ह हृ॒त्सु शोकै॑र॒न्धेना॒मित्रा॒स्तम॑सा सचन्ताम् ॥ १२॥

अव॑सृष्टा॒ परा॑पत॒ शर॑व्ये॒ ब्रह्म॑सꣳशिते ।
गच्छा॒मित्रा॒न्प्रप॑द्यस्व॒ मामीषाङ्कञ्चनोच्छि॑षः ॥ १३॥

प्रेता॒ जय॑ता नर॒ इन्द्रो॑ वः॒ शर्म॑ यच्छतु ।
उ॒ग्रा वः॑ सन्तु बा॒हवो॑ऽनाधृ॒ष्या यथास॑थ ॥ १४॥

असौ॒ या सेना॑ मरुतः॒ परे॑षाम॒भ्यैति॑ न॒ ओज॑सा॒ स्पर्ध॑माना ।
तां गू॑हत॒ तम॒साऽप॑व्रतेन॒ यथा॒मी अ॒न्यो अ॒न्यं न जा॒नन् ॥ १५॥

यत्र॑ बा॒णाः स॒म्पत॑न्ति कुमा॒रा वि॑शि॒खा इ॑व ।
तन्न॒ इन्द्रो॒ बृह॒स्पति॒रदि॑तिः॒ शर्म॑ यच्छतु वि॒श्वाहा॒ शर्म॑ यच्छतु ॥ १६॥

मर्मा॑णि ते॒ वर्म॑णा छादयामि॒ सोम॑स्त्वा॒ राजा॒ऽमृते॒नानु॑वस्ताम् ।
उ॒रोर्वरी॑यो॒ वरु॑णस्ते कृणोतु॒ जय॑न्तं॒ त्वानु॑ दे॒वा म॑दन्तु ॥ १७॥

इति रुद्रे तृतीयोऽध्यायः ॥ ३॥

अथ चतुर्थोऽध्यायः

(सौरसूक्तम् / सूर्यसूक्तम् / मित्रसूक्तम् / मैत्रसूक्तम् ।)
हरिः॑ ॐ
वि॒भ्राड्बृ॒हत्पि॑बतु सो॒म्यं मध्वायु॒र्दध॑द्य॒ज्ञप॑ता॒ववि॑ह्रुतम् ।
वात॑जूतो॒ यो अ॑भि॒रक्ष॑ति॒ त्मना॑ प्र॒जाः पु॑पोष पुरु॒धा वि रा॑जति ॥ १॥

उदु॒ त्यं जा॒तवे॑दसं दे॒वं व॑हन्ति के॒तवः॑ ।
दृ॒शे विश्वा॑य॒ सूर्य॑म् ॥ २॥

येना॑ पावक॒ चक्ष॑सा भुर॒ण्यन्तं॒ जनाँ॒२ ॥ अनु॑ ।
त्वं व॑रुण॒ पश्य॑सि ॥ ३॥

दैव्या॑वध्वर्यू॒ आग॑त॒ꣳ रथे॑न॒ सूर्य॑त्वचा । मध्वा॑ य॒ज्ञꣳ सम॑ञ्जाथे ।
तं प्र॒त्नथा॒ऽयं वे॒नश्चि॒त्रं दे॒वाना॑म् ॥ ४॥

तं प्र॒त्नथा॑ पू॒र्वथा॑ वि॒श्वथे॒मथा॑ ज्ये॒ष्ठता॑तिं बर्हि॒षद॑ꣳस्व॒र्विद॑म् ।
प्र॒ती॒ची॒नं वृ॒जनं॑ दोहसे॒ धुनि॑मा॒शुं जय॑न्त॒मनु॒ यासु॒ वर्ध॑से ॥ ५॥

अ॒यं वे॒नश्चो॑दय॒त्पृश्नि॑गर्भा॒ ज्योति॑र्जरायू॒ रज॑सो वि॒माने॑ ।
इ॒मम॒पाꣳस॑ङ्ग॒मे सूर्य॑स्य॒ शिशुं॒न विप्रा॑ म॒तिभी॑ रिहन्ति ॥ ६॥

चि॒त्रं दे॒वाना॒मुद॑गा॒दनी॑कं॒ चक्षु॑र्मि॒त्रस्य॒ वरु॑णस्या॒ग्नेः ।
आप्रा॒ द्यावा॑पृथि॒वी अ॒न्तरि॑क्षꣳ सूर्य॑ आ॒त्मा जग॑तस्त॒स्थुष॑श्च ॥ ७॥

आ न॒ इडा॑भिर्वि॒दथे॑ सुश॒स्ति वि॒श्वान॑रः सवि॒ता दे॒व ए॑तु ।
अपि॒ यथा॑ युवानो॒ मत्स॑था नो॒ विश्वं॒ जग॑दभिपि॒त्वे म॑नी॒षा ॥ ८॥

यद॒द्य कच्च॑ वृत्रहन्नु॒दगा॑ अ॒भि सू॑र्य ।
सर्वं॒ तदि॑न्द्र ते॒ वशे॑ ॥ ९॥

त॒रणि॑र्वि॒श्वद॑र्शतो ज्योति॒ष्कृद॑सि सूर्य ।
विश्व॒मा भा॑सि रोच॒नम् ॥ १०॥

तत्सूर्य॑स्य देव॒त्वं तन्म॑हि॒त्वं म॒ध्या कर्तो॒र्वित॑त॒ꣳ सं ज॑भार ।
य॒देदयु॑क्त ह॒रितः॑ स॒धस्था॒दाद्रात्री॒ वास॑स्तनुते सि॒मस्मै॑ ॥ ११॥

तन्मि॒त्रस्य॒ वरु॑णस्याभि॒चक्षे॒ सूर्यो॑ रू॒पं कृ॑णुते॒ द्योरु॒पस्थे॑ ।
अ॒न॒न्तम॒न्यद्रुश॑दस्य॒ पाजः॑ कृ॒ष्णम॒न्यद्ध॒रितः॒ सं भ॑रन्ति ॥ १२॥

बण्म॒हाँ२ ॥ अ॑सि सूर्य॒ बडा॑दित्य म॒हाँ२ ॥ अ॑सि ।
म॒हस्ते॑ स॒तो म॑हि॒मा प॑नस्यते॒ऽद्धा दे॑व म॒हाँ२ ॥ अ॑सि ॥ १३॥

बट् सू॑र्य॒ श्रव॑सा म॒हाँ२ ॥ अ॑सि । स॒त्रा दे॑व म॒हाँ२ ॥ अ॑सि ।
म॒ह्ना दे॒वाना॑मसु॒र्यः॒ पु॒रोहि॑तो वि॒भु ज्योति॒रदा॑भ्यम् ॥ १४॥

श्राय॑न्त इव॒ सूर्यं॒ विश्वेदिन्द्र॑स्य भक्षत ।
वसू॑नि जा॒ते जन॑मान॒ ओज॑सा॒ प्रति॑ भा॒गं न दी॑धिम ॥ १५॥

अ॒द्या दे॑वा॒ उदि॑ता॒ सूर्य॑स्य॒ निरꣳह॑सः पिपृ॒ता निर॑व॒द्यात् ।
तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तिः॒ सिन्धुः॑ पृथि॒वी उ॒त द्यौः ॥ १६॥

आ कृ॒ष्णेन॒ रज॑सा॒ वर्त॑मानो निवे॒शय॑न्न॒मृतं॒ मर्त्यं॑ च ।
हि॒र॒ण्यये॑न सवि॒ता रथे॒ना दे॒वो या॑ति॒ भुव॑नानि॒ पश्य॑न् ॥ १७॥

इति रुद्रे चतुर्थोऽध्यायः ॥ ४॥