अथ स्वस्तिप्रार्थनामन्त्रः
अथ स्वस्तिप्रार्थनामन्त्रः ।
हरिः॑ ॐ
ॐ
स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः ।
स्व॒स्ति नः॑ पू॒षा वि॒श्ववे॑दाः ।
स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः ।
स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु ॥ १॥
ॐ
पयः॑ पृथि॒व्यां पय॒ ओष॑धीषु॒ पयो॑ दि॒व्यन्तरि॑क्षे॒ पयो॑ धाः ।
पय॑स्वतीः प्र॒दिशः॑ सन्तु॒ मह्य॑म् ॥ २॥
ॐ
विष्णो॑ र॒राट॑मसि॒ विष्णोः॒ श्नप्त्रे॑ स्थो विष्णोः॒ स्यूर॑सि॒ विष्णो॑र्ध्रु॒वो॒ऽसि ।
वै॒ष्ण॒वम॑सि॒ विष्ण॑वे त्वा ॥ ३॥
ॐ
अ॒ग्निर्दे॒वता॒ वातो॑ दे॒वता॒ सूर्यो॑ दे॒वता॑ च॒न्द्रमा॑ दे॒वता॒ वस॑वो दे॒वता॑
रु॒द्रा दे॒वता॑दि॒त्या दे॒वता॑ म॒रुतो॑ दे॒वता॒ विश्वे॑दे॒वा देवता॒
बृह॒स्पति॑र्दे॒वतेन्द्रो॑ दे॒वता॒ वरु॑णो दे॒वता॑ ॥ ४॥
ॐ
स॒द्योजा॒तं प्र॑पद्या॒मि॒ स॒द्योजा॒ताय॒ वै नमो॒ नमः॑ ।
भ॒वे भ॑वे॒ नाति॑भवे भवस्व॒ माम् ।
भ॒वोद्भ॑वाय॒ नमः॑ ॥ ५॥
वा॒म॒दे॒वाय॒ नमो॑ ज्ये॒ष्ठाय॒ नमः॑ श्रे॒ष्ठाय॒ नमो॑ रु॒द्राय॒ नमः॒
काला॑य नमः॒ कल॑विकरणाय॒ नमो॒ बल॑विकरणाय॒ नमो॒
बला॑य॒ नमो॒ बल॑प्रमथनाय॒ नमः॒ सर्व॑भूतदमनाय॒ नमो॑
म॒नोन्म॑नाय॒ नमः॒ ॥ ६॥
अ॒घोरे॑भ्योऽथ॒ घोरे॑भ्यो॒ घोर॒घोर॑तरेभ्यः ।
स॒र्वेभ्यः सर्व॒ श॑र्वेभ्यो॒ नम॑स्तेऽस्तु रु॒द्ररू॑पेभ्यः ॥ ७॥
(स॒र्वतः॑ शर्व॒ सर्वे॑भ्यो॒)
तत्पुरु॑षाय वि॒द्महे॑ महादे॒वाय॑ धीमहि ।
तन्नो॑ रुद्रः प्रचो॒दया॑त् ॥ ८॥
ईशानस्सर्व॑विद्या॒ना॒मीश्वरः सर्व॑भूता॒नां॒ ।
ब्रह्माधि॑पति॒र्ब्रह्म॒णोऽधि॑पति॒र्ब्रह्मा॑ शि॒वो मे॑ऽस्तु सदाशि॒वोम् ॥ ९॥
ॐ
शि॒वो नामा॑सि॒ स्वधि॑तिस्ते पि॒ता नम॑स्ते अस्तु॒ मा मा॑ हिꣳसीः ।
निव॑र्तयाम्यायु॑षे॒ऽन्नाद्या॑य॒ प्रजन॑नाय रा॒यस्पोषा॑य सुप्रजा॒स्त्वाय॑ सु॒वीर्या॑य ॥ १०॥
ॐ
विश्वा॑नि देव सवितर्दुरि॒तानि॒ परासुव ।
यद्भ॒द्रं तन्न॒ आसुव ॥ ११॥
ॐ
द्यौः शान्ति॑र॒न्तरि॑क्ष॒ꣳ शान्तिः॑ पृथि॒वी शान्ति॒रापः॒ शान्ति॒रोष॑धयः॒ शान्तिः॑ ।
वन॒स्पत॑यः॒ शान्ति॒र्विश्वे॑दे॒वाः शान्ति॒र्ब्रह्म॒ शान्तिः॒ सर्व॒ꣳ शान्तिः॒ शान्ति॑रे॒व शान्तिः॒ सा मा॒ शान्ति॑रेधि ॥ १२॥
ॐ
सर्वेषां वा एष वेदानाꣳरसो यत्सामः ।
सर्वेषामेवैनमेतद् वेदानाꣳ रसेनाभिषिञ्चति ॥ १३॥
ॐ
शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥
अनेन श्री रुद्राभिषेककर्मणा श्री भवानीशङ्कर महारुद्राः प्रीयतां न मम ।
इति श्रीशुक्लयजुर्वेदीय रुद्राष्टाध्यायी समाप्ता ।
॥ ॐ साम्ब सदाशिवार्पणमस्तु ॥