KaryaVidhan

वामनपुराणे गजेन्द्रमोक्षणः

Page 1 of 1

नारद उवाच ।
यान् जप्यान् भगवद् भक्त्या प्रह्लादो दानवोऽजपत् ।
गजेन्द्रमोक्षणादींस्तु चतुरस्तान् वदस्व मे ॥ १॥

पुलस्त्य उवाच ।
श‍ृणुष्व कथयिष्यामि जप्यानेतांस्तपोधन ।
दुःस्वप्ननाशो भवति यैरुक्तैः संश्रुतैः स्मृतैः ॥ २॥

गजेन्द्रमोक्षणं त्वादौ श‍ृणुष्व तदनन्तरम् ।
सारस्वतं ततः पुण्यौ पापप्रशमनौ स्तवौ ॥ ३॥

सर्वरत्नमयः श्रीमांस्त्रिकूटो नाम पर्वतः ।
सुतः पर्वतराजस्य सुमेरोर्भास्करद्युतेः ॥ ४॥

क्षीरोदजलवीच्यग्रैर्धौतामलशिलातलः ।
उत्थितः सागरं भित्त्वा देवर्षिगणसेवितः ॥ ५॥

अप्सरोभिः परिवृतः श्रीमान् प्रस्रवणाकुलः ।
गन्धर्वैः किन्नरैर्यक्षैः सिद्धचारणपन्नगैः ॥ ६॥

विद्याधरैः सपत्नीकैः संयतैश्च तपस्विभिः ।
वृकद्वीपिगजेन्द्रश्च वृतगात्रो विराजते ॥ ७॥

पुन्नागैः कर्णिकारैश्च बिल्वामलकपाटलैः ।
चूतनीपकदम्बैश्च चन्दनागुरुचम्पकैः ॥ ८॥

शालैस्तालैस्तमालैश्च सरलार्जुनपर्पटैः ।
तथान्यैर्विविधैर्वृक्षैः सर्वतः समलङ्कृतः ॥ ९॥

नानाधात्वङ्कितैः श‍ृङ्गैः प्रस्रवद्भिः समन्ततः ।
शोभितो रुचिरप्रख्यैस्त्रिभिर्विस्तीर्णसानुभिः ॥ १०॥

मृगैः शाखामृगैः सिंहैर्मातङ्गैश्च सदामदैः ।
जीवञ्जीवकसङ्घुष्टैश्चकोरशिखिनादितैः ॥ ११॥

तस्यैकं काञ्चनं श‍ृङ्गं सेवते यं दिवाकरः ।
नानापुष्पसमाकीर्णं नानागन्धाधिवासितम् ॥ १२॥

द्वितीयं राजतं श‍ृङ्गं सेवते यं निशाकरः ।
पाण्डुराम्बुदसङ्काशं तुषारचयसन्निभम् ॥ १३॥

वज्रेन्द्रनीलवैडूर्यतेजोभिर्भासयन् दिशः ।
तृतीयं ब्रह्मसदनं प्रकृष्टं श‍ृङ्गमुत्तमम् ॥ १४॥

न तत्कृतघ्नाः पश्यन्ति न नृशंसा न नास्तिकाः ।
नातप्ततपसो लोके ये च पापकृतो जनाः ॥ १५॥

तस्य सानुमतः पृष्ठे सरः काञ्चनपङ्कजम् ।
कारण्डवसमाकीर्णं राजहंसोपशोभितम् ॥ १६॥

कुमुदोत्पलकह्लारैः पुण्डरीकैश्च मण्डितम् ।
कमलैः शतपत्रैश्च काञ्चनैः समलङ्कृतम् ॥ १७॥

पत्रैर्मरकतप्रख्यैः पुष्पैः काञ्चनसन्निभैः ।
गुल्मैः कीचकवेणूनां समन्तात् परिवेष्टितम् ॥ १८॥

तस्मिन् सरसि दुष्टात्मा विरूपोऽन्तर्जलेशयः ।
आसीद् ग्राहो गजेन्द्राणां रिपुराकेकरेक्षणः ॥ १९॥

अथ दन्तोज्ज्वलमुखः कदाचिद् गजयूथपः ।
मदस्रावी जलाकाङ्क्षी पादचारीव पर्वतः ॥ २०॥

वासयन्मदगन्धेन गिरिमैरावतोपमः ।
गजो ह्यञ्जनसङ्काशो मदाच्चलितलोचनः ॥ २१॥

तृषितः पातुकामोऽसौ अवतीर्णश्च तज्जलम् ।
सलीलः पङ्कजवने यूथमध्यगतश्चरन् ॥ २२॥

गृहीतस्तेन रौद्रेण ग्राहेणाव्यक्तमूर्तिना ।
पश्यन्तीनां करेणूनां क्रोशन्तीनां च दारुणम् ॥ २३॥

ह्रियते पङ्कजवने ग्राहेणातिबलीयसा ।
(गज आकर्षते तीरं ग्राह आकर्षते जलम् ॥ २४॥
तयोर्दिव्यं महायुद्धं जातं वर्षसहस्रकम् ।)
वारुणैः संयतः पाशैर्निष्प्रयत्नगतिः कृतः ॥ २४॥

वेष्ट्यमानः सुघोरैस्तु पाशैर्नागो दृढैस्तथा ।
विस्फूर्य च यथाशक्ति विक्रोसंश्च महारवान् ॥ २५॥

व्यथितः स निरुत्साहो गृहीतो घोरकर्मणा ।
परमापदमापन्नो मनसाऽचिन्तयद्धरिम् ॥ २६॥

स तु नागवरः श्रीमन् नारायणपरायणः ।
तमेव शरणं देवं गतः सर्वात्मना तदा ॥ २७॥

एकात्मा निगृहीतात्मा विशुद्धेनान्तरात्मना ।
जन्मजन्मान्तराभ्यासात् भक्तिमान् गरुडध्वजे ॥ २८॥

नान्यं देवं महादेवात् पूजयामास केशवात् ।
मथितामृतफेनाभं शङ्खचक्रगदाधरम् ॥ २९॥

सहस्रशुभनामानमादिदेवमजं विभुम् ।
प्रगृह्य पुष्कराग्रेण काञ्चनं कमलोत्तमम् ।
आपद्विमोक्षमन्विच्छन् गजः स्तोत्रमुदीरयत् ॥ ३०॥

गजेन्द्र उवाच । (अथ स्तुतिः ।)
ॐ नमो मूलप्रकृतये अजिताय महात्मने ।
अनाश्रिताय देवाय निःस्पृहाय नमोऽस्तु ते ॥ ३१॥

नम आद्याय बीजाय आर्षेयाय प्रवर्तिने ।
अन्तराय चैकाय अव्यक्ताय नमो नमः ॥ ३२॥

नमो गुह्याय गूढाय गुणाय गुणवर्तिने ।
अप्रतर्क्याप्रमेयाय अतुलाय नमो नमः ॥ ३३॥

नमः शिवाय शान्ताय निश्चिन्ताय यशस्विने ।
सनातनाय पूर्वाय पुराणाय नमो नमः ॥ ३४॥

नमो देवाधिदेवाय स्वभावाय नमो नमः ।
नमो जगत्प्रतिष्ठाय गोविन्दाय नमो नमः ॥ ३५॥

नमोऽस्तु पद्मनाभाय नमो योगोद्भवाय च ।
विश्वेश्वराय देवाय शिवाय हरये नमः ॥ ३६॥

नमोऽस्तु तस्मै देवाय निर्गुणाय गुणात्मने ।
नारायणाय विश्वाय देवानां परमात्मने ॥ ३७॥

नमो नमः कारणवामनाय नारायणायामितविक्रमाय ।
श्रीशार्ङ्गचक्रासिगदाधराय नमोऽस्तु तस्मै पुरुषोत्तमाय ॥ ३८॥

गुह्याय वेदनिलयाय महोदराय सिंहाय दैत्यनिधनाय चतुर्भुजाय ।
ब्रह्मेन्द्ररुद्रमुनिचारणसंस्तुताय देवोत्तमाय वरदाय नमोऽच्युताय ॥ ३९॥

नागेन्द्रदेहशयनासनसुप्रियाय गोक्षीरहेमशुकनीलघनोपमाय ।
पीताम्बराय मधुकैटभनाशनाय विश्वाय चारुमुकुटाय नमोऽजराय ॥ ४०॥

नाभिप्रजातक्रमलस्थचतुर्मखाय श्रीरोदकार्णवनिकेतयशोधराय ।
नानाविचित्रमुकुटाङ्गदभूषणाय सर्वेश्वराय वरदाय नमो वराय ॥ ४१॥

भक्तिप्रियाय वरदीप्तसुदर्शनाय फुल्लारविन्दविपुलायतलोचनाय ।
देवेन्द्रविघ्नशमनोद्यतपौरुषाय योगेश्वराय विरजाय नमो वराय ॥ ४२॥

ब्रह्मायनाय त्रिदशायनाय लोकाधिनाथाय भवापनाय ।
नारायणायात्महितायनाय महावराहाय नमस्करोमि ॥ ४३॥

कूटस्थमव्यक्तमचिन्त्यरूपं नारायणं कारणमादिदेवम् ।
युगान्तशेषं पुरुषं पुराणं तं देवदेवं शरणं प्रपद्ये ॥ ४४॥

योगेश्वरं चारुविचित्रमोलिमज्ञेयमग्र्यं प्रकृतेः परस्थम् ।
क्षेत्रज्ञमात्मप्रभवं वरेण्यं तं वासुदेवं शरणं प्रपद्ये ॥ ४५॥

अदृश्यमव्यक्तमचिन्त्यमव्ययं महर्षयो ब्रह्ममयं सनातनम् ।
वदन्ति यं वै पुरुषं सनातनं तं देवगुह्यं शरणं प्रपद्ये ॥ ४६॥

यदक्षरं ब्रह्म वदन्ति सर्वगं निशम्य यं मृत्युमुखात् प्रमुच्यते ।
तमीश्वरं तृप्तमनुत्तमैर्गुणैः परायणं विष्णुमुपैमि शाश्वतम् ॥ ४७॥

कार्यं क्रिया कारणमप्रमेयं हिरण्यबाहुं वरपद्मनाभम् ।
महाबलं वेदनिधिं सुरेशं व्रजामि विष्णुं शरणं जनार्दनम् ॥ ४८॥

किरीटकेयूरमहार्हनिष्कैर्मण्युत्तमालङ्कृतसर्वगात्रम् ।
पीताम्बरं काञ्चनभक्तिचित्रं मालाधरं केशवमभ्युपैमि ॥ ४९॥

भवोद्भवं वेदविदां वरिष्ठं योगात्मनां साङ्ख्यविदां वरिष्ठम् ।
आदित्यरुद्राश्विवसुप्रभावं प्रभुं प्रपद्येऽच्युतमात्मवन्तम् ॥ ५०॥

श्रीवत्साङ्कं महादेवं देवगुह्यमनौपमम् ।
प्रपद्ये सूक्ष्ममचलं वरेण्यमभयप्रदम् ॥ ५१॥

प्रभवं सर्वभूतानां निर्गुणं परमेश्वरम् ।
प्रपद्ये मुक्तसङ्गानां यतीनां परमां गतिम् ॥ ५२॥

भगवन्तं गुणाध्यक्षमक्षरं पुष्करेक्षणम् ।
शरण्यं शरणं भक्त्या प्रपद्ये भक्तवत्सलम् ॥ ५३॥

त्रिविक्रमं त्रिलोकेशं सर्वेषां प्रपितामहम् ।
योगात्मानं महात्मानं प्रपद्येऽहं जनार्दनम् ॥ ५४॥

आदिदेवमजं शम्भुं व्यक्ताव्यक्तं सनातनम् ।
नारायणमणीयांसं प्रपद्ये ब्राह्मणप्रियम् ॥ ५५॥

नमो वराय देवाय नमः सर्वसहाय च ।
प्रपद्ये देवदेवेशमणीयांसमणोः सदा ॥ ५६॥

एकाय लोकतत्वाय परतः परमात्मने ।
नमः सहस्रशिरसे अनन्ताय महात्मने ॥ ५७॥

त्वामेव परमं देवमृषयो वेदपारगाः ।
कीर्तयन्ति च यं सर्वे ब्रह्मादीनां परायणम् ॥ ५८॥

नमस्ते पुण्डरीकाक्ष भक्तानामभयप्रदः
सुब्रह्मण्य नमस्तेऽस्तु त्राहि मां शरणागतम् ॥ ५९॥

पुलस्त्य उवाच ।
भक्तिं तस्यानुसञ्चिन्त्य नागस्यामोघसम्भवः ।
प्रीतिमानभवद् विष्णुः शङ्खचक्रगदाधरः ॥ ६०॥

सान्निध्यं कल्पयामास तस्मिन् सरसि केशवः ।
गरुडस्थो जगत्स्वामी लोकाधारस्तपोधनः ॥ ६१॥

ग्राहग्रस्तं गजेन्द्रं तं तं च ग्राहं जलाशयात् ।
उज्जहाराप्रमेयात्मा तरसा मधुसूदनः ॥ ६२॥

स्थलस्थं दारयामास ग्राहं चक्रेण माधवः ।
मोक्षयामास नागेन्द्रं पाशेभ्यः शरणागतम् ॥ ६३॥

स हि देवलशापेन हूहूर्गन्धर्वसत्तमः ।
ग्राहत्वमगमत् कृष्णाद् वधं प्राप्य दिवं गतः ॥ ६४॥

गजोऽपि विष्णुना स्पृष्टो जातो दिव्यवपुः पुमान् ।
आपद्विक्तौ युगपद् गजगन्धर्वसत्तमौ ॥ ६५॥

प्रीतिमान् पुण्डरीकाक्षः शरणागतवत्सलः ।
अभवत् त्वथ देवेशस्ताभ्यां चैव प्रपूजितः ॥ ६६॥

इदं च भगवान् योगी गजेन्द्रं शरणागतम् ।
प्रोवाच मुनिशार्दूल मधुरं मधुसूदनः ॥ ६७॥

श्रीभगवानुवाच ।
यो मां त्वाञ्च सरश्चैव ग्राहस्य च विदारणम् ।
गुल्मकीचकरेणूनां रूपं मेरोः सुतस्य च ॥ ६८॥

अश्वत्थं भास्करं गङ्गं नैमिषारण्यमेव च ।
संस्मरिष्यन्ति मनुजाः प्रयताः स्थिरबुद्धयः ॥ ६९॥

कीर्तयिष्यन्ति भक्त्या च श्रोष्यन्ति च शुचिव्रतः ।
दुःस्वप्नो नश्यते तेषां सुस्वप्नश्च भविष्यति ॥ ७०॥

मात्स्यं कौर्मञ्च वाराहं वामनं तार्क्ष्यमेव च ।
नारसिंहं च नागेन्द्रं सृष्टिप्रलयकारकम् ॥ ७१॥

एतानि प्रातरुत्थाय संस्मरिष्यन्ति ये नराः ।
सर्वपापैः प्रमुच्यन्ते पुण्यं लोकमवाप्नुयुः ॥ ७२॥

पुलस्त्य उवाच ।
एवमुक्त्वा हृषीकेशो गजेन्द्रं गरुडध्वजः ।
स्पर्शयामास हस्तेन गजं गन्धर्वमेव च ॥ ७३॥

ततो दिव्यवपुर्भूत्वा गजेन्द्रो मधुसूदनम् ।
जगाम शरणं विप्र नारायणपरायणः ॥ ७४॥

ततो नारायणः श्रीमान् मोक्षयित्वा गजोत्तमम् ।
पापबन्धाच्च शापाच्च ग्राहं चाद्भुतकर्मकृत् ॥ ७५॥

ऋषिभिः स्तूयमानश्च देवगुह्यपरायणैः ।
गतः स भगवान् विष्णुर्दुर्विज्ञेयगतिः प्रभुः ॥ ७६॥

गजेन्द्रमोक्षणं दृष्ट्वा देवाः शक्रपुरोगमाः ।
ववन्दिरे महात्मानं प्रभुं नारायणं हरिम् ॥ ७७॥

महर्षयश्चारणाश्च दृष्ट्वा गजविमोक्षणम् ।
विस्मयोत्फुल्लनयनाः संस्तुवन्ति जनार्दनम् ॥ ७८॥

प्रजापतिपतिर्ब्रह्मा चक्रपाणिविचेष्टितम् ।
गजेन्द्रमोक्षणं दृष्ट्वा इदं वचनमब्रवीत् ॥ ७९॥

य इदं श‍ृणुयान्नित्यं प्रातरुत्थाय मानवः ।
प्राप्नुयात् परमां सिद्धिं दुःस्वप्नस्तस्य नश्यति ॥ ८०॥

गजेन्द्रमोक्षणं पुण्यं सर्वपापप्रणाशनम् ।
कथितेन स्मृतेनाथ श्रुतेन च तपोधनः ।
गजेन्द्रमोक्षणेनेह सद्यः पापात् प्रमुच्यते ॥ ८१॥

एतत्पवित्रं परमं सुपुण्यं सङ्कीर्तनीयं चरितं मुरारेः ।
यस्मिन् किलोक्ते बहुपापबन्धनात् लभ्येत मोक्षो द्विरदेन यद्वत् ॥ ८२॥

अजं वरेण्यं वरपद्मनाभं नारायणं ब्रह्मनिधिं सुरेशम् ।
तं देवगुह्यं पुरुषं पुराणं वन्दाम्यहं लोकपतिं वरेण्यम् ॥ ८३॥

पुलस्त्य उवाच ।
एतत् तवोक्तं प्रवरं स्तवानां स्तवं मुरारेर्वरनागकीर्तनम् ।
यं कीर्त्य संश्रुत्य तथा विचिन्त्य पापापनोदं पुरुषो लभेत ॥ ८४॥

इति श्रीवामनपुराणे पुलस्त्यनारदसंवादे वामनप्रादुर्भावे
गजेन्द्रमोक्षणं नाम पञ्चाशीतितमोऽध्यायः ॥ ८५॥