KaryaVidhan

पञ्च भूसंस्काराः

Page 1 of 1

(क) पञ्च भूसंस्काराः
१. परिसमूहनम् २. उपलेपनम् ३. उल्लेखनम् ४. उद्धरणम् ५. अभ्युक्षणम्

भूरसीति भूमिशोधनम् -
ॐ भूरसि भूमिरस्यदितिरसि व्विश्वधाया व्विश्वस्य भुवनस्य धर्त्री। पृथिवीं यच्छ पृथिवीन्दृ गूँ ह पृथिवीं मा हि गूँ सीः ॥
अश्मा च म इति मृत्तिकास्थापनम् -
ॐ अश्मा च मे मृत्तिका च मे गिरयश्च मे पर्वताश्च मे सिकताश्च मे व्वनस्पतयश्च मे
हिरण्यञ्च मेऽयश्च मे श्यामञ्च मे लोहञ्च मे सीसञ्च मे त्रपु च मे यज्ञेन कल्पन्ताम्॥

एषवस्तोम इति दर्भग्रहणम् -
ॐ एषवस्तोमो मरुतऽइयङ्गीर्म्मान्दाय्यस्य मान्यस्य कारोः। एषायासीष्ट तन्वे वयां विद्यामेषं वृजनञ्जीरदानुम्।

यद्देवेति दर्भैः परिसमूहनम् -
ॐ यद्देवा देवहेडनं देवासश्चकृमा व्वयम्। अग्निर्म्मा तस्मादेनसो व्विश्वान् मुञ्चत्व8हसः॥

मानस्तोक इति गोमयेन उपलेपनम् -
ॐ मानस्तोके तनये मानऽआयुषि मानो गोषु मानोऽअश्वेषु रीरिषः। मानो वीरान् रुद्रभामिनो वधीर्हविष्मन्तः सदमित्त्वा हवामहे॥
त्वामिद्धीति स्फ्येन स्रुवेण वा उल्लेखनम् -
ॐ त्वामिद्धि हवामहे सातौ व्वाजस्य कारवः। त्वां वृत्रेष्विन्द्र सत्पतिं नरस्त्वां काष्ठास्वर्व्वतः॥

प्रथमा द्वितीयैरित्यादिभिः प्रागग्रमुदक्संस्थं रेखात्रयं खादिरेण हस्तमात्रेण खड्गाकृतिना स्फ्येन
स्रुवमुलेन वा कुर्यात्।
ॐ प्रथमा द्वितीयैर्द्वितीयास्तृतीयैस्तृतीयाः सत्येन सत्यं यज्ञेन यज्ञो यजुर्भिर्यजूषि
सामभिः सामान्युग्भिर्ऋ्चः पुरोनुवाक्याभिः पुरोनुवाक्या याज्ज्याभिर्याज्ज्या व्वषट्कारैर्व्वषट्काराSआहुतीभिराहुतयो मे कामान्त्समर्द्धयन्तु भू: स्वाहा ॥

ॐ दक्षिणामारोह त्रिष्टुप्त्वावतु बृहत्साम पञ्चदशस्तोमो ग्रीष्मSऋतुः क्षत्रं द्रविणम्॥
ॐ प्रतीचीमारोह जगती त्वावतु व्वैरूप गूँ साम सप्तदशस्तोमो वर्षाऋतुर्विड् द्रविणम्।
ॐ उदीचीमारोहानुष्टुप्त्वावतु व्वैराज&सामैकवि शस्तोमः शरदृतुः फलं द्रविणम्॥
सदसस्पतिमिति अनामिकाङ्गुष्ठाभ्यां यथोल्लिखिताभ्यो रेखाभ्यस्त्रिरुद्धरणम् -
ॐ सदसस्पतिमद्भुतं प्रियमिन्द्रस्य काम्यम्। सनिम्मेधा मयासिषस्वाहा॥

व्रतडकृणुतेति वेद्यां स्रुवेणोद्धृतपांसूननामिकाङ्गुष्ठाभ्यामुद्धत्य तानैशान्यां क्षिपेत्।

ॐ व्वतङ्कृणुत व्वतङ्कृणुताग्निर्ब्रह्माग्निर्यज्ञाे व्वनस्पतिर्यज्ञियः। दैवीन्धियं मनामहे
सुमृडीकामभिष्टये वर्चोधां यज्ञवाहस&सुतीर्थानोSअसद्वशे। ये देवा मनो जाता मनो
युजो दक्षक्रतवस्तेनोऽवन्तु ते नः पान्तु तेभ्यः स्वाहा ॥

शन्नोदेवीरिति अभ्युक्षणम् -

ॐ शत्नो देवीरभिष्टयऽआपो भवन्तु पीतये। शं योरभिसवन्तु नः॥
॥ इति पञ्च भूसंस्काराः ॥