KaryaVidhan

श्रीशिवसहस्रनामस्तोत्रं वायुपुराणे

Page 1 of 2

श्रीशिवसहस्रनामस्तोत्रं वायुपुराणे अध्याय ३०

दक्ष उवाच ।
ॐ नमस्ते देवदेवेश देवारिबलसूदन ।
देवेन्द्र ह्यमरश्रेष्ठ देवदानवपूजित ॥ १८०॥

सहस्राक्ष विरूपाक्ष त्र्यक्ष यक्षाधिपप्रिय ।
सर्वतः पाणिपादस्त्वं सर्वतोऽक्षिशिरोमुखः ।
सर्वतः श्रुतिमान् लोके सर्वानावृत्य तिष्ठसि ॥ १८१॥

शङ्कुकर्ण महाकर्ण कुम्भकर्णार्णवालय ।
गजेन्द्रकर्ण गोकर्ण पाणिकर्ण नमोऽस्तु ते ॥ १८२॥

शतोदर शतावर्त्त शतजिह्व शतानन ।
गायन्ति त्वां गायत्रिणो ह्यर्च्चयन्ति तथार्च्चिनः ॥ १८३॥

देवदानवगोप्ता च ब्रह्मा च त्वं शतक्रतुः ।
मूर्त्तीशस्त्वं महामूर्ते समुद्राम्बु धराय च ॥ १८४॥

सर्वा ह्यस्मिन् देवतास्ते गावो गोष्ठ इवासते ।
शरीरन्ते प्रपश्यामि सोममग्निं जलेश्वरम् ॥ १८५॥

आदित्यमथ विष्णुञ्च ब्रह्माणं सबृहस्पतिम् ।
क्रिया कार्य्यं कारणञ्च कर्त्ता करणमेव च ॥ १८६॥

असच्च सदसच्चैव तथैव प्रभवाव्ययम् ।
नमो भवाय शर्वाय रुद्राय वरदाय च ॥ १८७॥

पशूनां पतये चैव नमस्त्वन्धकघातिने ।
त्रिजटाय त्रिशीर्षाय त्रिशूलवरधारिणे ॥ १८८॥

त्र्यम्बकाय त्रिनेत्राय त्रिपुरघ्नाय वै नमः ।
नमश्चण्डाय मुण्डाय प्रचण्डाय धराय च ॥ १८९॥

दण्डि मासक्तकर्णाय दण्डिमुण्डाय वै नमः ।
नमोऽर्द्धदण्डकेशाय निष्काय विकृताय च ॥ १९०॥

विलोहिताय धूम्राय नीलग्रीवाय ते नमः ।
नमस्त्वप्रतिरूपाय शिवाय च नमोऽस्तु ते ॥ १९१॥

सूर्य्याय सूर्य्यपतये सूर्य्यध्वजपताकिने ।
नमः प्रमथनाथाय वृषस्कन्धाय धन्विने ॥ १९२॥

नमो हिरण्यगर्भाय हिरण्यकवचाय च ।
हिरण्यकृतचूडाय हिरण्यपतये नमः ॥ १९३॥

सत्रघाताय दण्डाय वर्णपानपुटाय च ।
नमः स्तुताय स्तुत्याय स्तूयमानाय वै नमः ॥ १९४॥

सर्वायाभक्ष्यभक्ष्याय सर्वभूतान्त्तरात्मने ।
नमो होत्राय मन्त्राय शुक्लध्वजपताकिने ॥ १९५॥

नमो नमाय नम्याय नमः किलिकिलाय च ।
नमस्ते शयमानाय शयितायोत्थिताय च ॥ १९६॥

स्थिताय चलमानाय मुद्राय कुटिलाय च ।
नमो नर्त्तनशीलाय मुखवादित्रकारिणे ॥ १९७॥

नाट्योपहारलुब्धाय गीतवाद्यरताय च ।
नमो ज्येष्ठाय श्रेष्ठाय बलप्रमथनाय च ॥ १९८॥

कलनाय च कल्पाय क्षयायोपक्षयाय च ।
भीमदुन्दुभिहासाय भीमसेनप्रियाय च ॥ १९९॥

उग्राय च नमो नित्यं नमस्ते दशबाहवे ।
नमः कपालहस्ताय चिताभस्मप्रियाय च ॥ २००॥

विभीषणाय भीष्माय भीष्मव्रतधराय च ।
नमो विकृतवक्षाय खड्गजिह्वाग्रदंष्ट्रिणे ॥ २०१॥

पक्वाममांसलुब्धाय तुम्बवीणाप्रियाय च ।
नमो वृषाय वृष्याय वृष्णये वृषणाय च ॥ २०२॥

कटङ्कटाय चण्डाय नमः सावयवाय च ।
नमस्ते वरकृष्णाय वराय वरदाय च ॥ २०३॥

वरगन्धमाल्यवस्त्राय वरातिवरये नमः ।
नमो वर्षाय वाताय छायायै आतपाय च ॥ २०४॥

नमो रक्तविरक्ताय शोभनायाक्षमालिने ।
सम्भिन्नाय विभिन्नाय विविक्तविकटाय च ॥ २०५॥

अघोररूपरूपाय घोरघोरतराय च ।
नमः शिवाय शान्ताय नमः शान्ततराय च ॥ २०६॥

एकपाद्बहुनेत्राय एकशीर्षन्नमोऽस्तु ते ।
नमो वृद्धाय लुब्धाय संविभागप्रियाय च ॥ २०७॥

पञ्चमालार्चिताङ्गाय नमः पाशुपताय च ।
नमश्चण्डाय घण्टाय घण्टया जग्धरन्ध्रिणे ॥ २०८॥

सहस्रशतघण्टाय घण्टामालाप्रियाय च ।
प्राणदण्डाय त्यागाय नमो हिलिहिलाय च ॥ २०९॥

हूंहूङ्काराय पाराय हूंहूङ्कारप्रियाय च ।
नमश्च शम्भवे नित्यं गिरि वृक्षकलाय च ॥ २१०॥

गर्भमांसश‍ृगालाय तारकाय तराय च ।
नमो यज्ञाधिपतये द्रुतायोपद्रुताय च ॥ २११॥

यज्ञवाहाय दानाय तप्याय तपनाय च ।
नमस्तटाय भव्याय तडितां पतये नमः ॥ २१२॥

अन्नदायान्नपतये नमोऽस्त्वन्नभवाय च ।
नमः सहस्रशीर्ष्णे च सहस्रचरणाय च ॥ २१३॥

सहस्रोद्यतशूलाय सहस्रनयनाय च ।
नमोऽस्तु बालरूपाय बालरूपधराय च ॥ २१४॥

बालानाञ्चैव गोप्त्रे च बालक्रीडनकाय च ।
नमः शुद्धाय बुद्धाय क्षोभणायाक्षताय च ॥ २१५॥

तरङ्गाङ्कितकेशाय मुक्तकेशाय वै नमः ।
नमः षट्कर्मनिष्ठाय त्रिकर्मनिरताय च ॥ २१६॥

वर्णाश्रमाणां विधिवत् पृथक्कर्मप्रवर्तिने ।
नमो घोषाय घोष्याय नमः कलकलाय च ॥ २१७॥

श्वेतपिङ्गलनेत्राय कृष्णरक्तक्षणाय च ।
धर्मार्थ काममोक्षाय क्रथाय कथनाय च ॥ २१८॥

साङ्ख्याय साङ्ख्यमुख्याय योगाधिपतये नमः ।
नमो रथ्यविरथ्याय चतुष्पथरताय च ॥ २१९॥

कृष्णा जिनोत्तरीयाय व्यालयज्ञोपवीतिने ।
ईशानवज्रसंहाय हरिकेश नमोऽस्तु ते ।
अविवेकैकनाथाय व्यक्ताव्यक्त नमोऽस्तु ते ॥ २२०॥

काम कामद कामध्न धृष्टोदृप्तनिषूदन ।
सर्व सर्वद सर्वज्ञ सन्ध्याराग नमोऽस्तु ते ॥ २२१॥

महाबाल महाबाहो महासत्त्व महाद्युते ।
महामेघवरप्रेक्ष महाकाल नमोऽस्तु ते ॥ २२२॥

स्थूलजीर्णाङ्गजटिने वल्कलाजिनधारिणे ।
दीप्तसूर्याग्निजटिने वल्कलाजिनवाससे ।
सहस्रसूर्यप्रतिम तपोनित्य नमोऽस्तु ते ॥ २२३॥

उन्मादनशतावर्त्त गङ्गातोयार्द्धमूर्द्धज ।
चन्द्रावर्त्त युगावर्त्त मेघावर्त्त नमोऽस्तु ते ॥ २२४॥

त्वमन्नमन्नकर्त्ता च अन्नदश्च त्वमेव हि ।
अन्नस्रष्टा च पक्ता च पक्वभुक्तपचे नमः ॥ २२५॥

जरायुजोऽण्डजश्चैव स्वेदजोद्भिज्ज एव च ।
त्वमेव देवदेवशो भूतग्रामश्चतुर्विधः ॥ २२६ ।
चराचरस्य ब्रह्मा त्वं प्रतिहर्त्ता त्वमेव च ।
त्वमेव ब्रह्मविदुषामपि ब्रह्मविदां वरः ॥ २२७॥

सत्त्वस्य परमा योनिरब्वायुज्योतिषां निधिः ।
ऋक्सामानि तथोङ्कारमाहुस्त्वां ब्रह्मवादिनः ॥ २२८॥

हविर्हावी हवो हावी हुवां वाचाहुतिः सदा ।
गायन्ति त्वां सुरश्रेष्ठ सामगा ब्रह्मवादिनः ॥ २२९॥

यजुर्मयो ऋङ्मयश्च सामाथर्वमयस्तथा ।
पठ्यसे ब्रह्मविद्भिस्त्वं कल्पोपनिषदां गणैः ॥ २३०॥

ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा वर्णावराश्च ये ।
त्वामेव मेघसङ्घाश्च विश्वस्त नितगर्ज्जितम् ॥ २३१॥

संवत्सरस्त्वमृतवो मासा मासार्द्धमेव च ।
कला काष्ठा निमेषाश्च नक्षत्राणि युगा ग्रहाः ॥ २३२॥

वृषाणां ककुदं त्वं हि गिरीणां शिखराणि च ।
सिंहो मृगाणां पततां तार्क्ष्योऽनन्तश्च भोगिनाम् ॥ २३३॥

क्षीरोदो ह्युदधीनाञ्च यन्त्राणां धनुरेव च ।
वज्रम्प्रहरणानाञ्च व्रतानां सत्यमेव च ॥ २३४॥

इच्छा द्वेषश्च रागश्च मोहः क्षामो दमः शमः ।
व्यवसायो धृतिर्लोभः कामक्रोधौ जयाजयौ ॥ २३५॥

त्वं गदी त्वं शरी चापि खट्वाङ्गी झर्झरी तथा ।
छेत्ता भेत्ता प्रहर्त्ता च त्वं नेताप्यन्तको मतः ॥ २३६॥

दशलक्षणसंयुक्तो धर्मोऽर्थः काम एव च ।
इन्द्रः समुद्राः सरितः पल्वलानि सरांसि च ॥ २३७॥

लतावल्ली तृणौषध्यः पशवो मृगपक्षिणः ।
द्रव्यकर्मगुणारम्भः कालपुष्पफलप्रदः ॥ २३८॥

आदिश्चान्तश्च मध्यश्च गायत्र्योङ्कार एव च ।
हरितो लोहितः कृष्णो नीलः पीतस्तथारुणः ॥ २३९॥

कद्रुश्च कपिलश्चैव कपोतो मेचकस्तथा ।
सुवर्णरेता विख्यातः सुवर्णश्चाप्यतो मतः ॥ २४०॥

सुवर्णनामा च तथा सुवर्णप्रिय एव च ।
त्वमिन्द्रोऽथ यमश्चैव वरुणो धनदोऽनलः ॥ २४१॥

उत्फुल्लश्चित्रभानुश्च स्वर्भानुर्भानुरेव च ।
होत्रं होता च होमस्त्वं हुतञ्च प्रहुतं प्रभुः ॥ २४२॥

सुपर्णञ्च तथा ब्रह्म यजुषां शतरुद्रियम् ।
पवित्राणां पवित्रं च मङ्गलानाञ्च मङ्गलम् ॥ २४३॥

गिरिः स्तोकस्तथा वृक्षो जीवः पुद्गल एव च ।
सत्त्वं त्वञ्च रजस्त्वञ्च तमश्च प्रजनं तथा ॥ २४४॥

प्राणोऽपानः समानश्च उदानो व्यान एव च ।
उन्मेषश्चैव मेषश्च तथा जृम्भितमेव च ॥ २४५॥

लोहिताङ्गो गदी दंष्ट्री महावक्त्रो महोदरः ।
शुचिरोमा हरिच्छ्मश्रुरूर्द्ध्वकेशस्त्रिलोचनः ॥ २४६॥

गीतवादित्रनृत्याङ्गो गीतवादनकप्रियः ।
मत्स्यो जली जलो जल्यो जवः कालः कली कलः ॥ २४७॥

विकालश्च सुकालश्च दुष्कालः कलनाशनः ।
मृत्युश्चैव क्षयोऽन्तश्च क्षमापायकरो हरः ॥ २४८॥

संवर्त्तकोऽन्तकश्चैव संवर्त्तकबलाहकौ ।
घटो घटीको घण्टीको चूडालोलबलो बलम् ॥ २४९॥

ब्रह्मकालोऽग्निवक्त्रश्च दण्डी मुण्डी च दण्डधृक् ।
चतुर्युगश्चतुर्वेदश्चतुर्होत्रश्चतुष्पथः ॥ २५०॥

चतुरा श्रमवेत्ता च चातुर्वर्ण्यकरश्च ह ।
क्षराक्षरप्रियो धूर्त्तोऽगण्योऽगण्यगणाधिपः ॥ २५१॥

रुद्राक्षमाल्याम्बरधरो गिरिको गिरिकप्रियः ।
शिल्पीशः शिल्पिनां श्रेष्ठः सर्वशिल्पप्रवर्त्तकः ॥ २५२॥

भगनेत्रान्तकश्चन्द्रः पूष्णो दन्तविनाशनः ।
गूढावर्त्तश्च गूढश्च गूढप्रतिनिषेविता ॥ २५३॥

तरणस्तारकश्चैव सर्वभूतसुतारणः ।
धाता विधाता सत्वानां निधाता धारणो धरः ॥ २५४॥

तपो ब्रह्म च सत्यञ्च ब्रह्मचर्यमथार्जवम् ।
भूतात्मा भूतकृद्भूतो भूतभव्यभवोद्भवः ॥ २५५॥

भूर्भुवःस्वरितश्चैव तथोत्पत्तिर्महेश्वरः ।
ईशानो वीक्षणः शान्तो दुर्दान्तो दन्तनाशनः ॥ २५६॥

ब्रह्मावर्त्त सुरावर्त्त कामावर्त्त नमोऽस्तु ते ।
कामबिम्बनिहर्त्ता च कर्णिकाररजःप्रियः ॥ २५७॥

मुखचन्द्रो भीममुखः सुमुखो दुर्मुखो मुखः ।
चतुर्मुखो बहुमुखो रणे ह्यभिमुखः सदा ॥ २५८॥

हिरण्यगर्भः शकुनिर्महोदधिः परो विराट् ।
अधर्महा महादण्डो दण्डधारी रणप्रियः ॥ २५९॥

गोतमो गोप्रतारश्च गोवृषेश्वरवाहनः ।
धर्मकृद्धर्मस्रष्टा च धर्मो धर्मविदुत्तमः ॥ २६०॥

त्रैलोक्यगोप्ता गोविन्दो मानदो मान एव च ।
तिष्ठन् स्थिरश्च स्थाणुश्च निष्कम्पः कम्प एव च ॥ २६१॥

दुर्वारणो दुर्विषदो दुःसहो दुरतिक्रमः ।
दुर्द्धरो दुष्प्रकम्पश्च दुर्विदो दुर्ज्जयो जयः ॥ २६२॥

शशः शशाङ्कः शमनः शीतोष्णं दुर्जराऽथ तृट् ।
आधयो व्याधयश्चैव व्याधिहा व्याधिगश्च ह ॥ २६३॥

सह्यो यज्ञो मृगा व्याधा व्याधीनामाकरोऽकरः ।
शिखण्डी पुण्डरीकाक्षः पुण्डरीकावलोकनः ॥ २६४॥

दण्डधरः सदण्डश्च दण्डमुण्डविभूषितः ।
विषपोऽमृतपश्चैव सुरापः क्षीरसोमपः ॥ २६५॥

मधुपश्चाज्यपश्चैव सर्वपश्च महाबलः ।
वृषाश्ववाह्यो वृषभस्तथा वृषभलोचनः ॥ २६६॥

वृषभश्चैव विख्यातो लोकानां लोकसत्कृतः ।
चन्द्रादित्यौ चक्षुषी ते हृदयञ्च पितामहः ।
अग्निरापस्तथा देवो धर्मकर्मप्रसाधितः ॥ २६७॥

न ब्रह्मा न च गोविन्दः पुराणऋषयो न च ।
माहात्म्यं वेदितुं शक्ता याथातथ्येन ते शिव ॥ २६८॥

या मूर्त्तयः सुसूक्ष्मास्ते न मह्यं यान्ति दर्शनम् ।
ताभिर्मां सततं रक्ष पिता पुत्रमिवौरसम् ॥ २६९॥

रक्ष मां रक्षणीयोऽहं तवानघ नमोऽस्तु ते ॥

भक्तानुकम्पी भगवान् भक्तश्चाहं सदा त्वयि ॥ २७०॥

यः सहस्राण्यनेकानि पुंसामाहृत्य दुर्द्दशः ।
तिष्ठत्येकः समुद्रान्ते स मे गोप्तास्तु नित्यशः ॥ २७१॥

यं विनिद्रा जितश्वासाः सत्त्वस्थाः समदर्शिनः ।
ज्योतिः पश्यन्ति युञ्जानास्तस्मै योगात्मने नमः ॥ २७२॥

सम्भक्ष्य सर्व भूतानि युगान्ते समुपस्थिते ।
यः शेते जलमध्यस्थस्तं प्रपद्येऽप्सुशायिनम् ॥ २७३॥

प्रविश्य वदने राहोर्यः सोमं ग्रसते निशि ।
ग्रसत्यर्कञ्च स्वर्भानुर्भूत्वा सोमाग्निरेव च ॥ २७४॥

येऽङ्गुष्ठमात्राः पुरुषा देहस्थाः सर्वदेहिनाम् ।
रक्षन्तु ते हि मां नित्यं नित्यमाप्याययन्तु माम् ॥ २७५॥

ये चाप्युत्पतिता गर्भादधोभागगताश्च ये ।
तेषां स्वाहाः स्वधाश्चैव आप्नुवन्तु स्वदन्तु च ॥ २७६॥

ये न रोदन्ति देहस्थाः प्राणिनो रोदयन्ति च ।
हर्षयन्ति च हृष्यन्ति नमस्तेभ्योऽस्तु नित्यशः ॥ २७७॥

ये समुद्रे नदीदुर्गे पर्वतेषु गुहासु च ।
वृक्षमूलेषु गोष्ठेषु कान्तारगहनेषु न ॥ २७८॥

चतुष्पथेषु रथ्यासु चत्वरेषु सभासु च ।
चन्द्रार्कयोर्मध्यगता ये च चन्द्रार्करश्मिषु ॥ २७९॥

रसातलगता ये च ये च तस्मात्परङ्गताः ।
नमस्तेभ्यो नमस्तेभ्यो

अर्को