KaryaVidhan

स्वस्तिवाचनम्

Page 1 of 1

ॐ स्वस्ति नो मिमीतामश्विना भगः स्वस्ति देव्यदितिरनर्वणः।
स्वस्ति पूषाऽअसुरो दधातु नः स्वस्ति द्यावापृथिवी सुचेतुना॥
स्वस्तये वायुमुपब्रवामहै सोमं स्वस्ति भुवनस्य यस्पतिः।
बृहस्पति8सर्वगण&स्वस्तये स्वस्तयऽआदित्यासो भवन्तु नः ॥
विश्वेदेवा नोऽअद्या स्वस्तये वैश्वानरो वसुरग्निः स्वस्तये।
देवाऽअवन्त्वृभवः स्वस्तये स्वस्ति नो रुद्रः पात्वछहसः ॥
स्वस्ति मित्राव्वरुणा स्वस्ति पथ्ये रेवति।
स्वस्ति नऽइन्द्रश्चाग्निश्च स्वस्ति नोऽअदिते कृधि॥
स्वस्ति पन्थामनुचरेम सूर्याचन्द्रमसाविव।
पुनर्ददताघ्नता जानता सङ्गमेमहि॥
स्वस्त्ययनं तार्क्ष्यमरिष्टनेमिं महद्भूतं वायसं देवतानाम्।
असुरघ्नमिन्द्रसखं समत्सु बृहद्यशो नावमिवारुहेम।
अछ्होमुचमाङि्गरसं गयं च स्वस्त्यात्रेयं मनसा च तार्क्ष्यम्।
प्रयतपाणिः शरणं प्रपद्ये स्वस्ति संबाधेष्वभयं नोऽअस्तु॥
ततः 'आशुः शिशानः' इति समग्रं पठेत्।
इति स्वस्तिवाचनमन्त्रान् पठन् रङ्गवल्लीं रचयेत्।