श्रीकुमारीसहस्रनामस्तोत्रम्
नवपुष्पसुगन्धिका ।
नन्दनस्था नन्दकन्या नन्दमोक्षप्रदायिनी ॥ १०९॥
नमिता नामभेदा च नाम्नार्त्तवनमोहिनी ।
नवबुद्धिप्रियानेका नाकस्था नामकन्यका ॥ ११०॥
निन्दाहीना नवोल्लासा नाकस्थानप्रदायिनी ।
निम्बवृक्षस्थिता निम्बा नानावृक्षनिवासिनी ॥ १११॥
नाश्यातीता नीलवर्णा नीलवर्णा सरस्वती ।
नभःस्था नायकप्रीता नायकप्रियकामिनी ॥ ११२॥
नैववर्णा निराहारा निवीहाणां रजःप्रिया ।
निम्ननाभिप्रियाकारा नरेन्द्रहस्तपूजिता ॥ ११३॥
नलस्थिता नलप्रीता नलराजकुमारिका ।
परेश्वरी परानन्दा परापरविभेदिका ॥ ११४॥
परमा परचक्रस्था पार्वती पर्वतप्रिया ।
पारमेशी पर्वनाना पुष्पमाल्यप्रिया परा ॥ ११५॥
परा प्रिया प्रीतिदात्री प्रीतिः प्रथमकामिनी ।
प्रथमा प्रथमा प्रीता पुष्पगन्धप्रिया परा ॥ ११६॥
पौष्यी पानरता पीना पीनस्तनसुशोभना ।
परमानरता पुंसां पाशहस्ता पशुप्रिया ॥ ११७॥
पललानन्दरसिका पलालधूमरूपिणी ।
पलाशपुष्पसङ्काशा पलाशपुष्पमालिनी ॥ ११८॥
प्रेमभूता पद्ममुखी पद्मरागसुमालिनी ।
पद्ममाला पापहरा पतिप्रेमविलासिनी ॥ ११९॥
पञ्चाननमनोहारी पञ्चवक्त्रप्रकाशिनी ।
फलमूलाशना फाली फलदा फाल्गुनप्रिया ॥ १२०॥
फलनाथप्रिया फल्ली फल्गुकन्या फलोन्मुखी ।
फेत्कारीतन्त्रमुख्या च फेत्कारगणपूजिता ॥ १२१॥
फेरवी फेरवसुता फलभोगोद्भवा फला ।
फलप्रिया फलाशक्ता फाल्गुनानन्ददायिनी ॥ १२२॥
फालभोगोत्तरा फेला फुलाम्भोजनिवासिनी ।
वसुदेवगृहस्था च वासवी वीरपूजिता ॥ १२३॥
विषभक्षा बुधसुता ब्लुङ्कारी ब्लूवरप्रदा ।
ब्राह्मी बृहस्पतिसुता वाचस्पतिवरप्रदा ॥ १२४॥
वेदाचारा वेद्यपरा व्यासवक्त्रस्थिता विभा ।
बोधज्ञा वौषडाख्या च वंशीवंदनपूजिता ॥ १२५॥
वज्रकान्ता वज्रगतिर्बदरीवंशविवद्धीनी ।
भारती भवरश्रीदा भवपत्नी भवात्मजा ॥ १२६॥
भवानी भाविनी भीमा भिषग्भार्या तुरिस्थिता ।
भूर्भुवःस्वःस्वरूपा च भृशार्त्ता भेकनादिनी ॥ १२७॥
भौती भङ्गप्रिया भङ्गभङ्गहा भङ्गहारिणी ।
भर्ता भगवती भाग्या भगीरथनमस्कृता ॥ १२८॥
भगमाला भूतनाथेश्वरी भार्गवपूजिता ।
भृगुवंशा भीतिहरा भूमिर्भुजगहारिणी ॥ १२९॥
भालचन्द्राभभल्वबाला भवभूतिवीभूतिदा ।
मकरस्था मत्तगतिर्मदमत्ता मदप्रिया ॥ १३०॥
मदिराष्टादशभुजा मदिरा मत्तगामिनी ।
मदिरासिद्धिदा मध्या मदान्तर्गतिसिद्धिदा ॥ १३१॥
मीनभक्षा मीनरूपा मुद्रामुद्गप्रिया गतिः ।
मुषला मुक्तिदा मूर्त्ता मूकीकरणतत्परा ॥ १३२॥
मृषार्त्ता मृगतृष्णा च मेषभक्षणतत्परा ।
मैथुनानन्दसिद्धिश्च मैथुनानलसिद्धिदा ॥ १३३॥
महालक्ष्मीर्भैरवी च महेन्द्रपीठनायिका ।
मनःस्था माधवीमुख्या महादेवमनोरमा ॥ १३४॥
यशोदा याचना यास्या यमराजप्रिया यमा ।
यशोराशिविभूषाङ्गी यतिप्रेमकलावती ॥ १३५॥
रमणी रामपत्नी च रिपुहा रीतिमध्यगा ।
रुद्राणी रूपदा रूपा रूपसुन्दरधारिणी ॥ १३६॥
रेतःस्था रेतसः प्रीता रेतःस्थाननिवासिनी ।
रेन्द्रादेवसुतारेदा रिपुवर्गान्तकप्रिया ॥ १३७॥
रोमावलीन्द्रजननी रोमकूपजगत्पतिः ।
रौप्यवर्णा रौद्रवर्णा रौप्यालङ्कारभूषणा ॥ १३८॥
रङ्गिणा रङ्गरागस्था रणवह्निकुलेश्वरी ।
लक्ष्मीः लाङ्गलहस्ता च लाङ्गली कुलकामिनी ॥ १३९॥
लिपिरूपा लीढपादा लतातन्तुस्वरूपिणी ।
लिम्पती लेलिहा लोला लोमशप्रियसिद्धिदा ॥ १४०॥
लौकिकी लौकिकीसिद्धिर्लङ्कानाथकुमारिका ।
लक्ष्मणा लक्ष्मीहीना च लप्रिया लार्णमध्यगा ॥ १४१॥
विवसा वसनावेशा विवस्यकुलकन्यका ।
वातस्था वातरूपा च वेलमध्यनिवासिनी ॥ १४२॥
श्मशानभूमिमध्यस्था श्मशानसाधनप्रिया ।
शवस्था परसिद्ध्यर्थी शववक्षसि शोभिता ॥ १४३॥
शरणागतपाल्या च शिवकन्या शिवप्रिया ।
षट्चक्रभेदिनी षोढा न्यासजालदृढानना ॥ १४४॥
सन्ध्यासरस्वती सुन्द्या सूर्यगा शारदा सती ।
हरिप्रिया हरहालालावण्यस्था क्षमा क्षुधा ॥ १४५॥
क्षेत्रज्ञा सिद्धिदात्री च अम्बिका चापराजिता ।
आद्या इन्द्रप्रिया ईशा उमा ऊढा ऋतुप्रिया ॥ १४६॥
सुतुण्डा स्वरबीजान्ता हरिवेशादिसिद्धिदा ।
एकादशीव्रतस्था च एन्द्री ओषधिसिद्धिदा ॥ १४७॥
औपकारी अंशरूपा अस्त्रबीजप्रकाशिनी ।
इत्येतत् कामुकीनाथ कुमारीणां सुमङ्गलम् ॥ १४८॥
त्रैलोक्यफलदं नित्यमष्टोत्तरसहस्रकम् ।
महास्तोत्रं धर्मसारं धनधान्यसुतप्रदम् ॥ १४९॥
सर्वविद्याफलोल्लासं भक्तिमान् यः पठेत् सुधीः ।
स सर्वदा दिवारात्रौ स भवेन्मुक्तिमार्गगः ॥ १५०॥
सर्वत्र जयमाप्नोति वीराणां वल्लभो लभेत् ।
सर्वे देवा वशं यान्ति वशीभूताश्च मानवाः ॥ १५१॥
ब्रह्माण्डे ये च शंसन्ति ते तुष्टा नात्र संशयः ।
ये वशन्ति च भूर्लोके देवतुल्यपराक्रमाः ॥ १५२॥
ते सर्वे भृत्यतुल्याश्च सत्यं सत्यं कुलेश्वर ।
अकस्मात् सिद्धिमाप्नोति होमेन यजनेन च ॥ १५३॥
जाप्येन कवचाद्येन महास्तोत्रार्थपाठतः ।
विना यज्ञैवीना दानैवीना जाप्यैर्लभेत् फलम् ॥ १५४॥
यः पठेत् स्तोत्रकं नाम चाष्टोत्तरसहस्रकम् ।
तस्य शान्तिर्भवेत् क्षिप्रं कन्यास्तोत्रं पठेत्ततः ॥ १५५॥
वारत्रयं प्रपाठेन राजानं वशमानयेत् ।
वारैकपठितो मन्त्री धर्मार्थकाममोक्षभाक् ॥ १५६॥
त्रिदिनं प्रपठेद्विद्वान् यदि पुत्रं समिच्छति ।
वारत्रयक्रमेणैव वारैकक्रमतोऽपि वा ॥ १५७॥
पठित्त्वा धनरत्नानामधिपः सर्ववित्तगः ।
त्रिजगन्मोहयेन्मन्त्री वत्सरार्द्धं प्रपाठतः ॥ १५८॥
वत्सरं वाप्य यदि वा भक्तिभावेन यः पठेत् ।
चिरजीवी खेचरत्त्वं प्राप्य योगी भवेन्नरः ॥ १५९॥
महादूरस्थितं वर्णं पश्यति स्थिरमानसः ।
महिलामण्डले स्थित्त्वा शक्तियुक्तः पठेत् सुधीः ॥ १६०॥
स भवेत्साधकश्रेष्ठः क्षीरी कल्पद्रुमो भवेत् ।
सर्वदा यः पठेन्नाथ भावोद्गतकलेवरः ॥ १६१॥
दर्शनात् स्तम्भनं कर्त्तुं क्षमो भवति साधकः ।
जलादिस्तम्भने शक्तो वह्निस्तम्भादिसिद्धिभाक् ॥ १६२॥
वायुवेगी महावाग्मी वेदज्ञो भवति ध्रुवम् ।
कविनाथो महाविद्यो वन्धकः पण्डितो भवेत् ॥ १६३॥
सर्वदेशाधिपो भूत्त्वा देवीपुत्रः स्वयं भवेत् ।
कान्तिं श्रियं यशो वृद्धिं प्राप्नोति बलवान् यतिः ॥ १६४॥
अष्टसिद्धियुतो नाथ यः पठेदर्थसिद्धये ।
उज्जटेऽरण्यमध्ये च पर्वते घोरकानने ॥ १६५॥
वने वा प्रेतभूमौ च शवोपरि महारणे ।
ग्रामे भग्नगृहे वापि शून्यागारे नदीतटे ॥ १६६॥
गङ्गागर्भे महापीठे योनिपीठे गुरोर्गृहे ।
धान्यक्षेत्रे देवगृहे कन्यागारे कुलालये ॥ १६७॥
प्रान्तरे गोष्ठमध्ये वा राजादिभयहीनके ।
निर्भयादिस्वदेशेषु शिवलिङ्गालयेऽथवा ॥ १६८॥
भूतगर्त्ते चैकलिङ्गै वा शून्यदेशे निराकुले ।
अश्वत्थमूले बिल्वे वा कुलवृक्षसमीपगे ॥ १६९॥
अन्येषु सिद्धदेशेषु कुलरूपाश्च साधकः ।
दिव्ये वा वीरभावस्थो यष्ट्वा कन्यां कुलाकुलै ॥ १७०॥
कुलद्रव्यैश्च विविधैः सिद्धिद्रव्यैश्च साधकः ।
मांसासवेन जुहुयान्मुक्तेन रसेन च ॥ १७१॥
हुतशेषं कुलद्रव्यं ताभ्यो दद्यात् सुसिद्धये ।
तासामुच्छिष्टमानीय जुहुयाद् रक्तपङ्कजे ॥ १७२॥
घृणालज्जाविनिर्मुक्तः साधकः स्थिरमानसः ।
पिबेन्मांसरसं मन्त्री सदानन्दो महाबली ॥ १७३॥
महामांसाष्टकं ताभ्यो मदिराकुम्भपूरितम् ।
तारो माया रमावह्निजायामन्त्रं पठेत् सुधीः ॥ १७४॥
निवेद्य विधिनानेन पठित्त्वा स्तोत्रमङ्गलम् ।
स्वयं प्रसादं भुक्त्वा हि सर्वविद्याधिपो भवेत् ॥ १७५॥
शूकरस्योष्ट्र्मांसेन पीनमीनेन मुद्रया ।
महासवघटेनापि दत्त्वा पठति यो नरः ॥ १७६॥
ध्रुवं स सर्वगामी स्याद् विना होमेन पूजया ।
रुद्ररूपो भवेन्नित्यं महाकालात्मको भवेत् ॥ १७७॥
सर्वपुण्यफलं नाथ क्षणात् प्राप्नोति साधकः ।
क्षीराब्धिरत्नकोषेशो वियद्व्यापी च योगिराट् ॥ १७८॥
भक्त्याह्लादं दयासिन्धुं निष्कामत्त्वं लभेद् ध्रुवम् ।
महाशत्रुपातने च महाशत्रुभयाद्दीते ॥ १७९॥
वारैकपाठमात्रेण शत्रूणां वधमानयेत् ।
समर्दयेत् शत्रून् क्षिप्रमन्धकारं यथा रविः ॥ १८०॥
उच्चाटने मारणे च भये घोरतरे रिपौ ।
पठनाद्धारणान्मर्त्त्यो देवा वा राक्षसादयः ॥ १८१॥
प्राप्नुवन्ति झटित् शान्तिं कुमारीनामपाठतः ।
पुरुषो दक्षिणे बाहौ नारी वामकरे तथा ॥ १८२॥
धृत्वा पुत्रादिसम्पत्तिं लभते नात्र संशयः ॥ १८३॥
ममाज्ञया मोक्षमुपैति साधको
गजान्तकं नाथ सहस्रनाम च ।
पठेन्मनुष्यो यहि भक्तिभावत-
स्तदा हि सर्वत्र फलोदयं लभेत् च ॥ १८४॥
मोक्षं सत्फलभोगिनां स्तववरं सारं परानन्ददं
ये नित्यं हि मुदा पठन्ति विफलं सार्थञ्च चिन्ताकुलाः
ते नित्याः प्रभवन्ति कीतीकमले श्रीरामतुल्यो जये
कन्दर्पायुततुल्यरूपगुणिनः क्रोधे च रुद्रोपमाः ॥ १८५॥
॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने
कुमार्युपचर्याविन्यासे
सिद्धमन्त्र-प्रकरणे दिव्यभावनिर्णये
अष्टोत्तरसहस्रनाममङ्गलोल्लासे
दशमपटले श्रीकुमारीसहस्रनामस्तोत्रं सम्पूर्णम् ॥