KaryaVidhan

कर्मपात्रनिर्माणविधि:

Page 1 of 1

(हात पञ्चगव्यप्राशनावाव:)

कर्मपात्रनिर्माणविधि:
आदौ कर्मपात्रं विधाय तत्कुशप्रयोगपूर्वकमेव कर्म कर्तव्यमिति सर्वकर्मादौ कर्मपात्रनिर्माण-
विधि: प्रस्तूयते, तद्यथा -
ॐ यद्देवा देवहेडनन्देवासश्चकृमा व्वयम्।
अग्निर्म्मा तस्मादेनसो व्विश्वान्मुञ्चत्व8 हसः॥
ॐ यदि दिवा यदि नक्तमेनासि चकमा व्वयम्।
वायुर्मा तस्मादेनसो व्विश्वान्मुञ्चत्व8 हसः॥
ॐ यदि जाग्रददि स्वप्नऽएनासि चकमा व्वयम्।
सूर्ठ्यो मा तस्मादेनसो व्विश्वान्मुञ्चत्व8 हसः॥
ॐ पवित्रे स्थो व्वैष्णव्यौ सवितुर्व्वः प्रसवऽउत्पुनाम्यच्छिद्रेण पवित्रेण सूर्ठ्यस्य रश्मिभिः।
देवीरापोऽअग्रेगुवोऽअग्रेपुवोग्रSइममद्य यज्ञन्नयताग्रे यज्ञपति&सुधातुं यज्ञपतिन्देवयुवम्।
इति मन्त्रेण कर्मपात्रे पवित्रं क्षिपेत्
ॐ शन्नो देवीरभिष्टयऽआपो भवन्तु पीतये। शं योरभिस्स्रवन्तु नः ॥ इति जलम्
ॐ गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम्। ईश्वरीं सर्व्वभूतानां तामिहोपह्वये श्रियम्॥
इति गन्धम्
ॐ अक्षन्नमीमदन्त ह्यवप्रियाऽअधूषत। अस्तोषत स्वभानवो विप्रा नविष्ठया मती योजान्विन्द्र ते
हरी।।
ॐ यवोसि यवयास्मद्द्वेषो यवयारातीर्दिवे त्वान्तरिक्षाय त्वा पृथिव्यै त्वा। शुन्धन्तांल्लोकाः
पितृषदनाः पितृषदनमसि॥
इति यवान्
ॐ तिलोऽसि सोमदैवत्यो गोसवो देवनिर्मितः। प्रत्नमद्भिः पृक्तः स्वधया पित्ंल्लोकान् प्रिणाहि
नः ॥
इति तिलान्
ॐ श्रीश्च ते लक्ष्मीश्चपत्कन्यावहोरात्रे पार्श्वे नक्षत्राणि रूपमश्विनौ व्यात्तम्
इष्णन्निषाणामुम्मऽइषाण सर्व्वलोकम्मऽइषाण ॥
इति पुष्पं क्षिपेत्
ततः कुशत्रयसहितं कर्मपात्रोदकमादाय -
ॐ अपवित्रः पवित्रो वा सर्वावस्थाङ्गतोऽपि वा।
यः स्मरेत्पुण्डरीकाक्षं स बाहयाभ्यन्तरः शुचिः॥
ॐ पुण्डरीकाक्षः पुनातु। ॐ पुण्डरीकाक्षः पुनातु। ॐ पुण्डरीकाक्षः पुनातु।
इति पूजाद्रव्याणि आत्मानञ्च सिञ्चेत्।
॥। इति कर्मपात्रनिर्माणविधिः ॥