श्रीबगलामुखीसहस्रनामस्तोत्रम्
।
सिद्धा सप्तस्वरी शुद्धा सुरमाता स्वरोत्तमा ॥ १०५॥
सिद्धविद्या सिधमाता सिद्धा सिद्धस्वरूपिणी ।
हरा हरिप्रिया हारा हरिणी हारयुक् तथा ॥ १०६॥
हरिरूपा हरिधारा हरिणाक्षी हरिप्रिया ।
हेतुप्रिया हेतुरता हिताहितस्वरूपिणी ॥ १०७॥
क्षमा क्षमावती क्षीता क्षुद्रघण्टाविभूषणा ।
क्षयङ्करी क्षितीशा च क्षीणमध्यसुशोभना ॥ १०८॥
अजानन्ता अपर्णा च अहल्याशेषशायिनी ।
स्वान्तर्गता च साधूनामन्तरानन्तरूपिणी ॥ १०९॥
अरूपा अमला चार्द्धा अनन्तगुणशालिनी ।
स्वविद्या विद्यकाविद्या विद्या चार्विन्दलोचना ॥ ११०॥
अपराजिता जातवेदा अजपा अमरावती ।
अल्पा स्वल्पा अनल्पाद्या अणिमासिद्धिदायिनी ॥ १११॥
अष्टसिद्धिप्रदा देवी रूपलक्षणसंयुता ।
अरविन्दमुखा देवी भोगसौख्यप्रदायिनी ॥ ११२॥
आदिविद्या आदिभूता आदिसिद्धिप्रदायिनी ।
सीत्काररूपिणी देवी सर्वासनविभूषिता ॥ ११३॥
इन्द्रप्रिया च इन्द्राणी इन्द्रप्रस्थनिवासिनी ।
इन्द्राक्षी इन्द्रवज्रा च इन्द्रमद्योक्षणी तथा ॥ ११४॥
ईला कामनिवासा च ईश्वरीश्वरवल्लभा ।
जननी चेश्वरी दीना भेदाचेश्वरकर्मकृत् ॥ ११५॥
उमा कात्यायनी ऊर्द्ध्वा मीना चोत्तरवासिनी ।
उमापतिप्रिया देवी शिवा चोङ्काररूपिणी ॥ ११६॥
उरगेन्द्रशिरोरत्ना उरगोरगवल्लभा ।
उद्यानवासिनी माला प्रशस्तमणिभूषणा ॥ ११७॥
उर्द्ध्वदन्तोत्तमाङ्गी च उत्तमा चोर्ध्वकेशिनी ।
उमासिद्धिप्रदा या च उरगासनसंस्थिता ॥ ११८॥
ऋषिपुत्री ऋषिच्छन्दा ऋद्धिसिद्धिप्रदायिनी ।
उत्सवोत्सवसीमन्ता कामिका च गुणान्विता ॥ ११९॥
एला एकारविद्या च एणीविद्याधरा तथा ।
ओङ्कारवलयोपेता ओङ्कारपरमा कला ॥ १२०॥
ओंवदवदवाणी च ओङ्काराक्षरमण्डिता ।
ऐन्द्री कुलिशहस्ता च ओंलोकपरवासिनी ॥ १२१॥
ओङ्कारमध्यबीजा च ओंनमोरूपधारिणी ।
प्रब्रह्मस्वरूपा च अंशुकांशुकवल्लभा ॥ १२२॥
ओङ्कारा अःफड्मन्त्रा च अक्षाक्षरविभूषिता ।
अमन्त्रा मन्त्ररूपा च पदशोभासमन्विता ॥ १२३॥
प्रणवोङ्काररूपा च प्रणवोच्चारभाक् पुनः ।
ह्रीङ्काररूपा ह्रींङ्कारी वाग्बीजाक्षरभूषणा ॥ १२४॥
हृल्लेखा सिद्धि योगा च हृत्पद्मासनसंस्थिता ।
बीजाख्या नेत्रहृदया ह्रीम्बीजाभुवनेश्वरी ॥ १२५॥
क्लीङ्कामराजा क्लिन्ना च चतुर्वर्गफलप्रदा ।
क्लीङ्क्लीङ्क्लींरूपिका देवी क्रीङ्क्रीङ्क्रींनामधारिणी ॥ १२६॥
कमलाशक्तिबीजा च पाशाङ्कुशविभूषिता ।
श्रींश्रीङ्कारा महाविद्या श्रद्धा श्रद्धावती तथा ॥ १२७॥
ओं ऐं क्लींह्रींश्रीम्परा च क्लीङ्कारी परमा कला ।
ह्रीङ्क्लींश्रीङ्कारस्वरूपा सर्वकर्मफलप्रदा ॥ १२८॥
सर्वाढ्या सर्वदेवी च सर्वसिद्धिप्रदा तथा ।
सर्वज्ञा सर्वशक्तिश्च वाग्विभूतिप्रदायिनी ॥ १२९॥
सर्वमोक्षप्रदा देवी सर्वभोगप्रदायिनी ।
गुणेन्द्रवल्लभा वामा सर्वशक्तिप्रदायिनी ॥ १३०॥
सर्वानन्दमयी चैव सर्वसिद्धिप्रदायिनी ।
सर्वचक्रेश्वरी देवी सर्वसिद्धेश्वरी तथा ॥ १३१॥
सर्वप्रियङ्करी चैव सर्वसौख्यप्रदायिनी ।
सर्वानन्दप्रदा देवी ब्रह्मानन्दप्रदायिनी ॥ १३२॥
मनोवाञ्छितदात्री च मनोवृद्धिसमन्विता ।
अकारादिक्षकारान्ता दुर्गा दुर्गार्त्तिनाशिनी ॥ १३३॥
पद्मनेत्रा सुनेत्रा च स्वधास्वाहावषट्करी ।
स्ववर्गा देववर्गा च तवर्गा च समन्विता ॥ १३४॥
अन्तस्स्था वेश्मरूपा च नवदुर्गा नरोत्तमा ।
तत्त्वसिद्धिप्रदा नीला तथा नीलपताकिनी ॥ १३५॥
नित्यरूपा निशाकारी स्तम्भिनी मोहिनीति च ।
वशङ्करी तथोच्चाटी उन्मादी कर्षिणीति च ॥ १३६॥
मातङ्गी मधुमत्ता च अणिमा लघिमा तथा ।
सिद्धा मोक्षप्रदा नित्या नित्यानन्दप्रदायिनी ॥ १३७॥
रक्ताङ्गी रक्तनेत्रा च रक्तचन्दनभूषिता ।
स्वल्पसिद्धिस्सुकल्पा च दिव्यचारणशुक्रभा ॥ १३८॥
सङ्क्रान्तिस्सर्वविद्या च सस्यवासरभूषिता ।
प्रथमा च द्वितीया च तृतीया च चतुर्त्थिका ॥ १३९॥
पञ्चमी चैव षष्ठी च विशुद्धा सप्तमी तथा ।
अष्टमी नवमी चैव दशम्येकादशी तथा ॥ १४०॥
द्वादशी त्रयोदशी च चतुर्द्दश्यथ पूर्णिमा ।
आमावस्या तथा पूर्वा उत्तरा परिपूर्णिमा ॥ १४१॥
खड्गिनी चक्रिणी घोरा गदिनी शूलिनी तथा ।
भुशुण्डी चापिनी बाणा सर्वायुधविभूषणा ॥ १४२॥
कुलेश्वरी कुलवती कुलाचारपरायणा ।
कुलकर्मसुरक्ता च कुलाचारप्रवर्द्धिनी ॥ १४३॥
कीर्तिश्श्रीश्च रमा रामा धर्मायै सततन्नमः ।
क्षमा धृतिः स्मृतिर्मेधा कल्पवृक्षनिवासिनी ॥ १४४॥
उग्रा उग्रप्रभा गौरी वेदविद्याविबोधिनी ।
साध्या सिद्धा सुसिद्धा च विप्ररूपा तथैव च ॥ १४५॥
काली कराली काल्या च कलादैत्यविनाशिनी ।
कौलिनी कालिकी चैव क-च-ट-त-पवर्णिका ॥ १४६॥
जयिनी जययुक्ता च जयदा जृम्भिनी तथा ।
स्राविणी द्राविणी देवी भरुण्डा विन्ध्यवासिनी ॥ १४७॥
ज्योतिर्भूता च जयदा ज्वालामालासमाकुला ।
भिन्ना भिन्नप्रकाशा च विभिन्ना भिन्नरूपिणी ॥ १४८॥
अश्विनी भरणी चैव नक्षत्रसम्भवानिला ।
काश्यपी विनता ख्याता दितिजादितिरेव च ॥ १४९॥
कीर्त्तिः कामप्रिया देवी कीर्त्त्या कीर्तिविवर्द्धिनी ।
सद्योमांससमालब्धा सद्यश्छिन्नासिशङ्करा ॥ १५०॥
दक्षिणा चोत्तरा पूर्वा पश्चिमा दिक् तथैव च ।
अग्निनैरृतिवायव्या ईशान्यादिक् तथा स्मृता ॥ १५१॥
ऊर्ध्वाङ्गाधोगता श्वेता कृष्णा रक्ता च पीतका ।
चतुर्वर्गा चतुर्वर्णा चतुर्मात्रात्मिकाक्षरा ॥ १५२॥
चतुर्मुखी चतुर्वेदा चतुर्विद्या चतुर्मुखा ।
चतुर्गणा चतुर्माता चतुर्वर्गफलप्रदा ॥ १५३॥
धात्री विधात्री मिथुना नारी नायकवासिनी ।
सुरामुदा मुदवती मोदिनी मेनकात्मजा ॥ १५४॥
ऊर्द्ध्वकाली सिद्धिकाली दक्षिणाकालिका शिवा ।
नील्या सरस्वती सात्वम्बगला छिन्नमस्तका ॥ १५५॥
सर्वेश्वरी सिद्धविद्या परा परमदेवता ।
हिङ्गुला हिङ्गुलाङ्गी च हिङ्गुलाधरवासिनी ॥ १५६॥
हिङ्गुलोत्तमवर्णाभा हिङ्गुलाभरणा च सा ।
जाग्रती च जगन्माता जगदीश्वरवल्लभा ॥ १५७॥
जनार्द्दनप्रिया देवी जययुक्ता जयप्रदा ।
जगदानन्दकरी च जगदाह्लादकारिणी ॥ १५८॥
ज्ञानदानकरी यज्ञा जानकी जनकप्रिया ।
जयन्ती जयदा नित्या ज्वलदग्निसमप्रभा ॥ १५९॥
विद्याधरा च बिम्बोष्ठी कैलासचलवासिनी ।
विभवा वडवाग्निश्च अग्निहोत्रफलप्रदा ॥ १६०॥
मन्त्ररूपा परा देवी तथैव गुरुरूपिणी ।
गया गङ्गा गोमती च प्रभासा पुष्करापि च ॥ १६१॥
विन्ध्याचलरता देवी विन्ध्याचलनिवासिनी ।
बहू बहुसुन्दरी च कंसासुरविनाशिनी ॥ १६२॥
शूलिनी शूलहस्ता च वज्रा वज्रहरापि च ।
दूर्गा शिवा शान्तिकरी ब्रह्माणी ब्राह्मणप्रिया ॥ १६३॥
सर्वलोकप्रणेत्री च सर्वरोगहरापि च ।
मङ्गला शोभना शुद्धा निष्कला परमा कला ॥ १६४॥
विश्वेश्वरी विश्वमाता ललिता वसितानना ।
सदाशिवा उमा क्षेमा चण्डिका चण्डविक्रमा ॥ १६५॥
सर्वदेवमयी देवी सर्वागमभयापहा ।
ब्रह्मेशविष्णुनमिता सर्वकल्याणकारिणी ॥ १६६॥
योगिनी योगमाता च योगीन्द्रहृदयस्थिता ।
योगिजाया योगवती योगीन्द्रानन्दयोगिनी ॥ १६७॥
इन्द्रादिनमिता देवी ईश्वरी चेश्वरप्रिया ।
विशुद्धिदा भयहरा भक्तद्वेषिभयङ्करी ॥ १६८॥
भववेषा कामिनी च भरुण्डा भयकारिणी ।
बलभद्रप्रियाकारा संसारार्णवतारिणी ॥ १६९॥
पञ्चभूता सर्वभूता विभूतिर्भूतिधारिणी ।
सिंहवाहा महामोहा मोहपाशविनाशिनी ॥ १७०॥
मन्दुरा मदिरा मुद्रा मुद्रामुद्गरधारिणी ।
सावित्री च महादेवी परप्रियनिनायिका ॥ १७१॥
यमदूती च पिङ्गाक्षी वैष्णवी शङ्करी तथा ।
चन्द्रप्रिया चन्द्ररता चन्दनारण्यवासिनी ॥ १७२॥
चन्दनेन्द्रसमायुक्ता चण्डदैत्यविनाशिनी ।
सर्वेश्वरी यक्षिणी च किराती राक्षसी तथा ॥ १७३॥
महाभोगवती देवी महामोक्षप्रदायिनी ।
विश्वहन्त्री विश्वरूपा विश्वसंहारकारिणी ॥ १७४॥
धात्री च सर्वलोकानां हितकारणकामिनी ।
कमला सूक्ष्मदा देवी धात्री हरविनाशिनी ॥ १७५॥
सुरेन्द्रपूजिता सिद्धा महातेजोवतीति च ।
परारूपवती देवी त्रैलोक्याकर्षकारिणी ॥ १७६॥
इति ते कथितन्देवि पीतानाम सहस्रकम् ।
पठेद्वा पाठयेद्वापि सर्वसिद्धिर्भवेत्प्रिये ॥ १७७॥
इति मे विष्णुना प्रोक्तं महास्तम्भकरं परम् ।
प्रातः काले च मध्याह्ने सन्ध्याकाले च पार्वति ॥ १७८॥
एकचित्तः पठेदेतत्सर्वसिद्धिर्भविष्यति ।
एकवारम्पठेद्यस्तु सर्वपापक्षयो भवेत् ॥ १७९॥
द्विवारम्प्रपठेद्यस्तु विघ्नेश्वरसमो भवेत् ।
त्रिवारम्पठनाद्देवि सर्वं सिद्ध्यति सर्वथा ॥ १८०॥
स्तवस्यास्य प्रभावेण साक्षाद्भवति सुव्रते ।
मोक्षार्त्थी लभते मोक्षन्धनार्थी लभते धनम् ॥ १८१॥
विद्यार्त्थी लभते विद्यान्तर्कव्याकरणान्विताम् ।
महित्ववत्सरान्ताच्च शत्रुहानिः प्रजायते ॥ १८२॥
क्षोणीपतिर्वशस्तस्य स्मरणे सदृशो भवेत् ।
यः पठेत्सर्वदा भक्त्या श्रेयस्तु भवति प्रिये ॥ १८३॥
गणाध्यक्षप्रतिनिधिः कविकाव्यपरो वरः ।
गोपनीयम्प्रयत्नेन जननीजारवत्सदा ॥ १८४॥
हेतुयुक्तो भवेन्नित्यं शक्तियुक्तः सदा भवेत् ।
य इदम्पठते नित्यं शिवेन सदृशो भवेत् ॥ १८५॥
जीवन्धर्मार्त्थभोगी स्यान्मृतो मोक्षपतिर्भवेत् ।
सत्यं सत्यं महादेवि सत्यं सत्यन्न संशयः ॥ १८६॥
स्तवस्यास्य प्रभावेण देवेन सह मोदते ।
सुचित्ताश्च सुरास्सर्वे स्तवराजस्य कीर्त्तनात् ॥ १८७॥
पीताम्बरपरीधाना पीतगन्धानुलेपना ।
परमोदयकीर्त्तिः स्यात्परतस्सुरसुन्दरि ॥ १८८॥
इति श्रीउत्कटशम्बरे नागेन्द्रप्रयाणतन्त्रे षोडशसहस्रे
विष्णुशङ्करसंवादे पीताम्बरीसहस्रनामस्तोत्रं समाप्तम् ॥