हाेमविधि
पञ्चगव्यप्राशनविधि
श्रीमङ्गलमूर्तये नमः
नमः कर्मात्मने तस्मै ब्रह्मणे जगदात्मने।
नम आस्याय देवानां वैश्वानरस्वरूपिणे॥
पञ्चगव्यप्राशनविधि
जाताS5शौचान्ते मृताशौचान्ते तथा उपाकर्मकोटिहोमसप्ताहादिनैमित्तिकशुभकर्मारम्भे च
शरीरशुद्धयर्थं पञ्चगव्यप्राशनस्यावश्यकत्वादत्र प्रस्तूयते। तद्यथा -
पञ्चगव्यं पवित्रं तु आहरेत्ताम्रभाजने।
गायत्र्या चैव गोमूत्रं गन्धद्वारेति गोमयम्॥
आप्यायस्वेति च क्षीरं दधिक्राब्णोति वै दधि।
तेजोसि शुक्रमित्याज्यं देवस्यत्वा कुशोदकम्।
- कृत्यकल्पतरौ
पञ्चगव्यसम्मेलनमन्त्रा: -
ॐ तत्सवितु ... ... इत्यनेन गोमूत्रम्,
ॐ गन्धद्वारान्दुराधर्षां नित्यपुष्टां करीषिणीम्।
ईश्वरीं सर्वभूतानां तामिहोपहये श्रियम्॥ इत्यनेन गोमयम्।
ॐ आप्यायस्व समेतु ते विश्वतः सोम वृष्ण्यम्।
भवा वाजस्य सङ्गथे॥ इत्यनेन क्षीरम्।
ॐ दधिक्राब्णोऽ अकारिषन्जिष्णोरश्वस्य वाजिनः।
सुरभिनो मुखाकरत्प्रणऽ आयू षि तारिषत् ॥ इत्यनेन दधि।
ॐ तेजोसि शुक्रमस्यमृतमसि धामनामासि।
प्रियं देवाना मना धृष्टन्देवयजनमसि ॥ इत्यनेन आज्यम्।
ॐ देवस्यत्वा सवितुः प्रसवेश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्याम्।
अग्नये जुष्टं गृहणाम्यग्नीषोमाभ्याञ्जुष्टं गृहणामि॥ इत्यनेन कुशोदकम्।
ततो गायत्रीमन्त्रेण दशवारं सम्मन्त्र्य प्राशयेदनेन मन्त्रेण -
पञ्चगव्यप्राशनमन्त्र: -
ॐ यत्त्वगस्थिगतं पापं देहे तिष्ठति मामके।
प्राशनात्पञ्चगव्यस्य दहत्वग्निरिवेन्धनम्॥
(इति पञ्चगव्यप्राशनविधिः)